________________
प्रथमः सर्गः ] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्
३१५ खं ज्ञापयित्वा कृत्वा च दुर्दिनं गन्धवारिभिः । सिषिचुः क्ष्मां सूतिवेश्मपरितो योजनावधिम् ॥ ४६॥ विदधुः पुष्पवृष्टिं चाधाक्षुधूपं च सुन्दरम् । गायन्त्योऽर्हद्गुणांस्तस्थुर्विष्णुदेव्या अदूरतः ॥ ४७॥
॥ त्रिभिर्विशेषकम् ॥ मचकस्य च पौरस्त्या देव्यो नन्दोत्तरादयः। अपाच्याः समाहाराद्याः प्रतीचीनास्त्विलादयः॥४८॥ अलम्बुसाद्यास्तूदीच्या अष्ट प्रत्येकमेत्य ताः । नत्वाऽर्हन्तं तदम्बां च ज्ञापयित्वा स्वमुच्चकैः ॥ ४९ ॥ 5 धृत्वा दर्पण-भृङ्गार-व्यजन-श्वेतचामरान् । पूर्वादिदिक्क्रमेणास्थुर्गायन्त्यः स्वामिनो गुणान् ॥ ५० ॥
॥त्रिभिर्विशेषकम् ॥ चतस्र एत्य चित्राद्या रुचकस्य विदिग्भवाः । तद्वन्नत्वा विदिश्वस्थुर्गायन्त्यो दीपपाणयः ॥५१॥ चतस्रो रुचकान्तस्था रूपाद्या दिक्कुमारिकाः । अर्हन्तमर्हदम्बां च नत्वा वज्ञप्तिपूर्वकम् ।। ५२ ॥ चतुरङ्गुलकोत्कर्ष स्वामिनालमखण्डयन् । खनित्वा विदरं तत्र निचख्नुस्तञ्च तन्क्षणात् ॥ ५३॥ 10
॥ युग्मम् ॥ विदरं वज्ररत्नस्तदाऽऽपूर्योपरि तस्य च । बबन्धुर्निविडं पीठं दुर्वया द्रागपूर्वया ॥ ५४॥ सूतिकावेश्मनस्तस्य चक्रुस्तिसृषु दिक्षु ताः । सिंहासनचतुःशालँवन्ति रम्भागृहाणि च ॥ ५५ ॥ हस्तेऽर्हन्तं गृहीत्वार्हन्मातरं च भुजे तथा । अपारम्भागृहचतुःशालसिंहासने न्यधुः ॥ ५६ ॥ शतपाकादिभिस्तैलैरुभावभ्यज्य तत्र ताः। गन्धद्रव्यैः सूक्ष्मपिष्टैः सुस्पर्शमुदवर्तयन् ॥ ५७॥ 15 प्राच्यरम्भागृहचतुःशालसिंहासने ततः । तौ न्यस्याऽस्लपयन् गन्ध-पुष्प-शुद्धोदकैश्च ताः ॥ ५८ ॥ ततस्ताः परिधाप्योभी वस्त्रा-ऽलङ्करणादिकम् । उदगम्भागृहचतुःशालसिंहासने न्यधुः ॥ ५९॥ गोशीर्षचन्दनं दग्ध्वा सद्यो रणिकृताग्निना । तद्भसना ववन्धुस्ता रक्षाग्रन्थि द्वयोरपि ॥ ६० ॥ पर्वतायुभवेत्याशीःपूर्वकं स्वामिकर्णयोः । ताः समास्फालयामास रत्नपाषाणगोलकौ ॥ ६१ ॥ अर्हदर्हजनन्यौ तास्ततः सूतिगृहेऽनयन् । तयोरनतिरेऽस्थुर्गायन्त्यो मङ्गलान्यथ ॥ ६२ ॥ 20
अथ शक्रः समागत्य स्वामिनः सूतिकागृहम् । पालकेन विमानेन प्रदक्षिण्यकृत द्रुतम् ॥ ६३॥ ऐशान्यां पालकं मुक्त्वा सूतिवेश्म प्रविश्य सः । अर्हन्तमर्हदम्बां च नमश्चके पुरन्दरः ॥६४॥ दत्त्वाऽवस्वापिनी देव्याः पार्थेऽर्हत्प्रेतिरूपकम् । विन्यस्याथ विचक्रे स पञ्च रूपाण्यथाऽऽत्मनः ॥६५॥ एकेन प्रभुमुद्धृत्य च्छत्रमन्येन चामरे । अन्याभ्यां वज्रं चान्येन पुरोरूपेण सोऽचलत् ॥६६॥ क्षणान्मेरावतिपाण्डुकम्बलामासदच्छिलाम् । शक्रः सिंहासने तत्राऽऽसाश्चक्रेऽङ्कस्थितप्रभुः ॥ ६७ ॥25 अथाऽच्युतप्रभृतयः कल्पेन्द्रा नव ते तथा । इन्द्रा भवनपतयो विंशतिश्चमरादयः॥६८॥ द्वात्रिंशद् व्यन्तराधीशाः कालप्रभृतयोऽपि च । सूर्या-चन्द्रमसाविन्द्रौ ज्योतिष्काणामुभौ पुनः॥६९ ॥ इति त्रिपष्टिस्तत्रेयुर्जन्मस्नात्रकृते प्रभोः । विचक्रुः पूर्णकुम्भादीन्द्राज्ञयाऽथाऽऽभियोगिकाः ॥ ७० ॥ अथाऽच्युतप्रभृतयः सर्वेऽपीन्द्रा यथाक्रमम् । स्वामिनः स्वपनं चक्रुः पवित्रैस्तीर्थवारिभिः ।। ७१॥ अथेशानपतेरङ्के शको न्यस्य जगत्पतिम् । विचक्रे दिक्कतुष्केपि चतुरः स्फाटिकान् वृपान् ॥ ७२ ॥ तेषां शृङ्गोद्गतैरन्ते मिलित्वा विनिपातिभिः । स्वामिनं स्वपयामास शक्रः शुचिभिरम्बुभिः ।। ७३ ॥ 30
दुर्दिनम्-मेघजं तमः, भाषायाम् 'वादळां' इति । २ अधाधुः-ज्वालयामासुः। ३ दीपहस्ताः। ४ स्वपरिचयदानपूर्वकम् । ५ गतः, भाषायाम् 'खाडो' । दूर्वा भाषायाम् 'धरो' इप्ति। ६ चतुःशालम्-गृहप्रकारः, "चोसाल" इनि भाषायाम् । ७ अभ्यज्य-विलिप्य । ८ न्यस्य-स्थापयित्वा। ९ परिधाप्य-परिधाम कारयित्वा । १० उदग्-उत्तरम् । ११ अरणिकाष्टघर्षणेन अग्निर्जायत इति प्रसिद्धम् । * °त्त्वाऽपस्वा संवृ०॥ १२ प्रतिरूपकम्-प्रतिबिम्बम्-प्रतिमाम् । १३ पूर्णकुम्भादि इन्द्राज्ञया इति सन्धिविश्लेषः। ।मि संवृ०॥ १४ पतद्भिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org