________________
10
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
[तृतीयं पर्व नन्दास्वामिन्यपि तदा सुखसुप्ता व्यलोकयत् । चतुर्दश महास्वमांस्तीर्थकृजन्मसूचकान् ॥ २८ ॥ माघस्य कृष्णद्वादश्यां पूर्वापाढागते विधौ । श्रीवत्साझं स्वर्णवर्णं श्रीनन्दाऽसूत नन्दनम् ॥ २९ ॥ अष्टाधोलोकवास्तव्या ऊर्द्धलोकजुषोऽष्ट च । अष्टाऽष्टौ रुचकदिशां चतस्रो विदिशां पुनः ॥ ३० ॥ मन्त्रकद्वीपमध्यस्थाश्चतस्रश्चलितासनाः । षट्पञ्चाशद् दिकुमार्यः सूतिकर्मेत्य चक्रिरे ॥३१॥ शकोऽप्युपेत्य तत्राऽऽशु गृहीत्वा स्वामिनं स्वयम् । सुमेरुपर्वतशिरस्युपेयाय वृतोऽमरैः ॥ ३२ ।। अतिपाण्डुकम्बलायां रत्नसिंहासनोपरि । अङ्काधिरोपितपतिर्दिवस्पतिरुपाविशत् ॥ ३३ ॥ हदिनीनाथ-हदिनी-हृदादिभ्यः समाहृतः। अस्यषिञ्चन जलैनाथमथेन्द्रा अच्युतादयः॥ ३४॥ ईशानाङ्के प्रभुं न्यस्य शक्रोऽप्यस्लपयत ततः। विक्रतस्फाटिकवपविषाणामोदर्जलैः॥ ३५॥ दिव्याङ्गरागैश्चर्चित्वाऽर्चित्वा चाऽऽभरणादिभिः । जगत्पतिमिति स्तोतुं समारेभे दिवस्पतिः ॥३६ ।। ___ जयेक्ष्याकुकुलक्षीररत्नाकरनिशाकर ! । जगन्मोहमहानिद्राविद्रावणदिवाकर ! ॥३७॥ खामालोकयितुं त्वां च स्तोतुं त्वामर्चितुं तथा । आशंमाम्यात्मनोऽनन्ता दृशो जिह्वा भुजा अपि ॥३८॥ खामिन् दशमतीर्थेश ! तव पादारविन्दयोः । न्यस्तान्यमूनि पुष्पाणि सम्पन्नं तु फलं मयि ॥ ३९ ॥ अमन्दं दददानन्दं दुःश्वतापार्दितात्मनाम् । मर्त्यलोकेऽवातरस्त्वं जीमूत इव नूतनः ॥ ४० ॥ वसन्तसमयेनेव दर्शनेन तव प्रभो ! । स्युरद्य नूतनश्रीकाः प्राणिनः पादपा इव ।। ४१॥ त्वदर्शनपवित्राणि यानि तानि दिनानि मे । दिनानि शेषाणि पुनः कृष्णपक्षतमस्विनी ॥ ४२ ॥ स्यूनानीवाऽऽत्मना नित्यं कुकर्माणि शरीरिणाम् । त्वयाऽद्य विघटन्तां द्रागयस्कान्तेन लोहवत् ।। ४३॥ अन्न वा दिवि वा तिष्ठस्तिष्ठन्नन्यत्र वा क्वचित् । त्वद्वाहनमहं भूयां त्वामेव हृदये वहन् ॥ ४४ ॥ __ एवं दशममर्हन्तं स्तुत्वा दशर्शतेक्षणः । आदायाऽऽनीय चामुश्चन्नन्दापाचँ यथास्थिति ॥ ४५ ।। चक्रे बहरभेनापि कारीमोक्षादिनोत्सवः । जगतोऽपि हि मोक्षाय तादृशां जन्म पावनम् ॥ ४६ ॥ राज्ञः सन्तप्तमप्यङ्गं नन्दास्पर्शन शीत्यभूत् । गर्भस्थेऽस्मिन्निति तस्य नाम शीतल इत्यभूत् ॥ ४७ ॥ हुसत्कुमारकालाधारीन्द्रवि सेवितः । ववृधेऽम्भोधिवेलावद् जगन्नाथो दिने दिने ॥ ४८॥ शैशवं व्यत्यलाविष्ट क्रमेण परमेश्वरः । शैशवाद् यौवनं चाऽऽप ग्रामात् पुरमिवाऽध्वगः ॥ ४९ ॥ प्रभुर्नयतिधन्वोचो रराजाऽऽजानुबाहुकः । पार्श्वतो लम्बमानोरुवल्लीक इव पादपः ॥ ५० ॥
विषयेषु निरीहोऽपि पितृभ्यां प्रार्थितः प्रभुः । चकार पाणिग्रहणं पिण्डादानमिव द्विपः ॥५१॥ 25 अथ पूर्वसहस्राणां गतायां पञ्चविंशतौ । जग्राह पितृदाक्षिण्याद् राज्यं श्रीशीतलप्रभुः ॥ ५२ ॥
पञ्चाशत्पूर्वसहस्रीमपूर्वभुजविक्रमः । पूर्वक्रमागतं राज्यं शशास विधिवत् प्रभुः ॥ ५३ ॥ ___ अथ संसारसंवासाद् व्यरज्यत प्रभोर्मनः । आसनानि प्रचेलुश्च लौकान्तिकदिवौकसाम् ॥ ५४ ॥ अयुध्यन्ताऽवधिज्ञानादेवं ते त्रिदिवौकसः । जम्बूद्वीपाभिधे द्वीपे भरतार्थे च दक्षिणे ।। ५५ ॥
दशमो भगवानर्हन् व्रतेच्छुर्वर्तते ततः । तं वयं प्रेरयामोऽद्य सदाकृत्यमिदं हि नः ॥ ५६ ॥ युग्मम् ।। 30 विमृश्यैवं ब्रह्मलोकात् सुराः सारस्वतादयः । एत्य विज्ञपयामासुरिति स्वामिनमानताः॥ ५७ ।।
अरण्यस्रोतसीवासिंस्तीर्थाभावेन दुस्तरे । संसारे विश्वकृपया तीर्थ नाथ ! प्रवर्तय ।। ५८ ॥
१ सूतिकर्म एत्य-आगत्य । २ दिवस्पतिः-इन्द्रः। ३ हृदिनीनाथः-समुद्रः, हदिनी-नदो। ४ विद्रावणम्-नाशनम् । ५ 'अनन्ताः' इत्यादीनि चत्वारि पदानि द्वितीयान्तानि । ६ जीमूतः-मेघः। ७ शेपाणि दिनानि अमावास्यारूपाणि इति भावः। ८ स्यूतम्-सम्बद्धम् । ९ त्वद्वाहनम्-रवद्भक्तिधारक इति । १० दशशतेक्षणः-सहस्रनयनः, इन्द्र इत्यर्थः। ११ कारामोक्षादिनाबन्दिजनमोक्षादिना उत्सवः। * °च्य तते सच ॥ १२ अरण्यस्रोत:-अरण्यस्थितः जलाशयः। १३ तीर्थम्-उत्तरणस्थानम्, भाषायाम् 'घाट' इति ।
Vain Education International
For Private & Personal Use Only
www.jainelibrary.org