________________
प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३१७ अमरैर्वसुधारादिपञ्चकं विदधे ततः । रत्नपीठं स्वामिपादस्थाने नन्दनृपेण तु ॥१०६॥ ततः स्थानादथ स्वामी ग्रामा-ऽऽकर-पुरादिषु । अप्रतिबद्धो विहाँ प्रावर्तत समीरवत् ॥ १०७ ॥ ___ इतश्च पुण्डरीकिण्यां प्राग्विदेहशिरोमणौ । पुर्यभूत् सुबलो राजा स महीं चिरमन्वशात् ॥१०८॥ पार्थे मुनिवृषभर्षेः प्रव्रज्य समये च सः। तपस्तप्त्वा च मृत्वा च विमानेऽनुत्तरे ययौ ॥ १०९ ॥ इतः पुरे राजगृहे विश्वनन्दिमहीपतेः । पन्यां प्रियङ्गो विशाखनन्दी नाम सुतोऽभवत् ॥११०॥ 5 विश्वनन्दिनरेन्द्रस्यावरजो युवराउभूत् । विशाखभूतिर्मतिमान् वीर्यवान् विनयी नयी ॥ १११॥ विशाखभूतेर्भार्यायां धारिण्यां तनयोऽभवत् । मरीचिजीवः सुकृतैरनन्तरभवार्जितैः ॥ ११२ ॥ विश्वभतिरिति नाम पितरौ तस्य चक्रतः । धात्रीजनाल्यमानो व्यवर्धिष्ट क्रमाच्च सः॥११३॥ कलाकलापं सोऽध्यैष्ट प्रपेदे सकलान गणान अङ्गस्य मर्तनेपथ्यं क्रमात प्राप च यौवनम ॥११४॥ सान्तःपुरः स चिक्रीडोद्याने पुष्पकरण्डके । मनोज्ञतरुभूयिष्ठे भृमिष्ठ इव नन्दने ॥ ११५ ॥ 10 विशाखनन्दी क्रीडेच्छुस्तत्र राजसुतोऽप्यभूत् । तत् तूद्यानं न जात्वासीद् रहितं विश्वभूतिना ॥११६॥ विशाखनन्दिजननीदास्यः पुष्पार्थमागताः । तत्रापश्यन् विश्वभूतिं क्रीडन्तं सप्रियाजनम् ॥११७॥ सेाः प्रियङ्गुदेवीं ताः समुपेत्येदमूचिरे। यौवराजिर्विश्वभूतिरेव राजेह नापरः ॥ ११८ ।। सान्तःपुरोऽपि हि सदोद्याने पुष्पकरण्डके । स क्रीडति बहिस्ते तु सुतस्तिष्ठति वारितः ॥ ११९ ॥ तच्छुत्वा कुपिता देवी प्राविशत् कोपवेश्मनि । किमेतदिति सा सद्यो राज्ञा पृष्टाऽब्रवीदिदम् ॥ १२० ॥ 15 गजेव रमते विश्वभूतिः पुष्पकरण्डके । त्वयि सत्यपि मे सूनुर्बहिस्तिष्ठति रङ्कवत् ॥ १२१ ॥ राजाऽप्यूचे व्यवस्थेयं कुलेऽस्माकं हि मानिनि ! । क्रीडत्येकसिन् कुमारे द्वितीयः प्रविशेन हि ॥१२२॥ इत्याख्यातेऽपि भूपेन सा नाऽबुद्ध मनस्विनी । उपायज्ञस्ततो राजा यात्राभेरीमवादयत् ॥ १२३ ॥ आज्ञा पुरुषसिंहाख्यः सामन्तो न करोति नः । इति तसै प्रस्थिताः स इत्युक्तिं च नृपोऽकरोत् ॥१२४॥ तच्छुत्वा सम्भ्रमाद् विश्वभूतिरेत्याऽब्रवीदिदम् । मयि सत्यपि किं तातः स्वयं युद्धाय यास्यति ॥१२५॥20 इत्याद्युक्त्वा सनिबन्धं निवार्य पृथिवीपतिम् । विश्वभूतिबेलयुतस्तत्सामन्तभुवं ययौ ॥ १२६॥ श्रुत्वा कुमारमायान्तं स सामन्तः ससम्भ्रमम् । अभ्येत्य भृत्यवद् भक्त्या निनाय निजवेश्मनि ॥१२७॥ खामिन् ! किं करवाणीति वदन्नग्रे कृताञ्जलिः । हस्त्यश्वाद्युपँदादानाद् विश्वभूतिमरञ्जयत् ॥१२८॥ विरुद्धादर्शनाद् विश्वभूतिर्निववृते ततः । पथा यथागतेनैव को हि कुप्येदनांगसे १ ॥ १२९॥ ___ इतश्च विशाखनन्दी राज्ञोद्याने प्रवेशितः । देशं भ्रान्त्वा विश्वभूतिरप्यागात् तत्र पूर्ववत् ॥१३०॥25 विशाखनन्दी मध्येऽस्तीत्युदित्वा वेत्रपाणिना । वारितः स तथैवाऽस्थान्मयोंदा-स्थामवारिधिः ॥१३१॥ दध्यौ चैवं विश्वभूतिस्तदाऽहममुतो वनात् । वनद्विप इवाऽऽकृष्टश्छमना ही! करोमि किम् ? ॥१३२॥ एवं कुमारः कुपितः कपित्थं फलमालिनम् । मुष्टिना ताडयामास दन्तेनेव मतङ्गजः ।। १३३ ॥ कपित्थैः पातितैश्छन्नां परितस्तदधोभुवम् । प्रदर्शयन् विश्वभूतिस्तमूचे वेत्रधारिणम् ।। १३४ ॥ इत्थङ्कारं पातयामि सर्वेषां वः शिरांस्यपि । यदि ज्यायसि मे ताते भक्तिर्न ह्यन्तरा भवेत् ॥ १३५ ॥ 30 यदर्थ वचनोपाय एवं हन्त ! प्रवर्तते । तदलं मम तैर्भोगीपणेर्भोगिंभोगवत् ॥ १३६ ॥
समीरः-पवनः। २ पुरि+अभूत् । * इतश्चाऽऽसीद् राजगृहे विश्वनन्दीति भूपतिः। विशाखनन्दी तत्पत्यां प्रियङ्गी तनयोऽभवत् ॥ संवृ०॥ ३ लघुबन्धुः युवराड् अभूत् । ४ भरतपुत्रस्य मरीचे वः। तस्य कथा प्रथमपर्वणि धर्णिता। ५ आकारयुक्तं नेपथ्यम् । ६ युवराजपुत्रः। ७ उपदा-उपायनम् । ८ निरपराधाय। ९ वेत्रपाणिः-द्वारपाला । १० मर्यादायाः स्थान:-पराक्रमस्य च समुद्रः। ॥ फलशोभितं कपित्थवृक्षम् , भाषायाम् 'कपित्थ' इति 'कोठे'। १२ भोगी-सर्पः मोगा-फणा।
भिषा ४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org