________________
पञ्चमः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
१९३
नबोध्यसे स्वयम्बुद्धः स्वभक्त्या स्मार्टसे पुनः । तीर्थं प्रवर्तय स्वामिमित्युक्त्वा ते दिवं ययुः ॥ ५९ ॥ सुपार्श्वस्वाम्यपि ततो दीक्षादानोत्सवोत्सुकः । दानचिन्तामणिर्दानं ददौ संवत्सरावधि ॥ ६० ॥ सांवत्सरिकदानान्ते वासवैश्चलितासनैः । दीक्षाभिषेको विदधे सुपार्श्वखामिनस्ततः ॥ ६१ ॥ अथो मनोहरां नाम नानारत्नमनोहराम् । अध्यारुरोह शिबिकां शिवङ्गामी जगत्पतिः ।। ६२ ।। अन्वीयमानो भगवान् सुरा- सुर-नरेश्वरैः । सहस्राम्रवणं नाम जगामोपवनोत्तमम् ॥ ६३ ॥ त्रिजगद्भूषणं स्वामी तत्रोज्झद् भूषणादिकम् । शक्रन्यस्तं देवदृष्यं स्कन्धदेशे दधार च ॥ ६४ ॥ ज्येष्ठ शुद्ध त्रयोदश्यां राधायां पश्चिमेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ॥ ६५ ॥ मन:पर्ययमुत्पेदे तु ज्ञानं जगत्पतेः । नारकाणामपि तदा सुखं क्षणमजायत ॥ ६६ ॥ पाटलीखण्डनगरे महेन्द्रनृपसद्मनि । द्वितीयेऽह्नि प्रभु परमान्नेन पारणम् ॥ ६७ ॥ विदधुर्वसुधारादि देवाश्चाद्भुतपञ्चकम् । रलपीठं महेन्द्रस्तु यत्र तस्थौ जगत्पतिः ॥ ६८ ॥ जयन् परीषहचमूतापं गिरिरिवाभवत् । निराकाङ्क्षः शरीरेऽपि समः स्वर्ण - तृणादिषु ॥ ६९ ॥ एकाकी मौननिरतो नित्यमेकान्तदत्तदृक् । विविधाभिग्रहरतोऽनासीनो निर्भयः स्थिरः ॥ ७० ॥ विविधाः प्रतिमाः कुर्वश्छद्मस्थो ध्यानमास्थितः । नव मासान् जगन्नाथो विजहार वसुन्धराम् ॥ ७१ ॥ ॥ त्रिभिर्विशेषकम् ॥
15
विहरंवाऽऽययौ भूयः सहस्राम्रवणं प्रभुः । शिरीषमूले षष्ठेन तत्रास्थात् प्रतिमाधरः ॥ ७२ ॥ द्वितीयशुक्लध्यानान्ते वर्तमानो जगद्गुरुः । संसारस्येव मर्माणि घातिकर्माण्यघातयत् ॥ ७३ ॥ फाल्गुनस्य कृष्णषष्ठ्यां विशाखास्थे निशाकरे । केवलज्ञानमुत्पेदे सुपार्श्वस्वामिनस्तदा ॥ ७४ ॥
-सुरेन्द्राः सद्योsu समागत्य निर्युक्तवत् । चक्रुः समवसरणं स्वामिनो देशनाकृते ॥ ७५ ॥ पूर्वद्वारेण तत्राथ मोक्षद्वारं जगद्गुरुः । प्रविवेश यथार्हैस्तु द्वारैः सुर-नरादयः ॥ ७६ ॥ चतुर्धन्वशतायैकक्रोशोचं चैत्यपादपम् । तत्र प्रदक्षिणीच प्रभुर्भुकल्पपादपः ॥ ७७ ॥ 'तीर्थाय नम' इत्युक्त्वा तत्र सिंहासनोत्तमे । उपाविशञ्जगन्नाथोऽतिशयैरुपशोभितः ॥ ७८ ॥ पृथ्वीदेव्या तदा खमे दृष्टं तादृग्महोरगम् । शक्रो विचक्रे भगवन्मूर्ध्नि च्छत्रमिवापरम् ॥ ७९ ॥ तदादि चाभूत् समवसरणेष्वपरेष्वपि । नाग एकफणः पञ्चफणो नवफणोऽथवा ॥ ८० ॥ स्वामिनः प्रतिरूपाणि देवा दिक्ष्वपरास्खपि । विकुर्वन्ति स्म तादृंशि तत्प्रभावेण भूयसा ॥ ८१ ॥ सोऽपि भगवांस्तत्र यथास्थानमवास्थित । न स्थानव्यत्ययो जातु सामान्यस्यापि पर्षदि ॥ ८२ ॥ अथ सौधर्मकल्पेन्द्रः प्रणम्य परमेश्वरम् । विरचय्याञ्जलिं मूर्ध्नि स्तोतुमेवं प्रचक्रमे ॥ ८३ ॥ निःशेषभ्रुवनकोशपद्मकोशविवस्वते । तुभ्यं नमो भगवते श्रीमते सप्तमार्हते ॥ ८४ ॥ गतं दुःखेन विश्वस्याऽऽविर्भूतं च मुंदा प्रभो ! । विश्वं तीर्थपरावृत्या परावृत्तमिवाधुना ॥ ८५ ॥ धर्मचंत्रिस्तव वचोरलदण्डेन भाखता । निर्वाणवैताढ्यगिरेर्द्वारमद्योद्वदिष्यते ॥ ८६ ॥ उन्नतस्येव मेघस्य भगवन् ! दर्शनं तव । विश्वस्य जीवलोकस्य सन्तापच्छेदनान्मुदे ॥ ८७ ॥ अनन्तज्ञान भगवन् ! देशनावचनं तव । दरिद्रैर्द्रविणमिव चिरादस्माभिराप्स्यते ॥ ८८ ॥ कृतार्था दर्शनेनापि तवाद्य वचनेन तु । विशेषतो भविष्यामो मुक्तिद्वार प्रकाशिना ॥ ८९ ॥
१] तीर्थङ्करा हि दीक्षाग्रहणात् पूर्वं संवत्सरपर्यन्तं भूरि भूरि दानं कुर्वन्ति अत उक्तं दीक्षादानोत्सवोत्सुकः । २ सिद्धिवि गन्ता । ३ औज्झत् मुमोच । ४ विशाखानामके नक्षत्रे । ५. अनुपविशन्- जर्ध्वं तिष्ठत्नेव इत्यर्थः । ६ नियुक्तः भाज्ञानुसारी दास ७ समवसरणमित्यर्थः । ८ उपविदेश । ९ हर्षेण, हर्षः प्रकटो भूत इत्यर्थः । १० हे धर्मचक्रवर्तिन् ! | त्रिषष्टि ३८
इव ।
Jain Education International
For Private & Personal Use Only
5
10
20
25
30
www.jainelibrary.org