________________
[ तृतीय पर्व
२८८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूतरादयः। चूर्ण्यन्ते कृमयः पादैर्भक्ष्यन्ते चटकादिभिः ॥ ११४ ॥ शङ्खादयो निखन्यन्ते निष्कृष्यन्ते जलौकसः । गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः ॥ ११५॥ त्रीन्द्रियत्वेऽपि सम्प्राप्ते षट्पदी-मत्कुणादयः। विमृद्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ॥११६॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च । अदृश्यमानाः कुन्थ्वाद्या मैंथ्यन्ते चाऽऽसनादिभिः ॥११७॥ चतुरिन्द्रियताभाजः सरेघा-भ्रमरादयः । मधुमक्षैर्विराध्यन्ते यष्टि-लोष्टादिताडनैः ॥ ११८ ॥ ताड्यन्ते तालवृन्ताद्यैर्द्राग् दंश-मशकादयः । ग्रस्यन्ते गृहगोधाद्यैर्मक्षिका-मर्कटादयः ॥ ११९॥ पञ्चेन्द्रिया जलचराः खाद्यन्तेऽन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः॥१२०॥ उत्कील्यन्ते त्वचयद्भिः प्राप्यन्ते च भटित्रताम् । भोक्तुकामैर्विपच्यन्ते निगाल्यन्ते वसार्थिभिः ॥१२१॥
स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगायाः सिंहप्रमुखैार्यन्ते मांसकातिभिः॥ १२२ ॥ 10 मृगयासक्तचित्तैस्तु क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ॥ १२३॥
क्षुधा-पिपासा-शीतोष्णा-अतिभारारोपणादिना । कशा-ऽङ्कुश-प्रतोदैश्च वेदनां प्रसहन्त्यमी ॥ १२४ ॥ खेचरास्तित्तिर-शुक-कपोत-चटकादयः । श्येन-सिञ्चान-गृध्राद्यैर्ग्रस्यन्ते मांसगृभुभिः ॥ १२५॥ मांसलुब्धैः शाकुनिकै नोपायप्रपश्चतः । सङ्गृह्य प्रतिहन्यन्ते नानारूपैर्विडम्बनैः ॥ १२६ ॥
जला-नि-शस्त्रादिभवं तिरश्चां सर्वतो भयम् । कियद् वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ॥ १२७ ॥ 15 मनुष्यत्वेऽनार्यदेशे समुत्पन्नाः शरीरिणः । तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम् ॥ १२८॥
उत्पन्ना आर्यदेशेऽपि चाण्डाल-श्वपचादयः । तत् तत् पापं प्रकुर्वन्ति दुःखान्यनुभवन्ति च ॥ १२९॥ आर्यदेशे समुद्भूता अप्यनार्यविचेष्टिताः । दुःख-दारिय-दौर्भाग्यनिर्दग्धा दुःखमासते ॥ १३० ॥ परसम्पत्प्रकर्षणापकर्षेण स्वसम्पदाम् । परंप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः ॥ १३१॥ रुग्-जरा-मरणैर्ग्रस्ता नीचकर्मकदर्थिताः । तां तां दुःखदशां दीनाः प्रपद्यन्ते दयास्पदम् ॥ १३२ ॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भे वासो यथा घोरनरकावाससनिमः ॥ १३३॥ सूचीभिरग्निवर्णाभिभिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद् भवेद् गर्भवासिनः॥१३४ ॥ योनियत्राद् विनिष्क्रामन् यद् दुःखं लभते भवी । गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु ॥ १३५ ॥ बाल्ये मूत्र-पुरीषेण यौवने रतचेष्टितैः । वार्धके श्वास-कासाद्यैर्जनो जातु न लज्जते ॥ १३६ ॥ पुरीषसूकरः पूर्व ततो मदनगर्दभः । जराजरद्वः पश्चात् कदापि न पुमान् पुमान् ॥ १३७ ॥ स्वाच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूल् नान्तर्मुखः क्वचित् ॥ १३८ । सेवा-कर्षण-वाणिज्य-पाशुपाल्यादिकर्मभिः । क्षपयत्यफलं जन्म धनाशाविह्वलो जनः ॥ १३९ ॥ कचिच्चौर्य कचिद् द्यूतं क्वचिनीचैर्भुजङ्गता । मनुष्याणामही ! भूयो भवभ्रमंनिबन्धनम् ॥ १४० ॥ सुखित्वे कामललितैर्दुःखित्वे दैन्य-रोदनैः । नयन्ति जन्म मोहान्धा न पुनर्धर्मकर्मभिः ॥१४१॥
अनन्तकर्मप्रचयक्षयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापाः पापानि कुर्वते ॥ १४२॥ 80 ज्ञान-दर्शन-चारित्ररत्नत्रितयभाजने । मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ॥१४३॥
20
25
षट्पदी यूका, भाषायाम् ''।* मर्य()न्ते संबृ० मो० ॥२ सरघा मधुमक्षिका, भाषायाम् 'मधमाख'।३ मर्कट अर्णनाभः, भाषायाम् करोळीयो। ४ पक्षिघातकाः शाकुनिकाः। + रूपविउ संवृ०॥ ५ दुःखपूर्वकम् आसते तिष्ठन्ति ।
परदासतया। ७ मातृमुखः मातृपरतन्त्रः। ८ तरुणीपरवशः । ९ सुतपराधीनः। १० भुजङ्गो गणिकापतिः। भ्रमिनि संतु.॥ मयसाशम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org