________________
10
३१. कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
[ तृतीयं पर्व संसारे क्षणिकं सर्व नानादुःखनिबन्धनम् । मोक्षाय यतितव्यं तद् भवेन्मोक्षस्तु संवरात् ॥ ९० ॥ सर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्य-भावविभेदतः ॥ ९१ ॥ यः कर्मपुद्गलाऽऽदानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ ९२॥ येन येन ह्युपायेन रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥ ९३॥ क्षमया मृदुभावेन ऋजुत्वेनाप्यनीहया । क्रोधं मानं तथा मायां लोभं रुन्ध्याद् यथाक्रमम् ॥ ९४ ॥ असंयमकृतोत्सेकान् विषयान् विषसन्निभान् । निराकुर्यादखण्डेन संयमेन महामतिः ॥ ९५॥ तिसृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेन विरतिं चापि साधयेत् ॥ ९६ ॥ सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेताऽऽत-रौद्रे च संवरार्थं कृतोद्यमः ॥ ९७ ॥ यथा चतुष्पथस्थस्य बहुद्वारस्य वेश्मनः । अनावृतेषु द्वारेषु रजः प्रविशति ध्रुवम् ॥ ९८ ॥ प्रविष्टं स्नेहयोगाच्च तन्मयत्वेन बध्यते । न विशेन च बध्येत द्वारेषु स्थगितेषु तु ॥ ९९ ॥ यथा वा सरसि क्वापि सारैर्विशेजलम । तेष त प्रतिरुद्धेष प्रविशेन मनागपि॥१००॥ यथा वा यानपात्रस्य मध्ये रन्धेर्विशेञ्जलम् । कृते रन्ध्रपिधाने तु न स्तोकमपि तद् विशेत् ॥ १०१॥ योगादिष्वाश्रवद्वारेष्वेवं रुद्धेषु सर्वतः । कर्मद्रव्यप्रवेशो न जीवे संवरशालिनि ॥ १०२ ॥
संवरादाश्रवद्वारनिरोधः संवरः पुनः । क्षान्त्यादिभेदाद् बहुधा तथैव प्रतिपादितः॥१०३ ॥ 15 गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते । मिथ्यात्वानुदयात् परस्थेषु मिथ्यात्वसंवरः॥१०४॥
तथा देशविरत्यादौ स्यादविरतिसंवरः । अप्रमत्तसंयतादौ प्रमादसंवरो मतः ॥१०५॥ प्रशान्त-क्षीणमोहादौ भवेत् कषायसंवरः । अयोग्याख्यकेवलिनि सम्पूर्णो योगसंवरः ॥ १०६॥ संवृतः संवरेणैवं भवस्यान्तं व्रजेत् सुधीः । निश्छिद्रयानपात्रेण सांयात्रिक इवाम्बुधेः ॥ १०७ ।।
प्रभोस्तया देशनया प्रबुद्धा बहवो जनाः । प्रव्रज्यां जगृहुः केपि केऽपि श्रावकतां पुनः ॥ १०८ ॥ 20 आनन्दाद्या एकाशीतिः प्रभोर्गणभृतोऽभवन् । देशनान्ते प्रभोश्चक्रेऽथाऽऽनन्दो धर्मदेशनाम् ॥१०९॥
आनन्ददेशनान्ते च नमस्कृत्य जगद्गुरुम् । स्थानं निजनिजं जग्मुः सुरा-ऽसुर-नरेश्वराः ॥ ११० ॥
तत्तीर्थभूर्ब्रह्मनामा यक्षरूयक्षश्चतुर्मुखः । पद्मासनः श्वेतवर्णश्चतुर्भिर्दक्षिणैर्भुजैः ॥ १११ ॥ मातुलिङ्ग-मुद्गरभृत्-सपाशा-ऽभयदायिभिः । वामेस्तु नकुल-गदा-ऽङ्कुशा-ऽक्षसूत्रधारिभिः ॥ ११२ ॥ तथोत्पन्ना त्वशोकेति मुद्गवर्णाऽदवाहना । बिभ्राणा दक्षिणौ बाहुदण्डौ वरद-पाशिनौ ॥ ११३ ॥ फैला-ऽङ्कुशधरौ बाहू वहन्ती दक्षिणेतरौ । उभे अभूतां दशमार्हतः शासनदेवते ॥ ११४ ॥ उपासमानस्ताभ्यां च विजहे शीतलप्रभुः । ततः पूर्वसहस्रांस्त्रिमासोनां पञ्चविंशतिम् ॥ ११५ ॥
लक्षं मुनीनां साध्वीनां लक्षमेकं षडुत्तरम् । चतुर्दशपूर्वभृतां चतुर्दश शतानि च ॥ ११६ ॥ अवधिज्ञानधराणां द्वासप्ततिशती पुनः । सार्धाः सप्त सहस्रास्तु मनःपर्ययधारिणाम् ॥ ११७ ॥ शतानि सप्ततिरथ केवलज्ञानधारिणाम् । जातवैक्रियलब्धीनां सहस्रा द्वादशैव तु ॥ ११८ ॥ शतानि चाष्टपञ्चाशद् वादलब्धिमतां पुनः । श्रावकाणामुभे लक्षे नवाशीतिसहरुयपि ॥ ११९ ॥ श्राविकाणां चतुर्लक्ष्यष्टपञ्चाशत्सहस्रयुकू । इति जज्ञे परीवारः प्रभोर्विहरतः सतः ॥१२० ॥
मोक्षकालेऽथ सम्प्राप्ते सम्मेताद्रिं ययौ प्रभुः। प्रपेदेऽनशनं तत्र सहस्रेणार्षिभिः सह ॥ १२१ ॥ मासान्ते वैशाखकृष्णद्वितीयायां निशाकरे । पूर्वाषाढागते स्वामी मोक्षेऽगात् तैः सहर्षिभिः ॥ १२२ ॥ कुमारभावे पूर्वाणां सहस्राः पञ्चविंशतिः । पञ्चाशत् पूर्वसहस्राः पृथिवीपरिपालने ।। १२३ ॥
१ उत्सेक:-उत्सेचनम्-पोषणम् । २ निराकुपात्-ति अध्याहार्यम्। ३ विजयेत-पराजिते कुर्यात् । ४ ध्यक्षः-त्रिनेत्रः। .र्णाजवा संवृ०॥ पाशाइराघरोबार विनती द° संबृ० ।
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org