________________
सप्तमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । गतायां पूर्वपञ्चाशत्सहरुयां जन्मतः प्रभुः । अलुब्धः पितृदाक्षिण्याद् राज्यभारमुपाददे ॥ ५४॥ साष्टाविंशतिपूर्वाङ्गं कालं तावन्तमेव हि । साम्राज्यं पालयामास विधिवत् सुविधिप्रभुः ॥ ५५॥
ईयेष च व्रतं खामी ते च लौकान्तिकामराः । तत्कृते प्रेरयामासुश्चाटुकारा इव प्रभुम् ॥५६॥ गतकामो यथाकामं चिन्तामणिरिवार्थिनाम् । ददौ दानं जगन्नाथस्ततः संवत्सरावधि ॥ ५७ ॥ पर्यन्ते तस्य दानस्य जन्मकाल इवामरैः । विधिवद् विदधे दीक्षाभिषेकः परमेशितुः ॥५८॥ 5 ततः सूरप्रभा नामाध्यारुह्य शिविकां प्रभुः । वृतः सुरा-ऽसुर-नरैः सहस्राम्रवणं ययौ ॥ ५९॥ मार्गकृष्णषष्ठयां मूलेऽपराह्ने षष्ठपूर्वकम् । समं राज्ञां सहस्रेण प्रव्रज्यामाददे प्रभुः ॥६०॥ द्वितीयेऽह्नि श्वेतपुरे पुरे पुष्पनृपौकसि । चकार परमानेन पारणं परमेश्वरः ॥६१॥ विदधुर्वसुधारादिपञ्चकं च दिवौकसः । रत्नपीठं स्वामिपादस्थाने पुष्पनृपः पुनः ॥ ६२॥ एकाङ्गो निर्ममोऽसङ्गः सहमानः परीषहान् । छमस्थो विजहाराथ चतुर्मासी जगत्पतिः ॥ ६३॥ 10 आजगाम प्रभुर्भूयः सहस्राम्रवणं वनम् । मालूरतरुमूले चावतस्थे प्रतिमाधरः ॥ ६४ ॥ आरूढक्षपकश्रेणेरपूर्वकरणक्रमात् । ऊर्जशुक्लतृतीयायां मूलेऽभूत् केवलं प्रभोः॥६५॥ ततः समवसरणं व्यधीयत सुरा-ऽसुरैः । पूर्वद्वारेण तत्राथ प्रविवेश जगद्गुरुः ॥६६ ॥ तत्र द्वादशकोदण्डशतोचं चैत्यपादपम् । प्रभुः प्रदक्षिणीचक्रे सर्वातिशयशोभितः ॥ ६७॥ 'तीर्थाय नम' इत्युक्त्वाऽध्यास्त सिंहासनं प्रभुः। प्राअखो दिक्षु चान्यासु तद्रूपाणि व्यधुः सुराः॥६८॥15 यथास्थानमथान्येऽपि निषेदुरमरादयः । प्रणम्याथ प्रभुं शक्रः स्तोतुमेवं प्रचक्रमे ॥ ६९॥
वीतरागोऽसि चेद् रागः पाणिपादे कथं तव । कौटिल्यं चेत् त्वया मुक्तं किं केशाः कुटिलास्तव ॥७॥ प्रजानां यदि गोपस्त्वं दण्डहस्तोऽसि किं न हि ?। निःसङ्गो यदि वाऽसि त्वं तत्किं त्रैलोक्यनाथता ७१ यदि त्वं निर्ममस्तत् किं सर्वत्र करुणापरः । त्यक्तालङ्करणश्चेत् त्वं तत् किं रत्नत्रयप्रियः ॥७२॥
श्वस्याप्यनुकूलश्चेत् तत् किं मिथ्यादृशां द्विषन् ? । खभावसरलश्चेत् त्वं छअस्थोऽस्थाः कथं पुरा॥७३॥ 20 दयावान् यदि वाऽसि त्वंन्यग्रहीमन्मथं कथम् ? । यदि च त्वं गतभयो भवाद् भीतोऽसि तत् कथम् ॥७४॥ यापेक्षापरोऽसि त्वं तत् किं विश्वोपकारकः? । अंदीप्तो यदि वाऽसि त्वं दीप्तंभामण्डलः कथम् ॥७५॥ यदि शान्तस्वभावस्त्वं तत् कुतस्तप्तवांश्चिरम् । अरोषणोऽसि यदि च रुषितः कर्मणां कथम् ? ॥ ७६ ॥ अविज्ञेयस्वरूपाय महयोऽपि महीयसे । सिद्धानन्तचतुष्काय तुभ्यं भगवते नमः ॥७७ ॥
विरचय्य स्तुतिमिति तूष्णीके सति वासवे । भगवान् सुविधिखामी विदधे देशनामिति ॥ ७८ ॥25 अनन्तदुःखसम्भारनिधानं खल्वयं भवः । प्रभवश्वाऽऽस्रवस्तस्य विषस्येव महोरगः ॥७९॥ मनो चाकायकर्माणि योगाः कर्म शुभा- शुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः ॥ ८॥ मैन्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषाय-विषयाक्रान्तं वितनोत्यशुभं पुनः॥ ८१॥ शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्जेयमशुभार्जनहेतवे ॥ ८२॥ शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ८३॥
30 कषाया विषया योगाः प्रमादा-विरती तथा । मिथ्यात्वमार्त-रौद्रे चेत्यशुभं प्रति हेतवः ॥ ८४॥ यो कर्मपुद्गलादानहेतुः प्रोक्तः स आश्रवः । कर्माणि चाष्टधा ज्ञानावरणीयादिभेदतः ॥ ८५ ॥
१ इच्छां चकार । २ मालूरः बिल्ववृक्षः। * तलमू संवृ० ॥ ३ ऊर्जः कार्तिकः। *पुरः संवृ०॥ ४ अदीप्तः अकोधः। ५ दीप्तम्-सुशोभितम्। ६ तपः कृतवान् । ७ रोषयुक्तः। ८ महते। ९प्रभवः उत्पत्तिस्थानम् । १० मिम्बारह वर-सत्यम् । श्लोकोऽयं संदृ० नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org