________________
10
कलिकालसर्वशश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व सुरा-ऽसर-नरेन्द्राणां पुण्येभ्योऽप्यतिशायिभिः । उपस्थितेयं मे पुण्यैर्जन्मान्तरशतार्जितैः ॥ १९७ ॥ एवं विचिन्त्य नृपतिः प्रियालापपुरःसरम् । अङ्कमारोपयामास तां सद्यः प्राणवल्लभाम् ॥ १९८॥ अनुरागे स आरोप्य स्पर्शा-ऽऽलिङ्गन-चुम्बनैः । तां जरत्कञ्चुकिवरैरन्तःपुरमनाययत् ॥ १९९ ॥
पौरलोकान् समाहृय सह प्रकृतिभिस्ततः । लोकापवादरक्षार्थमपृच्छत पृथिवीपतिः ॥२०॥ मदीयभूमौ ग्रामेषु पुरेष्वन्यत्र वा क्वचित् । यत् समुत्पद्यते रत्नं तत् कस्येति निवेद्यताम् ॥ २०१॥ लोकोऽप्यूचे भवद्भूमौ यद् रत्नं जायते क्वचित् । तस्य स्वामी भवानेव नान्यो भवितुमर्हति ॥ २०२॥ इति तं निर्णयं स त्रिर्गृहीत्वा पृथिवीपतिः । तेषां द्राग् दर्शयामास निजकन्यां मृगावतीम् ॥ २०३ ॥ इत्युवाच च तान् भूयः कन्यारत्नमिदं हि मे । इदानीं परिणेष्यामि स्वयं युष्मदनुज्ञया ॥ २०४ ॥ इत्युक्ते लजिताः पौरा ययुर्निजनिजं गृहम् । गान्धर्वेण विवाहेन पर्यणैषीच तां नृपः ॥२०५॥ वसुतायाः पतिरभूत् तेन तस्य महीपतेः । नाम प्रजापतिरिति पप्रथे पृथिवीतले ॥ २०६ ॥
नवं कुलकलङ्कं तं हसनीयं जनेऽखिले । महालजाकरं पत्युः श्रुत्वा भद्राऽत्यलज्जत ॥ २०७॥ सहाऽचलेन पुत्रेण साऽचालीद् दक्षिणापथे । श्रेयान् स देशो नो यत्र श्रूयन्ते दुर्जनोक्तयः ॥२०॥ मातुः कृते दक्षिणस्यां विश्वकर्मेव नूतनः । माहेश्वरीति नगरीमस्थापयदथाऽचलः ॥ २०९ ॥
तां च श्रीद इवाऽयोध्यामाहृत्याऽऽहृत्य सर्वतः । हिरण्यैः पूरयामास बलदेवोऽचलाभिधः ॥ २१०॥ 15 कुलीनैः सचिवैरात्मरक्षैर्दासजनैर्वृताम् । मूं मिव पुरीदेवीं मातरं तत्र सोऽमुचत् ॥ २११॥
भद्रापि स्त्रीशिरोरत्नं शीलालङ्करणा सती । देवपूजादिषट्कर्मरता तस्यामवास्थित ॥ २१२ ॥ भक्तिमान् बलदेवोऽपि तत् पोतनपुरं ययौ । यादृशस्तादृशो वाऽपि पूजनीयः पिता सताम् ॥ २१३ ॥ शुश्रूषमाणः पितरं पूर्ववत् तत्र चाऽचलः । तस्थौ न पूज्यचरितं चर्चयन्ति मनीषिणः ॥ २१४ ॥
राजाऽपि स्थापयामास तामग्रमहिपीपदे । मृगावती मुंगदृशं मृगेलक्ष्मेव रोहिणीम् ॥ २१५॥ 20 कियत्यपि गते काले महाशुक्रात् परिच्युतः। विश्वभूतिमुने वस्तस्याः कुक्षाववातरत् ॥ २१६॥
यामिन्याः पश्चिमे यामे सूचका विष्णुजन्मनः । देव्या ददृशिरे स्वमाः सप्तेते सुखसुप्तया ॥ २१७॥ तत्राऽऽदौ केसरियुवा कुङ्कुमारुणकेसरः । इन्दुलेखानिभनखश्चमरोपमबालधिः ॥२१८ ॥ कुञ्जराभ्यां पूर्णकुम्भहस्ताभ्यां क्षीरवारिभिः । क्रियमाणाभिषेका च पद्मा पद्मासनस्थिता ॥ २१९ ॥
ध्वंसमानो महाध्वान्तं दोषाऽपि जनयन्त्रहः । उद्दण्डतेजःप्रसरस्त्विषामधिपतिस्ततः ॥ २२० ॥ 25 स्वच्छ-स्वादुपयःपूर्णः पुण्डरीकार्चिताननः । सोवर्णघण्टिकः पुष्पमाली कुम्भस्ततोऽपि च ॥ २२१॥
नानाजलचराकीर्णो रत्नसम्भारभासुरः । गगनोदेश्चिकल्लोलस्ततः कल्लोलिनीपतिः ।। २२२ ॥ पञ्चवर्णमणिज्योतिःप्रसरेगगनाङ्गणे । विपश्चितेन्द्रचापश्री रत्नानां सञ्चयस्ततः ।। २२३ ।। धूमध्वजश्च निघूमो ज्वालापल्लविताम्बरः । दृशोः सुखंकरालोकः सप्तमश्चेति सप्तं ते ॥ २२४ ॥
उद्बुद्धया तयाऽऽख्यातान् स्वमान् व्याख्यन्महीपतिः। अर्धचक्री तव सूनुनूनं देवि! भविष्यति ॥२२५॥ 30 राज्ञा सद्यः समाहूय पृष्टा नेमित्तिका अपि । स्वप्नांस्तथैव व्याचख्युर्विसंवादो न धीमताम् ।। २२६ ।।
पूर्णे काले च सा देवी सर्वलक्षणलक्षितम् । अशीतिधनुरुत्तुङ्गं कृष्णाङ्गं सुपुवे सुतम् ॥ २२७ ।। प्रससाद कैकुपचंक्रमुल्ललास वसुन्धरा । जहर्ष च जनः सर्वस्तस्येव नृपतेर्मनः ॥ २२८ ॥
१जरत्कञ्चकिनः-वृद्धकञ्चकिनः; कझुकी- अन्तःपुररक्षकः। २ प्रकृतिः प्रधानमण्डलम् । ३ अयोध्यानगरीम् । ४ आकारचारिणी नगरीदेवीमिव । * मृगनेत्रां मृ° संकृ॥ ५ मृगलक्ष्मा-चन्द्रः । ६ दोषा-रात्रिः। ७ स्विद-कान्तिः, तदधिपतिः सर्यः। घण्टिका-भाषायाम 'घंटडी'। ९ उनञ्जी-ऊर्ध्वगामी। १० विपश्चितम्-विस्तीर्णम् । ११धूमध्वजा-अग्निः । १२ अम्बरम्-गगनम् । सुखाक संवृ०॥ सप्तके संबृ०॥ १३ ककुपचक्रम्-दिशामण्डलम् । 'चक्रं प्रापोग्लासं वसु संवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org