________________
15
३०२ कलिकालसर्वजश्रीहेमचन्द्राचार्यप्रणीतं
[तृतीयं पर्व निसर्गमानोज्ञकभूदृशामानन्ददायिनी । गगने चन्द्रलेखेव सैकैवाभून्महीतले ॥ २४ ॥ पक्षद्वयेन शुद्धेन राजन्ती मधुरखरी । सा पत्युर्मानसे राजहंसीवोवास सर्वदा ॥२५॥ रतिर्न रतिमन्वाप न प्रीतिः प्रीतिमाययौ । रूपेणाप्रतिरूपेण भृशं तस्याः पराजिता ॥ २६ ॥ सुग्रीवनृपतेस्तस्याश्चान्योऽन्यमनुरूपयोः । क्रीडतोरगमत् कालो रोहिणी-शशिनोरिव ॥ २७॥
इतश्च वैजयन्तस्थो महापद्मस्य भूपतेः । जीवोऽपूरयदायुः खं त्रयस्त्रिंशतमर्णवान् ॥ २८॥ फाल्गुनासितनवम्यां मूलस्थे रजनीकरे । च्युत्वा ततस्तस्य जीवो रामाकुक्षाववातरत् ॥ २९॥ ददर्श च तदा देवी महाखमांश्चतुर्दश । गजादींस्तीर्थकृजन्मसूचकान् विशतो मुखे ॥३०॥ जगदाधारहेतुं तं देवी गर्भ दधार सा । क्रीडन्तं मत्तकलभं निम्नगेव हिमाद्रिजा ॥ ३१॥
अथ मार्गशीर्षकृष्णपञ्चम्यां मूर्लंगे विधौ । श्वेतवर्ण मॅकराङ्क सुतरत्नमसूत सा ॥ ३२ ॥ षट्पञ्चाशद् दिक्कुमार्यस्ततो भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ ३३ ॥ सौधर्मकल्पाधिपतिराभियोग्य इवामरः। आदाय स्वामिनं भक्त्या मेरुशैलशिरो ययौ ॥ ३४ ॥ तचूलाया दक्षिणतोऽतिपाण्डुकम्बलास्थिते । सिंहासन उपाविक्षच्छक्रोऽङ्कारोपितप्रभुः ॥ ३५ ॥ अच्युता भक्तितस्तत्राच्युताद्यास्त्रिदशेश्वराः । त्रिषष्टिः स्नपयामासुः स्वामिनं तीर्थवारिभिः ॥ ३६॥ अथेशमैशानपतेः सौधर्मेशः समार्पयत् । रेक्ष्यवस्तु स्वयामान्ते यामिकस्येव यामिकः ॥ ३७॥ अथ स्वामिनमीशानोत्सङ्गासीनं दिवस्पतिः । मपयामास वृषभशृङ्गोत्थैर्गन्धवारिभिः ॥ ३८ ॥ अङ्गरागैर्नवैश्चर्चामर्चा चाऽऽभरणादिभिः । आरात्रिकं च कृत्वेति प्रभुं तुष्टाव वासवः ॥ ३९ ॥ __ धर्महर्म्यदृढस्तम्भ! सम्यग्ज्ञानसुधाह्रद ! । जगदानन्दजीमूत ! जय त्रिभुवनेश्वर ! ॥४०॥ जगदीश ! तव ब्रूमः किं नामातिशयान्तरम् ? । यन्माहात्म्यगुणक्रीती त्रिलोकी याति दासताम् ॥४१॥
स्वर्गराज्येऽपि न भ्राजे तथा दास्ये यथा तव । भात्यद्रौ न तथा रत्नमप्यनिकटके यथा ॥ ४२ ॥ 20 शिवं यियासुरायासीर्वैजयन्ताच्छिवान्तिकात् । मार्गभ्रान्तस्य लोकस्य मार्ग दर्शयितुं ध्रुवम् ॥ ४३॥ भरतक्षेत्रगेहस्य चिरात् त्वमसि दैवतम् । निःशङ्कं तत्र धर्मोऽद्य गृहस्थ इव नन्दतु ॥ ४४ ॥
नि: । अवतारणतां यात सर्वोऽयं दिविषद्गणः ॥४५॥ ज्योत्स्नायिते प्रभापूरे लीयमानानि सस्पृहम् । दिष्ट्या त्वयि चकोरन्ति लोचनानि चिरात् प्रभो! ॥४६॥ वासागारे सभायां वा तिष्ठतश्चलतोऽपि मे । त्वन्नाममत्रस्मरणमस्तु सर्वार्थसिद्धिदम् ॥ ४७॥
जिनेश्वरमिति स्तुत्वा गृहीत्वा च सुरेश्वरः । नीत्वा च रामास्वामिन्याः पार्थे न्यास यथास्थिति ४८ कुशला सर्वविधिषु गर्भस्थेऽस्मिन् जनन्यभूत् । पुष्पदोहदतो दन्तोद्गमोऽस्य समभूदिति ॥ ४९ ॥ सुविधिः पुष्पदन्तश्चेत्यभिधानद्वयं विभोः । महोत्सवेन चक्राते पितरौ दिवसे शुभे ॥५०॥ युग्मम् ॥ जन्मतः प्रभृति स्वामी दर्शयन्नन्तरं महत् । क्रमेण ववृधे मेपसङ्क्रान्तेरिव वासरः ॥५१॥
अवाप च जगन्नाथो यौवनं रूपपावनम् । धनुःशतोचः श्वेताङ्गः क्षीरोद इव मूर्तिमान् ॥५२॥ 30 खामी भवविरक्तोऽपि भृशं पित्रनुरोधतः । उपयेमे राजकन्याः श्रियो विजयिनीः श्रिया ॥५३॥
* मनो संबृ० मो० ॥ १ मानोज्ञकम् -सौन्दर्यम् । २ मातृ-पितृपक्षद्वयेन, हंसीपक्षे पक्ष भाषायाम् 'पांख' इति । +रा। स्वप संवृ०॥ ३ रतिः प्रीतिश्च कामस्य भार्ये । ४ मूलनक्षत्रस्थे । ५ विशतः-प्रवेशं कुर्वतः। ६ चन्द्रे मूलनक्षत्रं गते । ७ मकरः चिह्न यस्य । ८ द्वितीयान्तम् ।। तात)भक्तयस्त मो० संल. सच ॥ ९ रक्षणीयं वस्तु । यामः प्रहरः । यामिकः प्राहरिका, भापायाम् 'पहेरावाळो'। १० जीमूतो मेघः। ११क्रीती भाषायाम् 'खरीदेली'। १२ शोभां प्राप्नोमि । १३ सिद्धशिलानामकं स्थानं शिवम् , तस्य अन्तिकान समीपान । ' "पस्याप्यति सह ॥ १४ ज्योत्स्नासमाने। १५ चकोरवत् आचरन्ति । पि वा । त्वन्नाममन्त्रस्मरणं मेऽस्तु स संबृ०॥ १६ स्थापयामास । १७ मेषसंक्रान्तेः आरभ्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org