SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ] त्रिषष्टिशलाकापुरुषचरित महाकाव्यम् । पञ्चमः सर्गः । श्रीसुपार्श्वनाथचरित्रम् | श्रीसुपार्श्व जिनेन्द्रस्य पान्तु वो देशनागिरः । उद्वेलकेवलज्ञानसमुद्रस्येव वीचयः ॥ १ ॥ चरितं श्री सुपार्श्व वक्ष्येऽहं सप्तमार्हतः । कुबोधध्वान्तसुदिनमशेषाणां शरीरिणाम् ॥ २ ॥ archaण्डद्वीपस्य प्राग्विदेहविशेषके । विजये रमणीयेऽस्ति नाम्ना क्षेमपुरी पुरी ॥ ३ ॥ तत्राssसीञ्जगदानन्दी नन्दिषेणो नरेश्वरः । दिनेश्वर इव श्रीमांस्तेजसामेकमास्पदम् ॥ ४ ॥ अशेषराज्यव्यापारे जागरूकस्य सर्वदा । तस्य प्रधान्यभूद् धर्मो दोर्दण्ड इव दक्षिणः ॥ ५ ॥ निम्नतः कण्टकीभूतान् जनतासुखहेतवे । तस्य कोपोऽपि धर्माय किं पुनः प्रस्तुताः क्रियाः ? || ६ || अहो! आश्चर्यमनिशं स्मृतिगोचरतां गतः । श्रीवीतरागो भगवांस्तस्य हृच्छयतां ययौ ॥ ७ ॥ आर्त्तानामतिहरणे स शरण्यः सदाऽभवत् । स्मरातुरपरस्त्रीणां न कदापि कथञ्चन ॥ ८ ॥ कालेन गच्छता सोऽभूद् भवोद्विनो महामनाः । गत्वाऽरिदमनाचार्यान्तिके दीक्षामुपाददे ॥ ९ ॥ स व्रतं पालयंस्तीक्ष्णं स्थानकैः कैश्चिदप्यथ । तीर्थकुन्नामकर्मोपार्जयामास महामुनिः ॥ १० ॥ ततो विधायानशनं समये स महामतिः । मृत्वा ग्रैवेयके षष्ठे महर्द्धिरमरोऽभवत् ॥ ११ ॥ Jain Education International * १ प्रधान्यभूत्-प्रधानो बभूव । कामरूपताम् सं० टिप्पणी | २ भर्ति - पीडा । + 'हामुनिः । मृ° मो० # ४ - रै- सुवर्णम् । ५ प्रो दुर्गः, + पत्रमा सं० ॥ ७ रिपूणाम् । १ ° तभीष' संपृ० मो० ॥ 15 इतश्व जम्बूद्वीपस्यामुष्य क्षेत्रेत्र भारते । पुरी वाराणसीत्यस्ति काशिदेशस्य मण्डनम् ॥ १२ ॥ भित्तिषु गेहेषु तस्यामुद्द्योतशालिषु । अष्टप्रकारपूजायां दीपो देवाग्रतो यदि ॥ १३ ॥ चैत्येषु तस्यामुद्दण्डरैर्दण्डोपरि चन्द्रमाः । धर्मस्यैकातपत्रस्याऽऽतपत्रश्रियमश्रुते ॥ १४ ॥ विद्याधर्यो रममाणास्तद्वा ऽट्टालकोपरि । जगतीजालकटकान् विस्मृत्य सुखमासते ॥ १५ ॥ वासागारेषु कूजन्ति तस्यां पारापता निशि । रतिभर्तुः प्रबोधार्थमिव मङ्गलपाठकाः ॥ १६ ॥ सतां प्रतिष्ठाकल्पः प्रतिष्ठाभाक् सुरेन्द्रवत् । प्रतिष्ठो नाम तत्राssसीन्यायनिष्ठो महीपतिः ॥ १७ ॥ मेरोरिव महत्वेनाप्रतिरूपस्य सर्वदा । तस्यैव पादच्छायायाम तिष्ठदखिलं जगत् ॥ १८ ॥ श्वेतातपत्रैर्मायूरातपत्रैश्च निरन्तरैः । द्यौर्बलाकाघनाङ्केव तस्मिन् दिग्विजयिन्यभूत् ॥ १९ ॥ सोऽभूत् प्रत्यर्थिनां युद्धेन कदापि पराङ्मुखः । अर्थिनामिव निःसीमपुरुषवर्तभूषणः ॥ २० ॥ आजन्मानन्यसाहाय्यो लीलयैव महाभुजः । स सदा धारयामास लीलाकमलवन्महीम् ॥ २१ ॥ तस्य पृथ्वीपतेः पृथ्वी नाम पृथ्वीव जङ्गमा । सधर्मचारिण्यभवत् स्थैर्यादिगुणभाजनम् ॥ २२ ॥ तस्याः शीलं च रूपं च नित्यं भूषणतां ययौ । भूषणानि तु वाह्यानि भूप्यतां प्रतिपेदिरे ।। २३ ।। निसर्गनैर्मल्यजुषो गुणास्तस्यामनेकशः । उत्पेदिरे ताम्रपर्णी नद्यां मुक्ताकणा इव ॥ २४ ॥ लावण्यसलिलं वक्र-नेत्र-पाण्यङ्घ्रिपङ्कजम् । तद्रूपमाभाच्छ्रीदेव्याः पद्मद इवापरः ॥ २५ ॥ तीर्थजननीत्वेन भावि दासीत्वमस्तु तत् । रूपेणापि जितास्तस्या दास्योऽभूवन् सुराङ्गनाः ।। २६ ।। sar नन्दिषेण जीवो ग्रैवेयके स्थितः । पष्ठेऽपूरयदायुः स्वमष्टाविंशतिसागरम् ॥ २७ ॥ च्युत्वा भाद्रपदे कृष्णाष्टम्यां राधागते विधौ । स जीवो नन्दिषेणस्य पृथ्व्याः कुक्षाववातरत् ॥ २८ ॥ 8० २९१ अहालकः भाषायाम् 'अटारी' । ८ भूमिरिव । ९ विशाखा नक्षत्रगते चन्द्रे । For Private & Personal Use Only ३ संसाराद् उद्दिनः । ६ अव्यक्तं शब्दायन्ते । 5 10 20 25 www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy