________________
सप्तमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
सप्तमः सर्गः। श्रीसुविधिनाथचरित्रम् ।
15
वन्दे श्रीपुष्पदन्तस्य पुष्पदामेव निर्मलम् । जगत्रयशिरोवाचं शासनं पापनाशनम् ॥१॥ नवमस्याहतस्तस्यानवमं चरितं प्रभोः । तत्प्रभावात् प्रभविष्णुधिषणः कीर्तयाम्यदः ॥ २॥ पुष्करवरद्वीपार्थे प्राग्विदेहेषु पुष्कले । विजये पुष्कलावत्यामस्ति पूः पुण्डरीकिणी ॥३॥ 5 तस्यां पर्यामभन्नाम्रा महापद्मो महीपतिः । महाहिमादौ गम्भीरो महापद्म इव हदः॥४॥ आजन्मस्वीकृतस्तस्य शैशवे यौवनेऽपि च । धर्मो वपुःश्रिया सार्धमवर्धत यथोत्तरम् ॥५॥ स विरत्या विहीनेन मुहूर्तेनाप्ययत । धनेन वृद्धिहीनेन वृद्ध्याजीव इवान्वहम् ॥ ६ ॥ धर्मकृत्यानि कर्वाणो राज्यकत्यानि सोऽकरोत । वारिपाणमिवाध्वन्यस्तरन्नध्वतरङ्गिणीम ॥७॥ सम्यक् श्रावकधर्म स निजं कुलमिवामलम् । सुचिरं पालयामास प्रमादरहितः सुधीः॥८॥ 10 प्रायः सन्तोषनिष्ठोऽपि न धर्मे सन्तुतोष सः । स्तोकधर्मानपि परान् मेने चाभ्यधिकान् खतः ॥९॥ दिव्यास्त्रमिव युत्पारे भवपारयियासया । परिव्रज्यां स जग्राह जगन्नन्दगुरोः पुरः॥ १० ॥ नियूंढः श्रावकधर्मे दृढं सोऽपालयद् व्रतम् । कृतसंलेखन इवानशनं मारणान्तिकम् ॥ ११॥ एकावलीप्रभृतिभिः स तपोभिः सुदुस्तपैः । अर्हद्भक्त्यादिभिश्वोच्चैस्तीर्थकृन्नाम निर्ममे ॥ १२ ॥ एवंविधैरनुष्ठानैर्निजायुरतिवाह्य सः । विमाने वैजयन्ताख्ये महर्द्धिरमरोऽभवत् ॥१३॥
इतश्च जम्बूद्वीपेऽस्मिन् भरतार्धे तु दक्षिणे । काकन्दीत्यस्ति नगरी श्रीविशेषगरीयसी ॥ १४ ॥ भान्ति तत्रौकसां मुक्तावेचलाः पुष्पधन्वनः । मनस्विनीवशीकारजपमाल इवाऽमलाः ॥१५॥ तत्राऽऽयतनसङ्गीतगीतमुच्चैश्चतुर्विधम् । प्रपद्यते खेचरीणां गतेः स्तम्भनमन्त्रताम् ॥ १६ ॥ उद्दण्डपुण्डरीकाढ्या विशंदापा जलाशयाः । व्यक्तोडुशरदभ्रां द्यामनुकुर्वन्ति तत्र च ॥ १७॥ दूरादप्यभिगम्यन्ते नीयन्ते पाद्यपात्रताम् । प्रीण्यन्ते चोचितैरथुस्तस्यां गुरुवदर्थिनः ॥ १८ ॥ 20 सुग्रीवो नाम समभूद् ग्रैवेयकमिवावनेः । ग्रैवेयकामर इव श्रिया तत्र महीपतिः॥१९॥ तस्याऽऽज्ञा नगरा-ऽरण्य-सागरेषु गिरिष्वपि । सिद्धमत्रायुधमिव न क्वापि प्रत्यहँन्यत ॥ २० ॥ तस्मादद्रेरिव प्रादुर्भूता नीतितरङ्गिणी । उत्कल्लोलयशोवारिः प्रासरत् सागरावधि ॥ २१॥ यशोराशिपयोराशिस्तस्यो:शशिरोमणेः । विस्तृताः कीर्तिसरितो जग्रसे सर्वभूभृताम् ॥ २२ ॥ विरामः सर्वदोषाणामभिरामाऽमलैर्गुणैः । सर्वरामाँशिरोरत्नं तस्य रामेति पत्यभूत् ॥ २३ ॥ 25
१ अवमम् अधमम् , अनवमम् उत्तमम् । २ वृद्ध्याजीवः भाषायाम् 'व्याजखाऊ'। ३ जलपानम् । अध्वन्यः प्रवासी। ४ अन्यान् जनान् अल्पधर्मयुक्तान् अपि स्वतः अधिकान् उत्तमान् अमन्यत । ५ दृढमनाः। ६ संलेखना जीवितावसानप्राये समये क्रियमाणः संस्तारकः, मारणान्तिकम् मरणसामीप्यम् तत्र क्रियमाणं तपः । * मर संवृ० मो० ॥ ७ एकावलीनामकहारवत् यत्र तपसि उपवासादिभिः सूक्ष्मता स्थूलता अतिस्थूलता च क्रियते तद् 'एकावली'तपः । एवं रत्नावली-मुक्तावल्यादीनि तपांसि बोध्यानि । ८ अतिवाह्य समाप्य समाप्तं कृत्वा। ९ अवचूला ध्वजसंलग्ना अधोमुखा गुच्छाः, गृहाणां ध्वजे संबद्धाः मुक्कामयाः अधोमुखा मुक्तागुच्छा इति भावः। १० आयतने-गृहे गायक-गायिकादिभिः संगीतं यद् गीतम् गानम् । चतुर्विधता च गानस्यनर्तनं १ अभिनयः २ वादनं ३ भालापादिभिः गानं च ४ इति । ११ अर्को दण्डः यस्य तद् उद्दण्डं तादृशं पुण्डरीकम्-कमलम् तैः आढ्याः-पूर्णाः । १२ विशदाः आपः येषु तादृशाः जलाशयाः। १३ यत्र शरदि आकाशे उडूनि-तारकाणि व्यक्तानि । जलाशयाः गगनरूपाः, पुण्डरीकाणि च तारकरूपाणि । १४ यत्र दातारः याचकानां सम्मुखं गच्छन्ति। १५ गैवेयकम्-ग्रीवायाः भाभरणम् । १६ न कापि स्खलिता। १७ रामाः स्त्रियः।
त्रिपष्टि. ३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org