________________
पष्ठः सर्गः] त्रिषष्ठिशलाकापुरुषचरितमहाकाव्यम् ।
२९९ तव ज्ञानमिदं नाथ ! केवलाभिधमुज्वलम् । विश्वोपकारकुजीयाच्छाया मार्गतरोरिव ॥ ८३ ॥ तावदेवान्धकाराणि न यावद् दिवसेश्वरः । मदान्धास्तावदेवेभा यावत्पश्चाननो न हि ॥ ८४ ॥ तावदेव हि दारियं न यावत् कल्पपादपः । तावदेव पयोदौस्थ्यं न यावद् वार्षकोऽम्बुदः ॥ ८५ ॥ तावदेव हि सन्तापो न यावत् पूर्णचन्द्रमाः । कुबोधास्तावदेवेह न यावत् त्वं निरीक्ष्यसे ॥ ८६ ॥ दृश्यसे नित्यमपि यैः सेव्यसे च शरीरिभिः । ताननुमोदयामीश ! सर्वदाऽपि प्रेमद्वरः ॥ ८७ ॥ इदानीं त्वत्प्रसादेन त्वदर्शनफलं मम । सम्यक्त्वमुत्तममिदं भूयादाजन्म निश्चलम् ॥ ८८ ॥
इति स्तुत्वा सुन शीरे स्थिते सति जगद्गुरुः । प्रारेभे देशनामेवं गिरा स्तनितधीरया ॥ ८९ ॥ अनन्तक्लेशकल्लोलनिलयो भवसागरः । तिर्यगूर्द्धमधो जन्तून् क्षिपत्येष प्रतिक्षणम् ॥ ९०॥ एक निवन्धनं तस्य क्रियते प्राणिभी रतिः । अशुचौ कृमिभिरिव यदत्रापि शरीरके ॥ ९१ ॥ रसा-ऽसँग्-मांस-मेदोऽस्थि-मञ्ज-शुक्रा-ऽत्र-वर्चसाम् । अशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः ॥९२॥10 नवस्रोतःस्रवद्विरसनिःस्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो मैंहामोहविजृम्भितम् ।। ९३ ॥ शुक्र-शोणितसम्भूतो मलनिःस्यन्दवर्द्धितः । गर्भे जरायुसञ्छन्नः शुचिः कायः कथं भवेत् ? ॥ ९४ ॥ मातृर्जग्धान-पानोत्थरसनाडीक्रमागतम् । पायं पायं विवृद्धः सन् शौचं मन्येत कस्तंनोः १ ॥९५॥ दोषधातुमलाकीणं कृमि-गण्डूपदास्पदम् । रोगभोगिगणैर्जग्धं शरीरं को वदेच्छुचि १ ॥ ९६ ॥ सुखादून्यन्न-पानानि क्षीरेक्षुविकृती अपि । भुक्तानि यत्र विष्ठायै तच्छरीरं कथं शुचि ? ॥ ९७॥ 15 विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । मलीभवति यत्राऽऽशु क शौचं तत्र वर्मणि ? ॥९८॥ जम्ध्वा सुगन्धि ताम्बूलं सुप्तो निश्युत्थितः पंगे । जुगुप्सते वक्रगन्धं यत्र तत् किं वपुः शुचिः॥९९॥ स्वतःसुगन्धयो गन्ध-धूप-पुष्प-गादयः। यत्सङ्गाद् यान्ति दौर्गन्ध्यं सोऽपि कायः शुचीयते ? ॥१०॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः। न याति शुचितां कायः शुण्डाँघट इवाऽशुचिः॥१०॥ मृजला-ऽनल-वाताशुंस्नानैः शौचं वदन्ति ये । गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ॥ १०२॥ 20 तदनेन शरीरेण कार्य मोक्षफलं तपः । क्षाराब्धे रत्नवद् धीमानसारात् सारमुद्धरेत् ॥ १०३॥
धर्मदेशनया भर्तुरनया च शरीरिणः । बहवः प्रत्यबुध्यन्त प्रात्रश्च सहस्रशः ॥ १०४॥ भर्तुस्विनवतिर्दत्तादयो गणभृतोऽभवन् । उत्पादादित्रिपद्या ते द्वादशाङ्गीमसूत्रयन् ॥ १०५॥ देशनान्ते प्रभोः पादपीठस्थो गणभृद्वरः । विदधे देशनां दत्तो दत्तबोधः शरीरिणाम् ॥ १०६॥ तस्यापि देशनाप्रान्ते खं खं स्थानं सुरादयः । जग्मुर्नागरयुवानो वीतसङ्गीतका इव ॥ १०७॥ 25
तत्तीर्थभूर्हरिद् यक्षो विजयो हंसवाहनः । दधानो दक्षिणे चक्र भुजे वामे तु मुद्गरम् ॥ १०८॥ मैरालयाना पीताङ्गी भृकुटी नाम देव्यपि । दधती दक्षिणी बाहू खड्ग-मुद्गरधारिणौ ॥ १०९॥ वामौ फलक-परशुलाञ्छितौ बिभ्रती भुजौ । तदा भगवतोऽभूतामुभे शासनदेवते ॥ ११० ॥
॥ त्रिभिर्विशेषकम् ॥ वर्षणशीलः वार्षुकः । २ मिथ्याज्ञानानि । ३ अविरतिमान्-व्रतप्रत्याख्यानत्यागादिधर्मरहितः प्रमद्वरः। ४ इन्द्रे । ५ स्तनितं मेघगर्जितम् । ६ 'प्राणिभिः रतिः' इति पदविभागः । रतिः आसक्तिः। ७ असृग् रुधिरम् । अघ्राणि-भाषायाम्'आंतरडां'। ८ विस्रम्-लोहितम् भाषायाम्-लोही। * महन्मो° संवृ० सङ्घ० ॥ मिलिनस्यन्द° सङ्घ ॥ ९ जग्धं भक्षितम् । १० पायं पायम्-पीत्वा पीत्वा ।। स्तनौ सङ्घ०॥ ११ क्षीरविकृतिः इक्षुविकृतिश्च । एते द्वे विकृती अन्यासामपि धृतशर्करादिविकृतीनामुपलक्षणम् । १२ शरीरे। १३ भक्षयित्वा। १४ प्रातःकाले। १५ शुचिः इव दृश्यते। १६ तैलेन अभ्यक्तः। १७ मद्यघटः। १८ अंशवः किरणाः तैः सूर्यस्नानम् । १९ तुषकण्डनम्-भाषायाम् 'फोफां खांडवा'। २०क्षाराद समुद्रात् । २१ समाप्तसंगीतश्रवणाः। २२ हंसवाहना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org