________________
[चतुर्थ पर्व
10
३२२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं स्वच्छन्दं क्रीडतोऽन्येचुरश्वग्रीवस्य भूपतेः । अरिष्टांभ्रमिवाऽऽकाशेऽकाण्डे चिन्तेति हृद्यभूत् ॥ २५९ ॥ __ अपागभरतवर्षार्धे ये केऽपि वसुधाभुजः। मद्धजस्थानि तेऽमजेन्नम्भोधौ भूधरा इव ॥ २६० ॥ पृथिव्यामेकमल्लस्य तस्यापि वधको मम । मृगेष्विव मृगेन्द्रस्य को राजसु भविष्यति ? ॥ २६१ ॥ दुर्ज्ञानमेतदथवा ज्ञास्यामीति विमृश्य सः । अश्वबिन्दु निमित्तझं द्वाःस्थेनाऽऽजूहवत् क्षणात् ।। २६२ ।। राज्ञा स्ववचनं पृष्टः स तु नैमित्तिकोऽवदत् । शान्तं पापं प्रतिहतममङ्गलमिदं वचः ॥ २६३ ॥ तवाशेषजगजिष्णोरन्तकोऽप्यन्तको न हि । वराकः कोऽपरो नाम मनुष्येषु भविष्यति ॥ २६४ ॥ हयग्रीवोऽप्युवाचैवमर्थवादं विहाय भोः ! । यथार्थ ब्रूहि मा भैपीर्नह्याप्त चाटुभाषिणः ॥ २६५ ॥ राज्ञैवं साग्रहं पृष्टः सोऽथ नैमित्तिकाग्रणीः । लनादिकं विचार्येति व्याजहार स्फुटाक्षरम् ॥ २६६ ॥ धर्षयिष्यति यो दूतं चण्डवेगाभिधं तव । पश्चिमान्तस्थसिंहस्य यश्च हन्ता तवापि सः ॥ २६७ ॥ प्रवासी स्तनितेनेव म्लानो वाचा तया नृपः । कृत्वा कृत्रिमपूजां तं व्यसृजद् वैरिदूतवत् ॥ २६८ ॥ राजा केसरियूनाऽथ देशे तेनोद्वसीकृते । शालीनारोपयत् सिंहवधकज्ञानहेतवे ॥ २६९ ॥ रक्षार्थ शालिवापानां स क्रमात् पृथिवीपतीन् । षोडशसहस्रसङ्ख्यान् निदिदेश विशांपतिः ॥ २७० ॥ गत्वा क्रमात् ते सन्नद्धा नृपाः पञ्चाननात् ततः। तान् शालिक्षेत्रिणोरक्षन् गोभ्यः क्षेत्राणि गोपवत् ॥२७१॥
सावहित्थमथाऽऽस्थानीमास्थाय पृथिवीपतिः । इत्यूचेऽमात्य-सेनानी-सामन्तादीन् सभासदः ॥२७२॥ अधुना नृप-सेनानीप्रभृतीनां महाभुजः । कुमारः कश्चिदप्यस्ति किमसामान्य विक्रमः १ ।। २७३ ॥ तेऽप्यूचुर्देव! तेजस्वी सति कस्तिग्मतेजसि । प्रभञ्जने क ओजस्वी ? रहस्त्री को गरुत्मति ? ॥ २७४॥ को गौरवी मेरुगिरौ ? गम्भीरः कश्च सागरे । विक्रमाक्रान्तविक्रान्ते त्वयि को नाम विक्रमी ? ॥२७५॥
॥ युग्मम् ॥ राजाऽप्युवाच चाटूक्तिरियं भोः! न तु वास्तवम् । बलिनो यद् बलिभ्योऽपि बहुरत्ना हि भूरियम् ॥२७६॥ 20: ततश्च तेषु कोऽप्येकः सचिवश्चारुलोचनः । वाचस्पतिरिवोवाच वाचा स्फुटयथार्थया ॥ २७७ ॥
प्रजापतिनृपस्य स्तः कुमारावमरोपमौ । मर्त्यवीरान् मन्यमानौ तृणाय सकलानपि ॥ २७८ ॥ सभा विसृज्य राजाऽथ विससर्ज प्रजापतेः । अन्तिके चण्डवेगं तं दृतमर्थेन केनचित् ॥ २७९ ॥ रथिभिः सादिभिः सारैः संसार कतिभिर्दिनः । दृतः स पोतनपुरं स्वामितेज इवाङ्गवत् ॥ २८०॥
तत्र प्रजापतिनृपः सर्वालङ्कारभूषितः । सहाञ्चल-त्रिपृष्ठाभ्यां सामन्तैरप्यनेकशः ॥ २८१ ॥ 25 सेनापति महामात्य-पुरोधःप्रमुखैरपि । वृतः प्रधानपुरुषैर्यादोभिरिव पाशैभृत् ।। २८२ ॥
विचित्रचारीकरणा-ऽङ्गहारोद्वृत्तनर्तकम् । ध्वनन्मृदङ्गनिर्घोषघोषितव्योमकन्दरम् ॥ २८३ ॥ सुव्यक्तगीतोद्गारेण सञ्जीवापितवेणुकम् । विपश्चितंग्राम-रागविपश्चीरचितश्रुति ॥ २८४ ॥ तालानुसारैः प्रक्रान्तगीतसङ्गीतकं तदा । निःशकं कारयन्नासीन्महर्द्धिक इवामरः ॥ २८५ ॥
॥पञ्चभिः कुलकम् ॥
१ उपद्रवजनकम् अभ्रम् । २ अनवसरे । ३ स्थाम शौर्यम्। ४ अमजन्-बुडिताः। * मृगेष्वपि मृ संवृ०॥ ५ अन्तकः-यमः, अन्तकः-विनाशकारी। राशति सा संबृ०॥ यो हन्ता स तवापि हि संवृ०॥ ६ उद्वसम्निर्जनम् , भाषायाम् 'उजड' इति । नां क्रमेण पृथिवीपतीन् । स षोडश सहस्राणि निदि° संवृ०॥ ७ पञ्चाननः सिंहः। ८ अवहित्था आकारगोपनम् । ९तिग्मतेजाः सूर्यः । प्रभञ्जनः वायुः । रहस्वी वेगवान् । गरुत्मान् गरुडः। 1स्वी जवी को वा गरु संवृ०॥ १० वीरान् तृणतुल्यान् मन्यमानौ। ११ सादिनः अश्ववाराः । १२ ससार-जगाम । १३ जलदेवरूपः वरुणः। १४ चारीकरणं गत्या अभिनयः । अङ्गहारः शारीरिकः अभिनयः। उत्तम् तं गमनम् । १५ सजीवापित०-वेत. नावस्कृतः। १६ विपश्चितः विस्तीर्णः। १७विपञ्ची-बीणा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org