________________
10
२९० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्थप्रणीतं
[तृतीयं पर्ष हहा हा ! जठराङ्गारशकटीपाकसम्भवम् । मया दुःखं विषोढव्यं बद्धेन निजकर्मणा ? ॥ १७२ ॥ रतेरिव निधानानि क्व तास्ताः सुरयोषितः ? । काऽशुचिस्यन्दवीभत्सा भोक्तव्या नरयोषितः १॥ १७३ ॥ एवं वर्लोकवस्तूनि सारं सारं दिवौकसः । विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् ।। १७४ ॥
नवभिः कुलकम् ॥ 5 असारमित्थं संसारं चिन्तयित्वा विमुक्तये । प्रयतेत परिव्रज्योपायेन शुभधीर्जनः ॥ १७५॥
भर्तुस्तया देशनया प्रतिबुद्धाः सहस्रशः । केचिदाददिरे दीक्षां सम्यक्त्वमपरे पुनः ॥ १७६ ॥ सुव्रताया गणभृतोऽभूवन् सप्तोत्तरं शतम् । जग्रन्थुादशाङ्गी ते प्रपद्य त्रिपदी प्रभोः ॥ १७७ ॥ देशनाविरते नाथे सुव्रतो देशनां व्यधात् । शिष्या गुरूणां कूपानामाहावा इव तक्रियाः ॥ १७८ ॥ विरते देशनातोऽसिन्नपि सर्वे सुरादयः । प्रणिपत्य जगनाथं स्थानं निजनिजं ययुः ॥ १७९ ॥ __तत्तीर्थजन्मा कुसुमो नीलाङ्गो मृगवाहनः । सफलं चाभयदं च बिभ्राणो दक्षिणौ करौ ॥ १८०॥ विभ्रत् पाणी नकुला-ऽक्षसूत्रिणौ दक्षिणेतरौ । सदा सनिधिवासीद् भर्तुः शासनदेवता ॥ १८१ ॥
युग्मम् ॥ तथोत्पन्नाऽच्युता नाम श्यामाङ्गी नरवाहना । विभ्राणा दक्षिणौ बाहुदण्डौ वरद-पाशिनौ ॥ १८२ ॥
वामौ च कार्मुकधरा-ऽभयदौ विभ्रती भुजौ । पद्मप्रभजिनेन्द्रस्याभवच्छासनदेवता ॥ १८३ ॥ 15 अमुक्तसन्निधिस्ताभ्यां विश्वानुग्रहकाम्यया। विजहार जगत्स्वामी ग्रामा-ऽऽकर-पुरादिषु॥१८४॥ युग्मम् ।।
साधूनां त्रीणि लक्षाणि सहस्रास्त्रिंशदेव च । साध्वीनां च चतुर्लक्षी सहस्राणि च विंशतिः ॥१८५ ।। चतुर्दशपूर्वभृतां वे सहस्रे शतत्रयम् । अवधिज्ञानवतां च सहस्राणि पुनर्दश ॥ १८६ ॥ मनःपर्ययिणां त्रीणि शतान्ययुतमेव च । सहस्राणि द्वादश तु केवलज्ञानशालिनाम् ॥ १८७ ॥ वैक्रियलब्धिसहस्राः षोडशाष्टोत्तरं शतम् । वादलब्धिधराणां तु सहस्रा नव षट्शती ॥ १८८॥ श्रावकाणामुभे लक्षे षट्सप्ततिसहरुयपि । श्राविकाणां पुनः पञ्च लक्षाः पञ्च सहरुयपि ॥ १८९ ॥ परिवारेऽभवद् भर्तुः केवलज्ञानकालतः । षण्मास्या षोडैशाङ्गयोनं पूर्वलक्षं विहारिणः ॥ १९० ॥
मोक्षकालमथाऽऽसन्नं विदित्वा परमेश्वरः । सम्मेतादि जगामाथानशनं मासिकं व्यधात् ॥१९१॥ मार्गशीर्षे च कृष्णकादश्यां चित्रास्थिते विधौ । क्षीणशेषचतुष्कर्मा सिद्धानन्तचतुष्टयः ॥ १९२ ॥
मुनीनामनशनिनां शतैस्यग्रैः सहाष्टभिः । ध्यानाच्चतुर्थाच्चतुर्थ पुमर्थमगमत् प्रभुः ॥१९३ ॥ युग्मम् ।। 25 अर्धाष्टमाः पूर्वलक्षाः कौमारे षोडशाङ्गयुक् । पूर्वलक्षाणां सार्धेकविंशती राज्यपालने ॥ १९४ ॥
अङ्गैः षोडशभियूंनं पूर्वलक्षं पुनर्वते । इति त्रिंशत्पूर्वलक्षाण्यायुः पद्मप्रभप्रभोः॥ १९५ ॥ सुमतिस्वामिनिर्वाणान्मोक्षः पद्मप्रभप्रभोः । गतायामब्धिकोर्टानां सहस्रनवतावभूत् ॥ १९६ ।।
इन्द्राश्चतुःषष्टिरुपेत्य तत्र प्रभोर्मुनीनामपि भक्तिभाजः ।
शरीरसंस्कारमकार्पुरुचैर्निर्वाणकल्याणमहोत्सवं च ॥ १९७ ॥ 30 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये
पर्वणि श्रीपद्मप्रभखामिचरितवर्णनो नाम चतुर्थः सर्गः॥
20
१ अङ्गारशकटी भाषायाम्-'सगडी'। आहावाः कूपसमीपवर्तिनः गर्ताः। * पूर्वधरा द्वे संबृ० मो०॥षोडशासना उनम् । ४ पुरुषार्थम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org