________________
अष्टमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्
३०९ इत्युदित्वा ययुर्ब्रह्मलोकं लौकान्तिकामराः । शीतलखाम्यपि ददौ दानं संवत्सरावधि ॥ ५९॥ अन्ते च तस्य दानस्य सुरेन्द्रैश्चलितासनैः । दीक्षाकल्याणकलानं विदधे शीतलप्रभोः॥६॥ कृताङ्गरागो भगवानामुक्तांशुकभूषणः । त्रिजगद्भूषणं नाथो दत्तबाहुर्बिडौजसा ॥ ६१॥ अन्यैरपि धृतच्छत्र-चामरादिः सुरेश्वरैः । अध्यारुरोह शिविकारत्नं चन्द्रप्रभाभिधम् ॥ ६२ ॥ युग्मम् ॥ सुरा-ऽसुरसहस्राणां सहस्रैः परिवारितः । सहस्राम्रवणं नाम खपुरोपवनं ययौ ॥ ६३॥ ततस्तितीर्घः संसारं भारवद् भूषणादिकम् । उज्झाञ्चकार झगिति प्रभुः शिवगतिप्रियः ॥ ६४ ॥ शक्रन्यस्तं देवदूष्यांशुकमसंस्थले दधत् । पञ्चभिर्मुष्टिभिः केशानुचखान जगत्पतिः ॥ ६५ ॥ क्षीरोदे न्यस्य तान् केशान् शके पुनरुपेयुषि । निषिद्धतुमुले बद्धाञ्जलौ द्वाःस्थ इव स्थिते ॥६६॥ सुरा-सुर-नरेन्द्राणां प्रत्यक्षमपरेऽहनि । माघस्य कृष्णद्वादश्यां पूर्वाषाढास्थिते विधौ ॥ ६७ ॥ समं नृपसहस्रेण कृतषष्ठतपाः प्रभुः । सावद्ययोगविरतिप्रतिज्ञां प्रत्यपद्यत ॥ ६८॥
10
॥त्रिभिर्विशेषकम् ॥ तुर्य ज्ञानं प्रभोजज्ञे मनःपर्ययसञकम् । कृत्वा प्रणामं च ययुः खं खं स्थानं सुरादयः ॥ ६९ ।।
द्वितीयेऽह्नि रिष्टपुरे पुनर्वसुनृपौकसि । पारणं परमान्नेन विदधे शीतलप्रभुः ॥ ७० ॥ चक्रे च वसुधारादिपञ्चकं विबुधैस्ततः । स्वर्णपीठं पुनस्तत्र पुनर्वसुनृपो व्यधात् ॥ ७१॥ विविधाभिग्रहधरः सहमानः परीषहान् । छद्मस्थतया त्रीन् मासान् व्यहार्षीच्छीतलप्रभुः ॥ ७२ ॥ 15 सहस्राम्रवर्ण भूयोऽप्याजगाम जगद्गुरुः । तत्र प्रतिमया तस्थावधस्तात् प्लक्षशाखिनः ॥७३॥ भटो वैप्रमिवाऽऽरुह्य शुक्लध्यानं द्वितीयकम् । जघान घातिकर्माणि रिपूनिव जगद्गुरुः ॥ ७४ ॥ पौषकृष्णचतुर्दश्यां पूर्वाषाढागते विधौ । केवलज्ञानमुत्पेदे शीतलखामिनस्ततः ।। ७५ ॥
वप्रैस्त्रिभिश्चतुारै रान-सौवर्ण-राजतैः । ततः समवसरणं चक्रुर्देवाऽसुरेश्वराः॥ ७६ ॥ तत्र प्रविश्य प्रारद्वारा प्रदक्षिण्यकरोत् प्रभुः । चैत्यवृक्षमशीत्यप्रदशधन्वशतोन्नतम् ॥ ७७ ॥ 'नमस्तीर्थायेति वदन पूर्वसिंहासने प्रभुः । न्यषदद् दिक्षु चान्यासु तद्रूपाण्यमरा व्यधुः ॥ ७८ ॥ तत्र तस्थुर्यथास्थानमथान्येऽप्यमरादयः । स्वामिवाचं प्रतीच्छन्तः स्तनितं वर्हिणा इव ॥ ७९ ॥ खामिनं शीतलमथ शिरःसंस्पृष्टभूतलः । नमस्कृत्साअलिधर इति वज्रधरोऽस्तवीत् ॥ ८०॥
त्वत्पादपङ्कजनखद्युतिजालजलप्लेवैः । स्नायं स्नायं पुनन्ति खं धन्यास्त्रिभुवनेश्वर ! ॥८१॥ भास्करेणेव गगनं हंसेनेव महासरः । पार्थिवेनेव नगरं शोभते भारतं त्वया ॥ ८२॥ आलोकस्तिमिरेणेव सूर्यास्तेन्दूदयान्तरे । मिथ्यात्वेन पराभूतो धर्मस्तीर्थद्वयान्तरे ॥ ८३ ॥ जगदन्धमिदं जज्ञे निर्विवेकविलोचनम् । अपथेषु प्रववृते दिसूढमिव सर्वतः ॥ ८४॥ अधर्मो धर्मबुद्ध्या चाऽदेवता देवताधिया । गुरुबुद्ध्या चाऽगुरवो भ्रान्तैर्जगृहिरे जनैः॥८५॥ नरकावटपाताय जगत्यस्मिनुपस्थिते । निसर्गकरुणाम्भोधिस्तत्पुण्यैस्त्वमवातरः ॥८६॥ मिथ्यात्वाशीविषो लोके प्रभविष्णुरसौ चिरम् । तावदेव न यावत् ते प्रसरेद् वचनामृतम् ॥ ८७॥ 30 तन्मिथ्यात्वापसारेण सम्यक्त्वं जगतोऽधुना । भावि प्रभो! केवलं ते घातिकर्मक्षयादिव ॥ ८८॥
इत्थं स्तुत्वा स्थिते शके भगवान् शीतलप्रभुः। गिरा सुधामधुरया विदधे देशनामिति ॥ ८९॥
१ भामुक्तम्-परिहितम् । २ असः-स्कन्धः। ३ वप्रः-दुर्गः। * °तैः । समवसरणं चक्रुर्देवास्ततः सुरा-ऽसुराः संबृ०॥ ४ बर्हिणाः-मयूराः। ५प्लव:-जलपूरम् । ६ सायं स्नायम्-अधिकं स्नात्वा। ७ सूर्यास्तस्य चन्द्रोदयस्य च अन्तरे । ८ भवट:-कूपः। ९ आशीविष:-दंष्ट्राविषः सर्पः।
त्रिषष्टि. ४.
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org