________________
२८९
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । संसारसागरगतैः शमिलायुगयोगवत् । लब्धं कथञ्चिन्मानुष्यं हा ! रत्नमिव हार्यते ॥ १४४ ॥ लब्धे मानुष्यके खर्ग-मोक्षप्राप्तिनिवन्धने । हा! नरकाप्युपायेषु कर्मसूत्तिष्ठते जनः ॥१४५ ॥ आशास्यते यत् प्रयत्नादनुत्तरसुरैरपि । तत् सम्प्राप्तं मनुष्यत्वं पापैः पापेषु योज्यते ॥१४६ ॥ परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि । तत्प्रपञ्चः पश्चन किमर्थमुपवर्ण्यते॥१४७॥
शोका-ऽमर्ष-विषादेा-दैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥ १४८॥ दृष्ट्वा परस्य महतीं श्रियं प्राग्जन्मजीवितम् । अर्जितखल्पसुकृतं शोचन्ति सुचिरं सुराः ॥ १४९॥ चिराद् वा बलिनाऽन्येन प्रतिकतुं तमक्षमाः । तीक्ष्णेनामर्षशल्येन दोर्दूयन्ते निरन्तरम् ॥ १५० ॥ न कृतं सुकृतं किञ्चिदोभियोग्यं ततो हि नः। दृष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ॥१५१॥ दृष्ट्वाऽन्येषां विमान-स्त्री-रत्नोपवनसम्पदम् । यावजीवं विपच्यन्ते ज्वलदानलोर्मिभिः ॥ १५२ ॥ हा प्राणेश ! प्रभो ! देव ! प्रसीदेति सगद्गदम् । परैपितसर्वस्वा भाषन्ते दीनवृत्तयः ॥ १५३ ॥ 10 प्राप्तेऽपि पुण्यतः खर्गे काम-क्रोध-भयातुराः । न स्वस्थतामनुव॑ते सुराः कान्दर्पिकादयः ॥ १५४॥ अथ च्यवनचिह्नानि दृष्ट्वा दृष्ट्वा विमृश्य च । विलीयन्तेऽथ जल्पन्ति व निलीयामहे वयम् ? ॥१५५ ॥ तथाहि-अम्लाना अपि हि मालाः सुरद्रुमसमुद्भवाः। म्लानीभवन्ति देवानां वदनाम्भोरुहैः समम् ॥१५६॥ हृदयेन समं विश्वग्विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः कम्पन्ते कल्पपादपाः॥१५७॥ आकालप्रतिपन्नाभ्यां प्रियाभ्यां च सहैव हि । श्री-हीभ्यां परिमुच्यन्ते कृतागस इवामराः ॥१५८ ।। 15 अम्बरश्रीरपमला मलिनीभवति क्षणात् । अप्यकस्माद् विस्मरैरघौधैर्मलिनैपनैः ॥१५९ ॥ अदीना अपि दैन्येन विनिद्रा अपि निद्रया । आश्रीयन्ते मृत्युकाले पक्षाभ्यामिव कीटिकाः ॥१६० ॥ विषयेष्वतिरज्यन्ते न्यायधर्मविषाधया । अपथ्यान्यपि यत्नेन स्पृहयन्ति मुमूर्षवः ॥१६१ ॥ नीरुजामपि भज्यन्ते सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतिपातोत्थवेदनाविवशा इव ॥ १६२ ॥ पैदार्थग्रहणेऽकसान भवन्त्यपटुदृष्टयः । परेषां सम्पदुत्कर्षमिव प्रेक्षितुमक्षमाः ॥ १६३ ॥ 20 गर्भावासनिवासोत्थदुःखागमभयादिव । प्रकम्पतरलैरङ्गैर्भापयन्ति परानपि ॥ १६४ ॥ निश्चितच्यवनाश्चिद्वैर्लभन्ते न रति क्वचित् । विमाने नन्दने वाप्यामगारालिङ्गिता इव ।। १६५ ॥ हा प्रियाः! हा विमानानि ! हा वाप्यो! हा सुरद्रुमाः! । क द्रष्टव्याः पुनर्पूयं हतदैववियोजिताः ॥१६६॥ अहो । सितं सुधावृष्टिरहो ! बिम्बाधरः सुधा । अहो ! वाणी सुधावर्षिण्यहो ! कान्ता सुधामयी ॥१६७॥ हा रत्नघटिता स्तम्भाः! हा श्रीमन्मणिकुंट्टिमाः! हा वेदिका रत्नमय्यः कस्य यास्यथ संश्रयम् ? ॥१६८॥25 हा ! रखसोपानचिताः कमलोत्पलमालिताः । भविष्यन्त्युपभोगाय कस्येमाः पूर्णवापयः १ ॥१६९ ॥ हे पारिजात! मन्दार! सन्तान! हरिचन्दन । कल्पद्रुम ! विमोक्तव्यः किं भवद्भिरयं जनः १ ॥१७०॥ हहा ! स्त्रीगर्भनरके वस्तव्यमवशस्य मे । हहाऽशुचिरसाखादः कर्तव्यो मयका मुहुः ॥१७१ ॥
शमिठा भाषायां समोल', यत्र छिद्रे योऋधारणाय रज्जुः निक्षिप्यसे। युगं च भाषायां 'धोसरूं'। शमिलायुगयोगश्चेस्थम्यथा समुद्रे एकतः शमिला क्षिता, अन्यतः युगम् क्षितम् । तौ द्वौ प्रवाहेण वायमानौ पुनः कदा सम्बन्धयुक्तौ भविष्यतः अर्थात् युगच्छिद्रे शमिला कदा कथं प्रविशेत् ? इति न ज्ञायते । यथा च तयोर्द्वयोः सम्बन्धो दुःशकः एवमेव मनुजभवः सुदुर्लभः । २ उद्यमशीलो भवति । ३ विस्तारेण । ४ पुनः पुनः भृशं वा दूनाः क्षीणाः भवन्ति । ५ किङ्करदेवत्वम् । ६ मूषित-चोरित । • प्राप्नुवन्ति । कान्दर्पिकाः अधमदेवाः। ८ समन्तात् । ९ वस्त्रम् । * °रप्यम संबृ० ॥ १०विस्मरं प्रसरणशीलम् ।
"निद्रारहिवाः । १२ न्यायो नीतिमार्गः।१३ मरणाभिलाषिणः। १४ रोगरहितानाम् अपि । १५ पदार्थप्रत्यक्षीकरणे अपटुदृष्टयः मन्दमयः। भयं जनयन्ति । १७ भङ्गारैर्दग्धा इव । १८कुहिमम् भूमितलम् । १९ आश्रयम् । २० मालिताः शोभिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org