________________
कलिकालसर्वज्ञ श्रीमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व
१४४ ॥
॥
एवमुक्त्वा विश्वभूतिर्विभृर्ति तृणवअहौ । सम्भूतमुनिपादान्ते गत्वा च व्रतमाद्दे ।। १३७ ॥ तच श्रुत्वा विश्वनन्दी सान्तःपुरपरिच्छदः । सहितो युवराजेन स्वयं तत्र समाययौ ॥ १३८ ॥ सूरिपादान् नमस्कृत्य विश्वभूतिमुपेत्य च । विश्वनन्दी निरानन्दः सगद्गदमदोऽवदत् ॥ १३९ ॥ अस्मानापृच्छय सर्व त्वमकार्षीर्वत्स ! सर्वदा । सहसा कृतवानेतत् किमस्मद्भाग्यसङ्क्षयात् १ ॥ १४० ॥ त्वय्याशा राज्यधरणे ताताऽस्माकं सदैव हि । अकाण्डे किर्मभाङ्गीस्तां त्वं त्राता व्यसनेषु नः ॥ १४१ ॥ वाद्यापि तं वत्स ! भोगान् यदृच्छया । रमस्व स्वैरमुद्याने प्राग्वत् पुष्पकरण्डके ॥ १४२ ॥ विश्वभूतिरथावोचदलं मे भोगसम्पदा । सुखं वैषयिकमिदं वस्तुतो दुःखमेव हि ॥ १४३ ॥ पाशन्ति भवकारायां स्वजन स्नेहतन्तवः । जन्तव स्तैर्हि मुह्यन्ति लालाभिरिव मर्कटाः ॥ किञ्चिन्नातः परं वाच्यश्चरिष्यामि तपः परम् । परलोके सह याति सहायीभूय तत् खलु 10 इति तेनोदिते राजा सानुतापो ययौ गृहम् । विश्वभूतिर्मुनिरपि व्यहार्षीद् गुरुणा सह ॥ षष्ठाष्टमादिनिरतो गुरुशुश्रूषणोद्यतः । क्रमात् सोऽधीतसूत्रार्थो भूयांसं कालमत्यगात् ॥ गुरोरनुज्ञयैकाकि विहारप्रतिमाधरः । स विहर्तुं प्रववृते ग्रामा-ssकर - पुरादिषु ॥ १४८ ॥ विविधाभिग्रहपरो विहरन्नेकदा च सः । विश्वभूतिर्महासाधुर्जगाम मथुरां पुरीम् ॥ १४९ ॥ पैतृष्वसेयीमुद्रोढुं मथुराराजकन्यकाम् । विशाखनन्दी तत्राऽऽगात् तदा च सपरिच्छदः । १५० ।। 15 विश्वभूतिश्व मासान्तपारणाय परिभ्रमन् । विशाखनन्दिशिविरं निकषा समुपाययौ ॥ १५१ ॥ विशाखनन्दिने यान्तं पुरुषास्तमदर्शयन् । विश्वभूतिकुमारोऽसाविति व्याहारिणो मुहुः ॥ १५२ ॥ विशाखनन्दिनो रोषः सद्यस्तद्दर्शनादभृत् । गवैकया च पर्यस्तो विश्वभूतिस्तदाऽपतत् ॥ १५३ ॥ विशाखनन्दी हसित्वा विश्वभूति मदोऽवदत् । कपित्थपातनं स्थाम तत् केदानीमहो । गतम् ॥ ॥ १५४ ॥ विशाखनन्दिनं दृष्ट्वा विश्वभूति रेंमर्षणः । गृहीत्वा शृङ्गयोस्तां गां भ्रमयामास लवत् ।। १५५ ।। 20 ततो निवृत्तो दध्यौ च विश्वभूतिरिदं हृदि । मय्यद्यापि सरोषोऽयं निःसङ्गेऽपि हि दुर्मनाः ।। १५६ ।। अनेन तपसोग्रेण मृत्यवेऽस्य भवान्तरे । भूयासं भूरिवीर्योऽहं निदानं चेति सोऽकरोत् ॥ १५७ ॥ सम्पूर्ण कोटिवर्षायुरनालोच्य च तन्मृतः । महाशुक्रे विश्वभूतिरुत्कृष्टायुः सुरोऽभवत् ।। १५८ ।।
इतश्च पोतनपुरं पुरमस्त्युच्चगोपुरम् । अपाग्भरतवर्षार्धभ्रुवो मुकुटसन्निभम् ॥ १५९ ॥ अभूत् पुरे तत्र रिपुप्रतिशत्रुर्महीपतिः । शोभमानो गुणैस्तैस्तै रहर्पतिरिवांशुभिः ॥ १६० ॥ षाड्गुण्येन स षट्खण्ड्या भरतक्षेत्रवद् बभौ । उपायैरपि चतुर्भिर्दन्तैरिव सुरद्विपः || १६१ ॥ स सिंह इव शौर्येण स्तम्बेरंम इवौजसा । कन्दर्प इव रूपेण धिया गुरुरिवाऽभवत् ॥ १६२ ॥ अवनी साधनविधावतिप्रकटपाटवौ । मिथो धी- विक्रमौ तस्य व्यभूष्येतां भुजाविव ॥ १६३ ॥ भद्रेति नाम्ना महिषी भद्राणां भद्रमास्पदम् । बभूव भूपतेस्तस्य भूरिर्वाऽऽत्तशरीरिका ॥ १६४ ॥ पतिभक्त्या कवचिता यमिकीव ररक्ष सा । अनारतं जागरूका शीलं रत्ननिधानवत् ॥ १६५ ॥ 30 अक्ष्णोः सुधावर्तिरिव राज्यलक्ष्मीरिवाङ्गिनी । मूर्त्ता कुलव्यवस्थेव चकासामास साऽनिशम् ॥ १६६ ॥ च्युत्वा सुबलजीवोsपि स विमानादनुत्तरात् । अन्यदा तु महादेव्यास्तस्याः कुक्षाववातरत् ॥ १६७ ॥
5
25
३१८
Jain Education International
१४५ ॥
१४६ ॥
+
१ भग्नां चकार । २ दिलासं कुरु । ३ बन्धनरूपा भवन्ति । ४ लाला भाषायाम 'लाल' इति 'मर्कट' इति भाषायाम् करोळियो । ५ पितृष्वसुः पुत्रीम् । पितृष्वसा भाषायाम् 'फई' इति । ६ समीपम् । ७ पर्यस्तः- आघातं प्रापितः । ८ स्वामपराक्रमः । ९ अमर्षणः असहनशीलः । १० पूलः भाषायाम् 'पूळो' इति । ११ १३ गुरुः- वाचस्पतिः । १४ आतशरीरिका पहराशी शरीरधारिणी भूः पृथिवी इव । पहरेदार' । १० सुधाया वर्तिः इव । वर्तिः भाषायाम् 'वाट-दीवेट' |
गोपुरम-द्वारम् । १२ स्तम्बेरमः हस्ती ।
१५ कवचयुक्तां | १६ यामिकी- भाषायाम्,
For Private & Personal Use Only
१४७ ॥
www.jainelibrary.org