________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ तृतीयं पर्व
ऊनमष्टाविंशत्यङ्गया चतुर्मास्या च केवलात् । पूर्वलक्षं विहरतः परिवारोऽभवत् प्रभोः ॥ १४७ ॥ ॥ पञ्चभिः कुलकम् ॥
सम्मेताद्रिं ततो गत्वा ऋषीणां दशभिः शतैः । प्रपेदेऽनशनं स्वामी मासं चास्थात्तथास्थितः ॥ १४८ ॥ नर्भस्यकृष्ण नवम्यां मूले मे तैः सहर्षिभिः । शैलेशी ध्यानलीनः सन् स्वाम्यगादव्ययं पदम् ॥ १४९ ॥ 5 कौमारे पूर्वलक्षार्धमथ राज्यस्य पालने । युक्तमष्टाविंशत्याऽङ्गैः पूर्वलक्षार्धमेव हि ॥ १५० ॥ अष्टाविंशत्यङ्गहीनं पूर्वलक्षं पुनर्वते । इत्यायुः पूर्वलक्षे द्वे सुविधिखामिनोऽभवत् ॥ १५१ ॥ श्रीचन्द्रप्रभनिर्वाणात् सुविधिस्वामिनिर्वृतिः । सागरोपमकोटीनां गतायां नवतावभूत् ।। १५२ ।। विधिवदमरनाथाः कायसंस्कारपूर्व, मुनिदशशतयुक्तस्यार्हतोऽष्टाधिकस्य ।
शिवगतिमहिमानं चक्रिरे निःसमानं, तदनु सपरिवाराः स्वं स्वमीयुर्विमानम् ॥ १५३ ॥ सुविधिखामिनिर्वाणाद् गते काले कियत्यपि । हुण्डावसर्पिणीदोषात् साधूच्छित्तिरजायत ॥ १५४ ॥ स्थविरश्रावकान् धर्ममथापृच्छन्नतद्विदः । पन्थानं पथसम्मूढाः पथिकान् पथिका इव ॥ १५५ ॥ किञ्चित् कथयतां तेषां धर्ममात्मानुसारतः । अर्थपूजां विदधिरे ते जनाः श्रावकोचिताम् ॥ १५६ ॥ पूजया जातगर्द्धास्ते शास्त्राण्यासूत्र्य तत्क्षणम् । महाफलानि दानानि विविधान्याचचक्षिरे ॥ १५७ ॥ कन्यादानं महीदान प्रदानमयँसामपि । तिलदानं च कार्पासंदानं दानं गवामपि ॥ १५८ ॥ स्वर्णदानं रौप्यदानं प्रदानं सद्मनामपि । अश्वदानं गजदानं शय्यादानमथापरम् ॥ १५९ ॥ दानं महाफलं सर्वमत्रामुत्र च निश्चितम् । एवं व्याचख्युराचार्यभूय ते गृभवोऽन्वहम् ॥ १६० ॥ दानस्य चोचितं पात्रमात्मानं व्याचचक्षिरे । अपात्रं चापरं सर्वमखवहादुराशयाः ॥ १६१ ॥ अप्येवं वञ्चकास्तेऽयुर्लोकानां गुरुतां तदा । निर्वृक्षदेशे क्रियते घेरण्डस्यापि वेदिका ॥ १६२ ॥ जज्ञे तीर्थोच्छेद् एवं समन्तात्, क्षेत्रेऽस्मिन्नाऽऽशीतलखामितीर्थम् । एकच्छत्रं विप्रखेदैस्तदानीं, चक्रे राज्यं निश्युलूकैरिवोच्चैः ॥ १६३ ॥ मिथ्यात्वमाऽऽशान्तिजिनेश मित्थमन्येष्वभूत् षट्सु जिनान्तरेषु । तीर्थप्रणाशादभवच्च तेषु, मिथ्यादृशामस्खलितः प्रचारः ॥ १६४ ॥
10
15
20
३०६
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि सुविधिखामिचरितवर्णनो नाम सप्तमः सर्गः ।
१ ध्यानस्थः । २ नभस्य:- भाद्रपदमासः । ३ साधूनाम् उच्छेदः । ४ ये धर्म न विदन्ति ते । *अथ पू° संवृ० मो० ॥ ५ धनेन पूजाम् । ६ गर्धः - आसक्तिः । ७ अयः लोहः । एतच्च अन्यधातूनाम् उपलक्षणम् । सर्व सुखार्थेहा संदृ० ॥ ८ अखर्वम् - अत्यधिकम् । ९ वेदिका - चतुष्कोणम् आसनम्, भाषायाम् ' बाजोठ' इति । १० शीतलस्वामितीर्थम् अवधिं कृत्वा सस आरभ्य । ११ शान्तिजिनतीर्थपर्यन्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org