________________
सर्ग: ]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
सा स्थम्भोरुहाणीव विकचानि पदे पदे । पादाभ्यां रोपयामास विचरन्त्यतिमन्थरम् ॥ २५ ॥ तस्या वो गत्यां च कौटिल्यं न तु चेतसि । मध्यप्रदेशे तुच्छत्वं न पुनर्मतिसम्पदि ॥ २६ ॥ तस्या गुणचमूं सर्वामपि सर्वातिशायिनीम् । अलञ्चकार सेनानीरिव शीलगुणो महान् ॥ २७ ॥
इत वैजयन्तस्थः स जीवः पद्मभूपतेः । त्रयस्त्रिंशत्पयोराशिसङ्ख्यमायुरपूरयत् ॥ २८ ॥ च्युत्वा च लक्ष्मणादेव्याः कुक्षाववततार सः । चैत्रस्य कृष्णपञ्चम्यामनुराधागते विधौ ।। २९ ।। तदानीं लक्ष्मणादेवी तीर्थकजन्मसूचकान् । चतुर्दश महास्वमान् सुखसुप्ता निरैक्षत ॥ ३० ॥ तं गर्भं रत्नगर्भेव रत्नसर्वस्वमुज्वलम् । सुखेन धारयामास लक्ष्मणादेव्यलक्षितम् ॥ ३१ ॥ पौषस्य कृष्णद्वादश्यामनुराधास्थिते विधौ । चन्द्राङ्कं चन्द्रवर्णं च सुतरत्नमस्त सा ॥ ३२ ॥ तदा चाऽऽसनकम्पेन ज्ञात्वा जन्माष्टमार्हतः । सूतिकाकर्म चक्रुः षट्पञ्चाशद्दिकुमारिकाः ॥ ३३ ॥ जन्मस्त्रात्रोत्सवचिकीरथ सौधर्मवासवः । अनैषीन्मेरुशिरसि स्वामिनं सुमनोवृतः || ३४ ॥ अतिपाण्डुकम्बलायां शिलायां परमेश्वरम् । विधायाङ्के निषसाद रत्नसिंहासने हरिः ॥ ३५ ॥ अथाऽच्युतप्रभृतयस्त्रिषष्टिरपि वासवाः । स्वामिनं स्त्रपयामासुरानुपूर्व्योलसमुदः || ३६ ॥ ईशानेन्द्राङ्कपर्यङ्के निवेश्य स्वामिनं ततः । शक्रोऽपि स्त्रपयामास वृषशृङ्गोत्थितैर्जलैः ॥ ३७ ॥ दिव्याङ्गरागनेपथ्य वस्त्रैरभ्यर्च्य भक्तितः । भगवन्तमिति स्तोतुमारेभे पाकशासनः ॥ ३८ ॥
२९७
१ विचरन्ती - चलन्ती । २ देवैः परिवृतः । ३ हास्यास्पदं यथा स्यात् तथा । ४ उत्- ऊध्वं पादा यस्य स उत्पादः । टिट्टिभो भाषायाम् 'टिटोडी' स्वकीयान् पादान् गगनस्य आधाररूपान् संबुध्य ऊर्ध्वमेव धारयति इति लोकवादः । * "दि हद सं० ॥ + 'हसे' सङ्घ० ॥ ६ 'चन्द्रप्रभ' इति नाम चकार । ७ कलभो हस्तिशिशुः ।
५ कराः
किरणाः ।
Jain Education International
15
वामनन्तगुणं स्तोतुं प्रवृत्तोऽस्मि हसौस्पदम् | आधारबुद्ध्या गगनस्योत्पाद इव टिट्टिभः ॥ ३९ ॥ व्यापिप्रज्ञस्त्वत्प्रभावात् क्षमोऽस्मि नु तव स्तवे । दिशोऽश्रुतेऽलेशोऽपि पौरस्त्यानिलसङ्गमात् ॥ ४० ॥ भविनां दृष्टमात्रो वा ध्यातमात्रोऽपि वा प्रभो ! । कर्मपाशच्छेदनायापूर्वं शस्त्रं किमप्यसि ॥ ४१ ॥ शुभानां कर्मणामद्य जगत्यभ्युदयः खलु । पङ्कजानामिवाऽऽदित्ये त्वयि विश्वतमछिदि ॥ ४२ ॥ निजं फलमदत्त्वाऽपि गलिष्यत्यशुभं मम । शेफालिकापुष्पमिव निशाकरकैराहतम् || ४३ ॥ प्रव्रज्याधारि रूपं ते दूरे विश्वाभयप्रदम् । मूर्त्त्याऽनयाऽपि भगवन् ! दुःखं हरसि जन्मिनाम् ॥ ४४ ॥ 20 कर्माणि भवमूलानि च्छेत्तुमत्राऽऽगमः प्रभो ! । द्रुमानिवोन्मूलयितुं वने मत्तमतङ्गजः ॥ ४५ ॥ अलङ्कारो यथा मुक्ताहारौंदिर्हृदयस्य मे । बहिरेष तथाऽन्तस्त्वं भूयास्त्रिभुवनेश्वर ! ॥ ४६ ॥
स्तुत्वेति प्रभुमीशानादादाय च पुरन्दरः । नीत्वा च लक्ष्मणादेवीपार्श्वमुञ्चद् यथास्थिति ||४७|| महीपतिर्महासेनोऽप्यथाकार्षीन्महोत्सवम् । अन्यत्राप्युत्सवायैव जातोऽर्हन् किं पुनर्गृहे ? ॥ ४८ ॥ गर्भस्थेऽस्मिन् मातुरासीच्चन्द्रपानाय दोहदः । चन्द्राभचैष इर्त्यांह्वचन्द्रप्रभमनुं पिता ॥ ४९ ॥ ज्योत्स्नागौरप्रभापूरपरिवेषमनोरमम् । वैजयन्तस्थितस्येव रूपं भर्तुः शिशोर्बभौ ॥ ५० ॥ लतानामिव धात्रीणामाकर्षन् पाणिपल्लवान् । दिने दिने कलभवद् ववृधे परमेश्वरः ॥ ५१ ॥ अप्राप्तं देवभावेऽपि स्वेच्छाप्राप्तमिव प्रभुः । बालत्वमन्वभूज्ज्ञानत्रयभागपि मुग्धवत् ॥ ५२ ॥ नानाविधाभिः क्रीडाभिर्लल शैशवं विभुः । कथाभिरतिरम्याभिः पन्थानं पथिको यथा ॥ ५३ ॥ शिशुत्वसरितः पारं स्त्रीवशीकारकार्मणम् । प्रपेदे यौवनं स्वामी सार्धधन्वशतोन्नतिः ॥ ५४ ॥
For Private & Personal Use Only
5
10
25
30
www.jainelibrary.org