________________
प्रथमः सर्ग:] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३२१ कारागारात् पुरा बद्धान् गोपो गा इव वाटकात् । हृष्टो रिपूनपि रिपुप्रतिशत्रुरथामुचत् ॥ २२९ ॥ यथाकामं ददौ सोऽर्थानर्थिभ्यः कामधेनुवत् । कर्तुं स्थानमिवैष्यन्त्या अर्धचक्रधरश्रियः ॥ २३० ॥ तथाऽभूदुत्सवः प्राज्यो जने तस्मिन् निरन्तरः । यथा सपुत्रजन्मेव सोद्वाह इव सोऽभवत् ॥ २३१ ॥ मङ्गल्यपाणयो नार्यो ननृतू राजवेश्मनि । मिथः सङ्घर्षतो ग्रामागमाश्लेषपराः पुरः ॥ २३२ ॥ स्थाने स्थाने तोरणानि सङ्गीतानि पदे पदे । अजायन्त पुरे तस्मिन्नभितो राजवेश्मवत् ॥ २३३ ॥ 5 दृष्ट्वा वंशत्रयं पृष्ठे त्रिपृष्ठ इति भूपतिः । नास तस्याकरोत् सूनोरुत्सवेन महीयसा ॥ २३४ ॥ लाल्यमानः स धात्रीमी रम्यमाणोऽचलेन च । वासुदेवस्त्रिपृष्ठाख्यो व्यवर्धत शनैः शनैः ॥ २३५॥ स बालो बलभद्रेण प्रवणत्पादघरिः । अग्रेसरेण चिक्रीड प्रतिकारेण हस्तिवत् ॥ २३६ ॥ लीलयैव महाप्राज्ञः स उपाध्यायसाक्षिकम् । प्रतिबिम्बमिवाऽऽदेर्शो जग्राह सकलाः कलाः ॥ २३७ ॥ क्रमेण कवर्चहरो दृढोरस्को महाभुजः । बभूव बलभद्रस्य सवया इव सोऽनुजः ॥ २३८॥ 10 असञ्जातान्तरौ नित्यं क्रीडन्तौ भ्रातरावुभौ । बभ्राजाते मूर्तिमन्तौ पक्षाविव सिता-ऽसितौ ॥ २३९ ॥ नील-पीताम्बरधरौ तौ ताल-गरुडध्वजौ । अशोमेतां स्वर्णशैला-ऽञ्जनाद्री इव जङ्गमौ ॥ २४०॥ क्रीडयापि प्रचलतोस्तयोरचल-कृष्णयोः । पादन्यासैर्वज्रपातैरिवाऽकम्पत मेदिनी ॥ २४१॥ तयोरारूढयोः प्रौढ्दन्तिनोऽपि नृदन्तिनोः । कुम्भस्थले करतलाऽऽस्फाललीलां न सेहिरे ॥ २४२ ॥ ताभ्यां पर्यस्यमानानि क्रीडया दोभिरुर्जितैः । वल्मीकन्ति स शृङ्गाणि महाशिखरिणामपि ॥२४३॥ 15 दैत्यादिभ्योऽपि निर्भीका वितरेभ्यस्तु का कथा ? । तौ कुमारावजायेतां शरण्यं शरणार्थिनाम् ॥ २४४ ॥ विनाञ्चलं न त्रिपृष्ठो न त्रिपृष्ठं विनाञ्चलः । एकात्मानौ द्विशरीराविव तौ सह चेरतुः ॥ २४५ ॥ ___ इतश्चाऽऽसीत् पुरे रत्नपुरे नीलाञ्जनामः । प्रतिविष्णुरश्वग्रीवो मयूरग्रीवनन्दनः ॥२४६ ॥ सोऽशीतिधनुरुत्तुङ्गो नवनीरधरच्छविः । चतुरशीत्यब्दलक्षामितायुर्महाभुजः ॥ २४७ ॥ तस्य दोर्दण्डयोः कण्डूर्नाऽशाम्यद् वैरिकुट्टनैः । सिंहस्येव महाँकुम्भिकुम्भस्थलविपाटनैः ॥ २४८॥ 20 महौजाः स महाबाहुर्महाहवैकुतूहली । पिप्रिये" न तथा ननैयुध्यमानैर्यथाऽरिभिः ॥ २४९॥ नित्यं नेत्रारविन्दानामश्रुघृष्टिं प्रवर्तयन् । तत्प्रतापोऽरिनारीषु वारुणास्त्रमिवाऽभवत् ॥ २५० ॥ तस्य चाऽऽक्रान्तदिक्कक्र करे चक्रमलक्ष्यत । उत्पातभूतो द्विषतां द्वितीय इव भास्करः ॥ २५१ ॥ हृदयस्थो विदित्वाऽस्मान् विरुद्धान् मा वधीदिति । नाभक्तिं मनसाऽप्यस्य विदधुर्वसुधाधिपाः ॥ २५२॥ योगिनः परमात्मानमिव तं हृदयानिजात् । न जातूत्तारयामासुः सर्वेऽपि पृथिवीभुजः ॥ २५३॥ 25 स आघाटशिलास्तम्भीभूतवैताख्यपर्वतम् । त्रिखण्डं भरतक्षेत्रमात्मसौंदकृतौजसा ॥ २५४ ॥ द्वे च विद्याधरश्रेण्यौ वैताढ्याद्रेर्भुजाविव । विद्यौजोभ्यां परीजिग्ये स विद्याधरपुङ्गवः ॥ २५५ ॥ मागधेश-प्रभासेश-वरदामाधिपैरसौ । प्राभृतैरर्चयाञ्चक्रे सुरैरपि नृपैरिव ॥ २५६ ॥ राज्ञां मुकुटबद्धानां सहस्राः षोडशाऽनिशम् । तच्छासनं मुकुटवद् धारयामासुरूर्जितम् ॥ २५७ ॥ एकातपत्रं साम्राज्यं मुञ्जानः स महाभुजः । अतिवाहितवान् कालं पृथव्यामिन्द्र इव स्थितः ॥२५८ ॥30
१ वाटक:-भाषायाम् 'वाडो'। २ पुत्रजन्मसहित इव, विवाहसहित इव । उद्वाहः विवाह । ३ पृष्ठम्-भाषायाम् 'पीठ' 'वासो' । अयं समग्रः श्लोकः 'यदवोचाम' इत्युल्लिख्य अक्षरशः समुद्धतः आचार्यहेमचन्द्रेण अभिधानचिन्तामणिकोशस्वोपझटीका. याम् कां. ३ श्लो० ३५९ पृ. २७९ । ४ घर्धरिः-भाषायाम् 'घुघरी। ५ आदर्श:-भाषायाम् 'अरिसो-दर्पण'। ६ कवचहर:कवचहरणसमर्थः। ७ शोभितौ स्तः। प्रौढगजाः । दन्ती-गजः, नररूपदन्तिनोः। ९ परिक्षिप्यमाणानि । १० वरुमीकसाभानि भवन्ति । वक्ष्मीकम्-भाषायाम् 'बांबी-राफडो' इति । ११ प्रसूः-पुत्रः। १२ नीरधरो मेघः। छविः कान्तिः । शम्भी -जः। १४ आहवः-समराङ्गणम् । १५ पिप्रिये-प्रसन्नतां प्राप्तः। १६ अभक्तिः अनादरः । १७ आघाटः सीमा । १० भास्मसातू-अभीनम्, भकृत मोजसा-इति विभागः। १९ मोजा भारता। २. पराजयं प्राप।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org