________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[तृतीयं पर्व अमुक्तसन्निधिस्ताभ्यां सर्वातिशयभाजनम् । व्योमेव चन्द्रो व्यहरत् पृथ्वी चन्द्रप्रभप्रभुः ॥ १११ ॥
सार्धा द्विलक्षी साधूनां साध्वीलक्षत्रयी पुनः । सहस्राशीतिसहिता द्वे सहस्रे तु पूर्विणाम् ॥११२ ॥ शताशीतिः सावधीनां मनःपर्ययिणां तथा । तथा दश सहस्राणि केवलज्ञानधारिणाम् ॥ ११३ ॥ जातवैक्रियलब्धीनां सहस्राणि चतुर्दश । वादलब्धिमतां सप्तसहस्री षट् शतानि च ॥ ११४ ॥ सार्धे लक्षे श्रावकाणां श्राविकालक्षपञ्चकम् । सहस्रैर्नवभिन्यूनं परिवारोऽभवत् प्रभोः ॥ ११५ ॥ पूर्वलक्षं त्रिमासोनं चतुर्विंशाङ्गवर्जितम् । विहत्य केवले खामी ययौ सम्मेतपर्वतम् ॥ ११६ ॥ समं मुनिसहस्रेण प्रपेदेऽनशनं प्रभुः । सुरा-ऽसुरैः सेव्यमानो मासं चास्थात् तथास्थितः ॥११७ ॥ सर्वयोगनिरोधेन निष्कम्पं ध्यानमास्थितः । तत्क्षणं क्षीणभवोपग्राहिकर्मचतुष्टयः ॥ ११८ ॥
नभस्यकृष्णसप्तम्यां श्रवणस्थे निशाकरे । समं तैमुनिभिः स्वामी जगाम परमं पदम् ॥ ११९ ॥ 10 कौमारे पूर्वलक्षे द्वे सार्धे राज्यस्थितौ पुनः । पूर्वलक्षाः षट् च सार्धाश्चतुर्विंशाङ्गसंयुताः ॥ १२० ॥
चतुर्विंशत्यङ्गहीनं पूर्वलक्षं पुनर्बते । इत्यायुः पूर्वलक्षाणि दश चन्द्रप्रभप्रभोः ॥ १२१ ॥ सुपार्श्वस्वामिनिर्वाणाच्छ्रीचन्द्रप्रभनिवृतिः । शतेष्वर्णवकोटीनां व्यतीतेषु नवस्त्रभृत् ॥ १२२ ।।
इति मोक्षमुपेयुषः प्रभोतिनां चैव शरीरसंस्क्रियाम् ।।
विधिवद् विदधुः सुरेश्वराः, पुनरेव त्रिदिवं प्रपेदिरे ॥ १२३ ॥ 15 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये
पर्वणि चन्द्रप्रभखामिचरितवर्णनो नाम षष्टः सर्गः॥
* प्रभः प्र संवृ०॥ सार्धद्वि० संबृ०॥ नं केवलात् प्रभृति प्रभः। विहत्य मोक्षकालको ययौ संवृ. सङ्घ० ॥ १ योगाः व्यापाराः, सर्वक्रियानिरोधेन । २ नभस्यः-भाद्रपदमासः। ॥णाश्चन्द्रप्रभस्य निवृतिः संवृ०॥ रसक्रिया संबृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org