________________
॥ अर्हम् ॥ ॥ नमः श्रीधर्मकथानुयोगव्याख्यातृभ्यः स्थविरेभ्यः ॥
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविनिर्मित त्रिषष्टिशलाकापुरुषचरितम् ।
श्रीश्रेयांसजिनादिद्वाविंशतिशलाकापुरुषचरितप्रतिबद्धं चतुर्थं पर्व ।
प्रथमः सर्गः। श्रीश्रेयांसजिनादिचरितम् ।
श्रीश्रेयांसप्रभोः पादाः श्रेयो विश्राणयन्तु वः । निःश्रेयसपथालोकदीपायितनखांशवः ॥१॥ श्रीश्रेयांसजिनेन्द्रस्य पवित्रितजगत्रयम् । लैवित्रं कर्मवल्लीनां चरित्रमिदमुच्यते ॥२॥ पुष्करवरद्वीपार्धे प्राग्विदेहेषु सुन्दरे । विजये कच्छसज्ञेऽस्ति नाम्ना क्षेमेति पूर्वरा ॥३॥ महीभृन्मौलिमुकुटधृष्टाझिनलिनद्वयः । राजा नलिनगुल्मोऽभूद् गुणैरमलिनः सदा ॥ ४ ॥ स खामी मत्रिणो मत्रबलाकृष्टरिपुत्रियः । सुरराष्ट्रोपमं राष्ट्रं सर्वारिष्टविवर्जितम् ॥ ५॥ दुर्गाणि जितवैतात्यविद्याधरपुराणि तु । कोशांश्च श्रीदसर्वसाधरीकारपरायणान् ॥६॥ बलं हस्त्यश्व-पादात-स्थच्छादितभूतलम् । असुहृद्धृदयक्षेत्रकर्षकान् सुहृदोऽपि च ॥७॥ राज्यस विकलाङ्गत्वं मा भूदिति धिया व्यधात् । जगदेकमहाबाहुबईहुँदन्तेयविक्रमः ॥ ८॥
चतुर्भिः कलापकम् ॥ वपु-यौवन-लक्ष्मीणां साराणामप्यसारताम् । सोऽमन्यत महाप्राज्ञो विवेकामलमानसः॥९॥ 10 कुमोजनेनाहरिव निशामिव कुशय्यया । कियन्तमपि सोऽनैषीत् कालं राज्येन शुद्धधीः॥१०॥ राज्यं रुजमिवोत्सृज्य तत्त्वतौषधिमानसः । वज्रदत्तर्षिणा दत्तां दीक्षामादत्त धर्मधीः॥११॥ तप्यमानस्तपस्तीनं सहमानः परीषहान् । कर्मेव क्रशयनङ्ग विजहार स निर्ममः ॥१२॥ अहंद्वक्त्यादिमिस्तैस्तैः स्थानः प्रवचनोदितैः । उपार्जयामास दृढं तीर्थकन्नामकर्म सः॥ १३ ॥ महातपाः शुमध्यानश्चतुःशरणतत्परः । काले प्राप्तावसानः स महाशुक्रदिवं ययौ ॥ १४ ॥ 15
ततश्च जम्बूद्वीपेऽसिन् भरतक्षेत्रभूषणम् । रत्ननूपुरवद् भूमेरस्ति सिंहपुरं पुरम् ॥ १५॥
विषाणयन्तु यच्छन्तु । २दीपायिता:-दीपसमानाः। ३लचित्रम्-छेदकम् । बाहृदम्तेय:-न्द्रः। ५ अर्हत्सिर-साधु-धर्मस्पं शरणचतुष्कम् । * मे रसं सिं० सं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org