________________
15
३१६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थं पर्व संहत्य स्फाटिकानुक्ष्णः कृत्वा चर्चादिकं प्रभोः । उत्तार्याऽऽरात्रिकं चेति स्तोतुं शक्रः प्रचक्रमे ॥७४॥
सर्वकल्याणकश्रेष्ठं जन्मकल्याणकं तव । विश्राणयतु कल्याणं कल्याणीभक्तिके मयि ॥ ७५ ॥ स्लपयाम्यथ चर्चामि ? किमर्चामि ? स्तवीमि किम् ? । त्वामितीश ! न तृप्तिमें त्वदाराधनकर्मणि ॥७६॥ वृषः कुतीर्थिकव्याघ्रत्रासितस्त्वयि रक्षके । अमुष्मिन् भरतक्षेत्रे स्वैरं चरतु सम्प्रति ॥ ७७ ॥ अद्य खयमधिष्ठाय हृदयायतनं मम । दिष्ट्या देवाधिदेव ! त्वं सनाथीकुरुषेतराम् ।। ७८ ॥ न तथा भूषणं नाथ ! ममैभिर्मुकुटादिभिः । यथा शिरोऽग्रलुठितैस्त्वत्पादनखरश्मिभिः ॥ ७९ ॥ न तथा त्रिजगन्नाथ ! स्तूयमानस्य मागधैः । मम प्रमोदो भवति त्वद्गुणान् स्तुवतो यथा ॥ ८०॥ रत्नसिंहासनस्थस्य न हि मध्येसभं तथा । उच्चैस्त्वं त्वत्पुरो भूमिनिषण्णस्य यथा मम ॥ ८१॥ खाराज्यसम्भवामेतां न काङ्गामि स्वतन्त्रताम् । परतत्रश्चिरं भूयां नाथेन भवता प्रभो ! ॥ ८२ ॥ इति स्तुत्वा गृहीत्वेशं गत्वार्हन्मातुरन्तिके | संहत्याऽर्हत्प्रतिच्छन्दा-ऽवस्वापिन्यौ न्यधारिः ॥ ८३ ॥ स्वामिसतिगृहाच्छको मेरुशैलादथापरे । इन्द्रा जग्मुर्यथास्थानं विमृष्टा इव सेवकाः ॥ ८४॥
महान्तमुत्सवं चक्रे विष्णुराजोऽप्यथ प्रगे । तदा प्रमोदो मेदिन्यामेकच्छत्र इवाभवत् ॥ ८५ ॥ जिनस्य मातापितरावुत्सवेन महीयसा । अभिधां श्रेयसि दिने श्रेयांस इति चक्रतुः ॥ ८६ ॥ धात्रीभिः शक्रादिष्टाभिाल्यमानोऽथ पञ्चभिः । पिवन शक्राऽऽहितसुधं स्वाङ्गुष्ठं स्वाभ्यवर्धत ॥ ८७ ॥ ज्ञानत्रयधरोऽपीशो मौग्ध्यं बाल्योचितं दधौ । चण्डांशुरपि न प्रातश्चण्डतामवलम्बते ॥ ८८ ॥ सुरा-ऽसुर-नृकुमारैः क्रीडन् कालेन शैशवात् । आरोहद् यौवनं स्वामी स्यन्दनादिव कुञ्जरम् ॥ ८९॥ अशीतिधनुरुत्तुङ्गः स्वामी पित्रुपरोधतः । पर्यणैषीद् राजकन्या भववैराग्यभागपि ॥ ९ ॥ जन्मतो वर्षलक्षाणां गतायामेकविंशतौ । पितुः प्रार्थनया नाथः पृथ्वीभारमुपाददे ॥ ९१॥ द्विचत्वारिंशतं वर्षलक्षाणि क्षोणिमण्डलम् । ररक्षाऽक्षीणमहिमा श्रेयांसः श्रेयसां निधिः ॥ ९२ ॥ ___स्वामी भवविरक्तोऽथ दीक्षामादित्सुरुत्सुकः । 'प्रैयतोपेत्य शकुनैरिव लौकान्तिकामरैः ॥ ९३ ॥
शक्रादेशात् कुबेरेण प्रेरितैर्जुम्भकामरैः । अर्थेन पूर्यमाणेन खाम्यदाद् दानमाब्दिकम् ॥ ९४ ॥ वत्सरान्ते समेत्येन्द्रर्जिनेन्द्रस्य व्यधीयत । दीक्षाभिषेकः कर्मारिविजयायेव सत्वरम् ॥ ९५ ॥ दिव्याङ्गरागलिप्ताङ्गो रत्नभूषणभूपितः। मङ्गल्यदिव्यवसनो मूर्तिस्थमिव मङ्गलम् ॥ ९६ ॥ विनीतेनेव भृत्येन दत्तवाहुविडोजसा । अपरेन्द्रैरपि च्छत्र-चामरादिधरैर्वृतः ॥९७ ॥
आरुह्य रत्नैर्विमलां शिविकां विमलप्रभाम्।समावृतः सुर-नरैः सहस्राब्रवणं ययौ।।९८॥त्रिभिर्विशेषकम्।। शिविकातः समुत्तीर्य तत्रौउँझद् भूषणादिकम् । देवदूष्यं देवराजन्यस्तं स्कन्धे दधार च ॥ ९९ ॥ फाल्गुनस्य त्रयोदश्यां कृष्णायां श्रवणे प्रभुः । पष्ठेनोदेखनत् केशान् पूर्वाह्ने पञ्चमुष्टिना ॥ १० ॥ केशान् शक्रः समादाय खोत्तरीयाश्चलेन तान् । चिक्षेप च क्षीरनिधौ समीरण इव क्षणात् ॥१०१॥
निषिद्धे वज्रिणा मुष्टिसंज्ञया तुमुले ततः । प्रभुश्चारित्रमारोहद् विश्वाभयविभौवनम् ॥ १०२॥ 30 विश्वनाथेन सह च सहस्रमवनीभुजः । राज्यं तृणवदुत्सृज्य समुपाददिरे व्रतम् ॥ १०३ ॥
शाश्वतार्हत्प्रतिमानां कुर्वन्तोऽष्टाह्निकोत्सवम् । सुरा-ऽसुराधिपतयः खं खं स्थानं ततो ययुः ॥ १०४ ॥ द्वितीयेऽहनि सिद्धार्थपुरे नन्दनृपौकसि । पारणं परमानेन चकार परमेश्वरः ॥१०५॥
१ स्फटिकमयान् वृषभान् । २ मङ्गलमयभक्तियुते । ३ वृषो धर्मः बलीवर्दश्च। ४ उच्चस्त्वम्-उच्चस्थानस्थितत्वम् । ५ स्वर्गराज्यम्। ६ भवेयम् । ७ संहृत्य-अपहृत्य । ८ सर्वत्र समानः-एकरूपः। ९ यत्र इन्द्रेण सुधा स्थापिता। १० सूर्यः ।
विवाहं चकार । १२ प्रैर्यत+उपेत्य । १३ वार्षिकम् । १४ तत्याज । १५ उत्पाटयामास । १६ पवनः। १७ सर्वेषाम् भभबकारकम् , जगतो वा अभयकारकम् ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org