________________
सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३०५ मनो-चाकायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं पैशुन्यं चलचित्तता ॥ ११७ ॥ सुवर्णादिप्रतिच्छन्दकरणं कूटसाक्षिता । वर्ण-गन्ध-रस-स्पर्शाद्यन्यथापादनानि च ॥ ११८ ।। अङ्गोपाङ्गच्यावनानि यत्र-पञ्जरकर्म च । कूटमान-तुला-कर्मा-ऽन्यनिन्दा-ऽऽत्मप्रशंसनम् ॥ ११९ ।। हिंसा-ऽनृत-स्तेया-ब्रह्म-महारम्भ-परिग्रहाः । परुषा-ऽसभ्यवचनं शुचिवेषादिना मदः ॥ १२० ॥ मौखर्या-ऽऽक्रोशौ सौभाग्योपघातः कार्मणक्रिया । परकौतूहलोत्पादः परहास-विडम्बने ॥ १२१ ॥ 5 वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजाद् गन्धादिचौर्य तीवकषायता ॥ १२२ ॥ चैत्य-प्रतिश्रया-ऽऽराम-प्रतिमानां विनाशनम् । अङ्गारादिक्रिया चैवाशुभस्य नाम्न आश्रवाः ॥ १२३ ॥ एत एवान्यथारूपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥१२४ ॥ दर्शने धार्मिकाणां च सम्भ्रमः स्वागतक्रिया । आश्रवाः शुभनाम्नोऽथ तीर्थकुन्नाम्न आश्रवाः ॥ १२५ ॥ भक्तिरर्हत्सु सिद्धेषु गुरुषु स्थविरेषु च । बहुश्रुतेषु गच्छे च श्रुतज्ञाने तपस्विषु ॥१२६॥ आवश्यके व्रत-शीलेष्वप्रमादो विनीतता । ज्ञानाभ्यासस्तपस्त्यागौ मुहुर्ष्यानं प्रभावना ॥१२७ ॥ सङ्घ समाधिजननं वैयावृत्यं च साधुषु । अपूर्वज्ञानग्रहणं विशुद्धिर्दर्शनस्य च ॥ १२८॥ आद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः । एको द्वौ वा त्रयः सर्वे वाऽन्यैः स्पृष्टा जिनेश्वरैः ॥ १२९ ॥ परस्य निन्दा-ऽवज्ञोपहासाः सद्गुणलोपनम् । सदसदोपकथनमात्मनस्तु प्रशंसनम् ॥ १३० ॥ सदसद्गुणशंसा च सद्दोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति नीचैर्गोत्राश्रवा अमी ॥ १३१॥ 15 नीचैर्गोत्रावविपर्यासो विगतगर्वता । वाकाय-चित्तैर्विनय उच्चैर्गोत्राश्रवा अमी ॥ १३२ ॥ दाने लाभे च वीर्ये च तथा भोगोपभोगयोः। सव्याजा-ऽव्याजविघ्नोऽन्तरायकर्मण आश्रवाः॥ १३३ ॥ तदित्याश्रवजन्माऽयमपारो भवसागरः । प्रव्रज्यायानपात्रेण तरणीयो मनीषिणा ॥ १३४ ॥ कुमुदानीन्दुभासेवाबुध्यन्त बहवस्तदा । धर्मदेशनया भर्तुः प्रावजंश्च सहस्रशः ॥ १३५ ॥ अष्टाशीतिराहाद्या आसन् गणभृतः प्रभोः । देशनान्ते च विदधे वराहो धर्मदेशनाम् ॥ १३६ ॥ 20 गणभृद्देशनान्तेऽयुः स्खं खं स्थानं सैंरा-ऽसुराः । नन्दीश्वरस्य मध्येन कुर्वन्तोऽष्टाह्निकोत्सवम् ॥ १३७॥
तत्तीर्थजन्मा त्वजितः श्वेताङ्गः कूर्मवाहनः । बिभ्राणो दक्षिणी वाहू मातुलिङ्गा-ऽक्षसूत्रिणौ ॥१३८॥ वामौ तुं नकुल-कुन्तधारिणौ धारयन् मुजौ । नित्यमासन्नवासीद् भर्तुः शासनदेवता ॥ १३९ ॥ तथोत्पन्ना सुताराख्या गौराङ्गी वृषवाहना । वरदं साक्षसूत्रं च विभ्राणा दक्षिणौ भुजौ ॥ १४० ॥ कलशा-कुशिनौ बाहू दधाना दक्षिणेतरौ । पारिपार्श्विक्यभून्नित्यं भर्तुः शासनदेवता ॥ १४१॥ 25 ताभ्यामधिष्ठिताभ्यर्णः कृपारसमहार्णवः । विजहार जगन्नाथो जगतीं बोधयन् जनान् ॥ १४२ ॥
साधुद्विलक्षी साध्वीनां लक्षं विंशसहस्रयुकू । अवधिज्ञानिनामष्टौ सहस्राः सचतुःशताः ॥ १४३ ॥ सहस्र पूर्विणां साधं मनःपर्ययिणां पुनः । पञ्चसप्ततिशत्येषा केवलज्ञानिनामपि ॥ १४४ ॥ जातवैक्रियलब्धीनां सहस्राणि त्रयोदश । सञ्जातवादलब्धीनां सहस्राणि पडेव हि ॥१४५ ॥ सैकोनत्रिंशत्सहस्रा श्रावकाणां द्विलक्ष्यथ । श्राविकाणां चतुर्लक्षी द्वासप्ततिसहस्रयुक् ॥ १४६ ॥ 30
कृत्रिमसुवर्णादि कृत्वा सत्यसुवर्णादित्वेन प्रकटनम् । २ अन्यपदार्थानां वर्णादिपरावर्तन कृत्वा मूलपदार्थरूपतया व्यवहारः, यथा कृत्रिमं घृतम्-'वेजिटेबल धी'। ३ देवादिनिमित्तम्। ४ प्रतिश्रयः -उपाश्रयः दानशाला वा। ५ सम्भ्रमः-आदरः। ६ अवश्यकर्तग्यरूपप्रतिक्रमणादिकम् । ७ सेवा। ८ तदिति-तेन पूर्वोक्तेन प्रकारेण । * सुरेश्वराः संबृ०॥ +च संवृ०॥ १ भम्पर्णम्-सामीप्यम् । १. मेषां बादलभिः -प्रतिवाअवश्यविजयरूपा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org