________________
कलिकाल सर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ तृतीयं पर्व
८६ ॥
1
९५ ॥
९७ ॥
९८ ॥
९९ ॥
ज्ञान-दर्शनयोस्तद्वत् तद्धेतूनां च ये किल । विघ्नं निह्नव पैशुन्याऽऽशातना-वात- मत्सराः ॥ ज्ञान- दर्शनाचारकर्महेतव आस्रवाः । देवपूजा गुरूपास्तिः पात्रदानं दया क्षमा ॥ ८७ ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति सद्वेद्यस्य स्युराश्रवाः ॥ ८८ ॥ दुःख-शोक-वधास्तापा-ऽऽक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाऽऽश्रवाः ॥ ८९ ॥ 5 वीतरागे श्रुते स धर्मे सर्वसुरेषु च । अवर्णवादिता तीत्रमिध्यात्वपरिणामिता ॥ ९० ॥ सर्वज्ञ-सिद्धि-देवापह्नवो धार्मिकदूषणम् । उन्मार्गदेशना ऽनर्थाग्रहोऽसंयत पूजनम् ॥ ९१ ॥ असमीक्षितकारित्वं गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याऽऽश्रवाः परिकीर्तिताः ॥ ९२ ॥ कषायोदयतस्तीत्रपरिणामो य आत्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः ।। ९३ ।। प्रासनं सकन्दर्पोपहासो हासशीलता । बहुप्रलापो दैन्योक्तिर्हासस्यामी स्युराश्रवाः ॥ ९४ ॥ 10 देशादिदर्शनौत्सुक्यं चित्रे रमण- खेलने । परचितीवर्जनं चेत्याश्रवाः कीर्त्तिता रतेः ॥ असूया पापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्साहनं चाsरतेराश्रवा अमी ॥ स्वयं भयपरीणामः परेषामथ भापनम् | त्रासनं निर्दयत्वं च भयं प्रत्याश्रवा अमी ॥ परशोकाविष्करणं स्वशोकोत्पाद - शोचने । रोदनादिप्रसक्तिच शोकस्यैते स्युराश्रवाः ॥ चतुर्वर्णस्य सङ्घस्य परिवाद - जुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायाः स्युराश्रवाः ॥ 15 ईर्ष्या-विषयगा च मृषावादोऽतिवक्रता । परदाररतासक्तिः स्त्रीवेदस्याऽऽश्रवा इमे ॥ स्वदारमात्र सन्तोषोनी मन्दकषायता । अवक्राचारशीलत्वं पुंवेदस्याऽऽश्रवा इति ॥ स्त्री-पुंसानङ्गसेवाग्राः कषायास्तीत्रकामता । पाखण्डस्त्रीतभ्रंशः पण्ढवेदाश्रवा अमी ॥ १०२ ॥ साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता । मधु-मांसाविरतानामविरत्यभिवर्णनम् ॥ १०३ ॥ विरताविरतानां चान्तरायकरणं मुहुः । अचारित्रगुणाख्यानं तथा चारित्रदूषणम् ॥ १०४ ॥ 20 कषाय- नोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य सामान्येनाऽऽश्रवा अमी ॥ १०५ ॥ पञ्चेन्द्रियप्राणिवधो बह्वारम्भ- परिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता ।। १०६ ।। रौद्रध्यानं मिथ्यात्वाऽनन्तानुबन्धिकषायते । कृष्ण-नील- कपोताश्च लेश्या अनृतभाषणम् ॥ १०७ ॥ परद्रव्यापहरणं मुहमैथुन सेवनम् । अवशेन्द्रियता चेति नरकायुष आश्रवाः ॥ १०८ ॥ उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । आर्त्तध्यानं सशल्यत्वं मायाऽऽरम्भ - परिग्रहौ ॥ १०९ ॥ 25 शीलवते सातिचारे नील- कापोतलेश्यता । अप्रत्याख्यान कषायास्तिर्यगायुष आश्रवाः ।। ११० ।। अल्प परिग्रहाऽऽरम्भ सहजे मार्दवा ऽऽर्जवे । कापोत- पीतलेश्यत्वं धर्मध्यानानुरागिता ॥ १११ ॥ प्रत्याख्यानकषायत्वं परिणामश्च मध्यमः । संविभाग विधायित्वं देवता- गुरुपूजनम् ॥ ११२ ॥ पूर्वालाप- प्रियालापौ सुखप्रज्ञापनीयता । लोकयात्रासु माध्यस्थ्यं मानुषायुष आश्रवाः ॥ ११३ ॥ सरागसंयम देशसंयमोकामनिर्जरा । कल्याणमित्रसम्पर्को धर्मश्रवणशीलता ॥ ११४ ॥ पात्रे दानं तपः श्रद्धा रत्नत्रयाविराधना । मृत्युकाले परीणामो लेश्ययोः पद्म- पीतयोः ॥ ११५ ॥ बालें तपोऽग्नि-तोयादिसाधनोल्लम्बनानि च । अव्यक्तसामायिकता दैवस्याऽऽयुष आश्रवाः ।। ११६ ।।
१०० ॥ १०१ ॥
1
30
ફે૦૪
१ ज्ञानहेतुषु ज्ञाने स विन्नः, निह्नवः-अपलाप:, पैशुन्यम्, आशातना, घातः, मत्सरः इत्यते ज्ञानावरणहेतवः । २ भावारकम् - आवरणरूपम् । ३ सर्वज्ञस्य सिद्धेः देवानां च अपह्नवः-अपलापः । ४ अधिक हसनम् । ५ देशः प्रदेश:भङ्गोपाङ्गानि इति । ६ परचित्तस्य आकर्षणम् । ७ भयदर्शनम् । ८ परिवादः - निन्दा जुगुप्सा-घृणा । ९ उन्मुखाः तत्पराः । १० भम्यचिरास्थितानाम् । ३१ धर्म मार्गस्य नाशः । * ●ख्यानाः क० सं० ॥ १२ विवेकरहितं तपः-अज्ञानतपः ।
Jain Education International
९६ ॥
For Private & Personal Use Only
www.jainelibrary.org