________________
२९८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ तृतीयं पर्व विद॑न् भोगफलं कर्माऽऽदेशं पित्रोश्च पालयन् । जगत्पतिरुपायंस्ताऽनुरूपा राजकन्यकाः ॥ ५५ ॥ पूर्वलक्षद्वये सार्धे जन्मतोऽतिगते सति । पितृभ्यामर्थितोऽत्यर्थ चतुर्विंशाङ्गसंयुताः ॥ ५६ ॥ पूर्वलक्षास्तु षट् सार्धा अनैपीत् पालयन्महीम् । अनध्यायमिवाध्यायरतो दीक्षोत्सुकः प्रभुः ॥५७॥ युग्मम् ।।
आयुक्तैरिव मौहूर्तेरथ लौकान्तिकामरैः । अज्ञापि दीक्षासमयं स्वयं जानन्नपि प्रभुः ॥ ५८ ॥ आढ्यो वित्रजिषुरिव प्रविव्रजिषुरुच्चकैः । दानं प्रदातुमारेभे खामी संवत्सरावधि ॥ ५९॥ संवत्सरान्ते चलितासनैरेत्य सुरेश्वरैः । दीक्षाभिषेको विदधे स्वामिनः किङ्करैरिव ॥ ६० ॥ ततो मनोरमां नाम शिविकां श्रीमनोरमाम् । वाम्यारुरोह नृ-सुरा-ऽसुरेन्द्रपरिवारितः ॥ ६१॥ स्तूयमानो गीयमानः प्रेक्ष्यमाणो जनैर्मुदा । सहस्राम्रवणं नामोपवनं भगवानगात् ॥ ६२ ॥ शिविकातः समुत्तीर्य रत्नालङ्करणादिकम् । अपि रत्नत्रयं प्रेप्सुस्तत्याज परमेश्वरः ।। ६३ ॥ पौषकृष्णत्रयोदश्यां में च मैत्रेऽपरेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ॥ ६४ ॥ मर्त्य क्षेत्रस्थितप्राणिमनोद्रव्यप्रकाशकम् । मनःपर्ययमुत्पेदे तुर्य ज्ञानं ततः प्रभोः ॥६५॥ पद्मखण्डपुरे राज्ञः सोमदत्तस्य समनि । पारणं परमान्नेन द्वितीयेऽह्नि प्रभुळधात् ॥ ६६ ॥ दिव्यं च वसुधारादिपञ्चकं विदधेऽमरैः । रत्नपीठं तेन राज्ञा त्वरीत्पादाङ्कितावनौ ॥ ६७ ।। हिमान्याऽप्यपराभूतः पराभूतार्कतेजसा । अकम्पितः समीरैश्च कृतावश्यायदुर्दिनैः॥ ६८ ॥ हैमनेन निशीथेन हिमीकृतसरोम्भसा । अखण्ड्यमानप्रेतिमः प्रतिमानविवर्जितः ॥ ६९ ॥ अरण्ये व्याघ्र-सिंहादिदुःश्वापदभयानके । पुरे च श्राद्धबहुले "निर्विशेषगति-स्थितिः॥ ७० ॥ एकाकी निर्ममो मौनी निर्ग्रन्थो ध्यानतत्परः । त्रीन् मासान् विजहारोवीं छद्मस्थः परमेश्वरः ॥ ७१ ॥
॥ चतुर्भिः कलापकम् ॥ विहरन् भगवान् भूयः सहस्राब्रवणं ययौ । तस्थौ प्रतिमया तत्र पुन्नागस्य तरोस्तले ॥ ७२ ॥ 20 द्वितीयशुक्लध्यानान्ते तस्थुषोऽथ जगत्पतेः । प्रणेशुओतिकर्माणि हिमवच्छिशिरात्यये ॥ ७३ ।।
फाल्गुनासितसप्तम्यामनुराधागते विधौ । स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्ज्वलम् ॥ ७४ ॥ सुरा-ऽसुरेन्द्राः सद्योऽपि क्षेत्रे योजनमात्रके । चक्रुः समवसरणं देशनाथ जगद्गुरोः ॥ ७५ ॥ सुरैः सञ्चार्यमाणानि स्वर्णाजानि नव क्रमात् । मन्यासैः पुनानस्तत् प्राग्द्वारा प्राविशत् प्रभुः॥७६ ॥
तत्र चाष्टादशधनुःशतोचं चैत्यपादपम् । प्रभुः प्रदक्षिणीचक्रे पालयन्नहिती स्थितिम् ॥ ७७ ॥ 25 तीर्थाय नम इत्युच्चैर्वाचमुच्चारयन् प्रभुः । रत्नसिंहासने तत्र न्यषदत् पूर्वदिसुखः ॥ ७८ ॥
प्रविश्य च यथाद्वारं यथास्थानमवास्थित । चतुर्विधोऽपि श्रीसङ्घः ससुरा-ऽसुर-मानुषः ॥ ७९ ॥ पञ्चाङ्गस्पृष्टभूपृष्ठः प्रणम्य परमेश्वरम् । जम्भारिभक्तिरभसादारेभे स्तोतुमित्यथ ॥ ८० ॥
सुरा-ऽसुर-नरैर्मूर्ध्नि धार्यमाणमिदं प्रभो! । शासनं ते विजयते त्रिलोकीचक्रवर्तिनः ॥ ८१॥ ज्ञानत्रयधरः पूर्व मनःपर्ययभृत् ततः । केवली चाधुना दिष्ट्या दृष्टस्त्वमधिकाधिकम् ॥ ८२॥
* विदन भोगफलम् इत्यादिकः अयं श्लोकः संवृ० मो० नास्ति ॥ १ कर्म विदन् पित्रोश्च आदेशं पालयन् इति भावः । २ पाणिग्रहणं चकार । । अनाध्या संवृ०॥ ३ अनध्यायः अवकाशदिवसः। ४ अध्यायरतः अभ्यासतत्परः। ५ मौहतेः मुहूर्तवेदिभिः, आयुक्तैः आयोजितैः। ६ ज्ञापितः। सुरासुरैः संवृ०॥ ७ अनुराधानक्षत्रे। मं मुनिस संवृ०॥ ८ विदधे-अमरैः वर्षणं चके, राजा च रत्नपीटं चकार । ९ प्रतिमाः तपोविशेषरूपाः अभिग्रहाः। १० प्रतिमानम्-उपमानं सादृश्यामिति यावत् । १ भयस्थाने भक्तस्थाने च यः समानचित्तः इति यस्य गतिः स्थितिश्च निर्विशेषा-एकरूपा। १२ अत्ययःअतिक्रमणम् । १३ क्रमाः-चरणाः, न्यासः-स्थापनम् । १४ पूर्वदिशास्थितद्वारेण । १५ अर्हत्ताम्-अर्हद्भावमिति । १६ जम्मारि:इन्द्रः, रभसो बेगः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org