________________
३१४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्थं पर्व सङ्क्रान्ततारका रत्नवलभ्यस्तत्र वेश्मनाम् । श्रियं सदन्तशारस्य शारपट्टस्य विभ्रति ॥ १६ ॥ तद्वप्रमेखलासचैर्विश्रान्ता भान्ति वारिदाः । चक्षुरक्षाकृते दत्ताः कजलस्थासका इव ॥ १७ ।। वरिष्ठवनिताचारमञ्जमञ्जीरशिञ्जितैः। वितन्यते श्रियो देव्या नित्यं सङ्गीतकोत्सवः ॥१८॥ रत्नावकरवाहीनि स्रोतांस्यपि तदोकसाम् । यान्ति रत्नाकरस्रोतस्तुलां वर्षति वारिदे ॥ १९ ॥ आढ्यम्भविष्णुर्यशसा प्रभविष्णुर्भुजौजसा । विष्णुराज इति मापस्तत्राभूद् विष्णुविक्रमः ॥ २० ॥ तत्रेन्द्रियजयो नाम गुणो बीजमिवावनौ । सस्यराशिमिवाऽसूत गुणराशिं समुज्वलम् ॥ २१॥ प्रणते च विपक्षे च तुष्टा रुष्टाश्च तदृशः । ययुः स्वयंवरस्रक्त्वं श्रियोऽपि च भियोऽपि च ॥ २२ ।। दानधर्म इबौचित्यात् सूनृतेनेव भारती । अवदातेन यशसा शुशुभे तस्य विक्रमः ॥ २३ ॥
गुणानां शौर्य-गाम्भीर्य-धैर्यादीनां स भूयसाम् । नित्यं क्रीडनसङ्गीतनिकेतनमिवाभवत् ॥ २४ ॥ 10 जिष्णोरिव शची रूपभ्राजिष्णुर्विष्णुरित्यभूत् । द्वितीयेव मही स्थैर्यात् पत्नी तस्य महीपतेः ॥ २५ ॥
शिरीपसुकुमारस्य सा निजाङ्गस्य भूपणम् । निशातं खड्गधारावत् सतीव्रतमधारयत् ॥ २६ ॥ यथाऽभूदप्रतिच्छन्दो विक्रमेण स भूपतिः । तथा साऽप्यप्रतिच्छन्दा रूपलावण्यसम्पदा ॥ २७ ॥ अलैंसा सा गतावेव न पुनर्धर्मकर्मणि । मध्यप्रदेश एवाभूत् तुच्छो न पुनराशये ॥ २८ ॥ तस्या राज्ञोऽपि च मिथोऽनुस्यूतमनसोरिख । अक्षया प्रीतिरभवदविघ्नं रममाणयोः ॥ २९ ॥
इतश्च शुक्रे नलिनगुल्मस्य पृथिवीपतेः । जीवः प्रकृष्टसङ्ख्यं स निजमायुरपूरयत् ॥३०॥ ज्येष्ठस्य षष्ठ्यां कृष्णायां श्रवणस्थे निशाकरे । च्युत्वा ततस्तस्य जीवो विष्णुकुक्षाववातरत् ॥ ३१ ॥ नारकाणामपि सुखमुध्योतश्च जगत्रये । जज्ञे तदा क्षणं स्याद्धि कल्याणेष्वर्हतामिदम् ॥ ३२ ॥ सङ्क्षिप्त इव वैतादयः श्वेतवों महागजः । समत्स्यः शरदम्भोद इवोच्छृङ्गः सितो वृषः ॥ ३३ ॥
उत्पुच्छो विधृतच्छत्र इव केसरिपुङ्गवः। साभिषेका महालक्ष्मीर्मुर्त्यन्तरमिवाऽऽत्मनः ॥ ३४ ॥ 20 सुगन्धि सुमनोदाम मूर्तमिव यशः स्वकम् । सुधाकुण्डमिव ज्योत्स्नाप्लुतः पर्वनिशाकरः ॥ ३५ ॥
मार्तण्डमण्डलं दीपं दिवः सीमन्तरत्नवत् । ध्वजवलपताकश्च सशाख इव पादपः ॥ ३६ ॥ पूर्णकुम्भो गरीयांश्च निधानं श्रेयसामिव । महापद्म पद्मसरः पद्मह्रद इवापरः॥ ३७ ॥ आरुरुक्षुरिव दिवमुत्कल्लोलो महार्णवः । अनुज पालकस्येव विमानवरमायतम् ॥ ३८॥
रत्नपुञ्जश्च सर्वस्वमिव रत्नाकरोद्धृतम् । निर्धूमश्चानलो 'भीममण्डलस्यानुहारकः ॥ ३९ ॥ 25 एते तदा विष्णुदेच्या महास्वमाश्चतुर्दश । मुखे विशन्तोऽदृश्यन्त तीर्थजन्मसूचकाः ॥ ४०॥
तपस्यकृष्णद्वादश्यां श्रवणे खगिलाञ्छनम् । स्वर्णवर्णं विष्णुदेवी सुखेन सुषुवे सुतम् ॥ ४१॥ अथाधोलोकवास्तव्या अष्टो भोगङ्करादयः । दिकुमार्यः समाजग्मुर्विज्ञायाऽऽसनकम्पतः ॥ ४२ ॥ तीर्थकृन्मातरं नत्वा 'मा भेपी'दिपूर्वकम् । आत्मानं ज्ञापयित्वा च कृत्या संवर्तकानिलम् ॥ ४३ ॥
परितः सूतिकागारमायोजनमथासृजन् । स्वामिमातुरदूरे ता गायन्त्यश्चावतस्थिरे ॥४४॥ युग्मम् ।। 30 नन्दनोद्यानकटस्था ऊर्ध्वलोकजुषोऽष्ट च । एत्य मेघङ्कराद्या दिक्कन्या देवीं प्रणम्य च ॥ ४५ ॥
१ बलभीमपरादमयं गृहाच्छादनम् । २ दन्तशार:-दन्तमयः शारः, भाषायाम्-'दांतनो पायो'। ३शारपट्टःपाशकपः। ४ कजलस्थासक: कजलातलकम् । ५ चारः-गतिः । मीरम्-भूपुरम् । शिक्षितम्-भूषणध्वनिः। ६ अवकर:उत्करः। ७ भने शत्रो च । ८ जिष्णु:-इन्द्रः। ९ तीक्ष्णम् । १० अप्रतिच्छन्दः-अनुपमानः । ११ अलसा-मन्थरा आलस्ययुक्ता च । १२ तुच्छा-कृशा क्षुद्रा च । १३ श्रवणनक्षत्रस्थिते । १४ ऊर्ध्वपुच्छः। १५ पूर्णिमाचन्द्रः। १६ स्वर्गस्य सीमन्तरववत्, भाषायाम्-'सीमन्त' इति 'सेंथो'। १७ अनुजः-लघुभ्राता। १८ भौमः-मङ्गलः । अनुहारक: अनुसारी। १९ तपस्य:-फाल्गुनः। २० खड्गी-गण्डकः, भाषायाम् 'गेंडो' इति । २१ आयोजनम्-योजनपर्यन्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org