________________
२९५ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं .
[तृतीय पर्व अनन्तदर्शन-ज्ञान-चीर्या-ऽऽनन्दमयात्मने । सर्वातिशयपात्राय तुभ्यं योगात्मने नमः॥९॥ इन्द्रादिपदवीप्राप्तिः कियदेतजगत्पते । । तव शुश्रूषया यमात् त्वादृशैरपि भूयते ॥ ९१॥
इति स्तुत्वा घुसनाथे तूष्णीकत्वमुपेयुषि । प्रारेभे भगवानेवं सर्वज्ञो धर्मदेशनाम् ॥ ९२ ॥ आत्मनः सर्वमप्येतदन्यत् तदिह तत्कृते । कृत्वा कर्म भवाब्धौ खं पातयत्यबुधो जनः ॥ ९३॥ यत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः । धन-बन्धु-सहायानां तत्रान्यत्वं न दुर्वचम् ॥ ९४ ॥ यो देह-धन-बन्धुभ्यो भिन्नमात्मानमीक्षते । क्व शोकशङ्कुना तस्य हन्ताऽऽतङ्कः प्रतन्यते ॥ ९५ ॥ इहान्यत्वं भवेद् भेदः स वैलक्षण्यलक्षणः । आत्म-देहादिभावानां साक्षादेव प्रतीयते ॥ ९६ ॥ देहाद्या इन्द्रियग्राह्या आत्माऽनुभवगोचरः । तदेतेपामनन्यत्वं कथं नामोपपद्यते ? ॥ ९७ ॥
आत्म देहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रपीड्यते ? ॥९८॥ 10 सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहप्रहारादीवात्मपीडोपजायते ॥ ९९ ॥
ये तु देहा-ऽऽत्मनोहेंदं सम्यगेव प्रपेदिरे। तेषां देहप्रहारादावपि नाऽऽत्मा प्रपीड्यते ॥१०॥ 'मेदं विद्वान् न पीड्येत पितृदुःखेऽप्युपस्थिते । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति ॥ १०१॥ अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव हि । स्वकीयत्वेन भृत्योऽपि वपुत्रादतिरिच्यते ॥ १०२ ॥ सम्बन्धानात्मनो जन्तुर्यावतः कुरुते प्रियान् । तावन्तो हृदये तस्य जायन्ते शोकशङ्कवः ॥ १०३॥ सर्वमन्यदिदं तसाजानीयात् पटुधीर्जनः । कस्यापि हि विनाशात् तन्न मुह्येत् तत्त्ववर्त्मनि ॥ १०४ ॥ अस्यन् ममत्वमृल्लेपं तुम्बीफलमिवाचिरात् । भवं तरति शुद्धात्मा परिव्रज्याधरो नरः॥१०५॥ ___एवं च देशनां श्रुत्वाऽबुध्यन्त बहवो जनाः । प्रव्रज्यां जगृहुः केपि श्रावकत्वमथापरे ॥१०६ ॥ विदर्भाचा गणभृतः पञ्चनवतिरभूवन् । ते चक्रुादशाङ्गी च स्वामिवागनुसारतः ॥ १०७॥
खामिनो देशनान्ते च विदर्भो गणभृद्वरः । वाम्यद्धिपीठाध्यासीनो विदधे धर्मदेशनाम् ॥ १०८ ॥ 20 विदर्भेऽपि गणधरे देशनाविरते सति । नमस्कृत्य प्रभुं जग्मुः खं खं स्थानं सुरादयः॥१०९॥
तत्तीर्थजन्मा मातको नीलाको गजवाहनः । बिल्वधरं पाशधरं विभ्राणो दक्षिणौ करौ॥११०॥ दधद् वामौ च दोर्दण्डौ नकुला-ऽङ्कुशधारिणौ । सुपार्श्वखामिनः पार्श्वेऽभवच्छासनदेवता ॥ १११ ॥ तथोत्पन्ना शान्तादेवी स्वर्णरुग् गजवाहना । वरदं साक्षसूत्रं च विभ्राणा दक्षिणौ भुजौ ॥ ११२ ॥ सशूला-ऽभयदौ बाहू दधाना दक्षिणेतरौ । भर्तुः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ ११३ ॥
विजहार ततोऽन्यत्र खामी ग्राम-पुरादिषु । बोधयन् भव्यभविनः पङ्कजानीव भास्करः ॥ ११४ ॥ साधुत्रिलक्षी साध्वीनां सहत्रिंशत्सहस्रिका । चतुर्लक्षी पूर्विणां तु सहस्रौ त्रिंशदन्वितौ ॥ ११५ ॥ सहस्राणि नव पुनरवधिज्ञानधारिणाम् । साधैकनवतिशती मनःपर्ययशालिनाम् ॥ ११६ ॥ एकादश सहस्राणि केवलज्ञानिनां पुनः । वैक्रियलब्धिसहस्राः पश्चदश त्रिशत्यपि ॥११७॥
अष्टौ च वादलब्धीनां सहस्राः सचतुःशताः । द्वे लक्षे सप्तपश्चाशत् सहस्राः श्रावकाः पुनः ॥ ११८ ॥ 30 श्राविकाणां पञ्चलक्षी सहजैः सप्तभिर्वियु । परिवारेऽभवद् मर्तुः पृथ्वीं विहरतः सतः ॥ ११९ ॥
आत्मा अनुभवगोचरः' इति पदविभागः। * °दावपि पी सङ्घ ॥ २ भेदस्य ज्ञाता । ३ अनिजत्वेन । + जाननन्यत्र धी सह ॥ ४ ममत्वरूपं मृत्तिकालेपम् अस्यन्-दूरीकुर्वन् । ५ स्वामिवचनानुसारेण । ६ करयोः विशेषणम् । ७ सुवर्णकान्तिः। ८ अक्षसूत्रेण सहितम् । ९ भव्याः योग्याः, भविनः प्राणिनः। १०वियु रहिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org