________________
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । समस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ॥ ८५॥ संसारिणश्चतुर्भेदाः श्वेभ्रि-तिर्यङ्-नरा-ऽमराः । प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः ॥ ८६ ॥ ___ आधेषु त्रिषु नरकेषूष्णं शीतं परेषु च । चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् ।। ८७॥ नरकेषष्णशीतेषु चेत् पतेल्लोहपर्वतः । विलीयेत विशीर्येत तदा भुवमनाप्नुवन् ॥ ८८ ॥ उदीरितमहादुःखा अन्योऽन्येनासुरैश्च ते । इति त्रिविधदुःखार्ता वसन्ति नरकावनौ ॥ ८९॥ समुत्पन्ना घटीयत्रेष्वधार्मिकसुरैर्बलात् । आकृष्यन्ते लघुद्वारा यथा सीसशलाकिका ॥ ९०॥ गृहीत्वा पाणि-पादादौ वज्रकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ॥ ९१ ॥ दारुदारं विदार्यन्ते दारुणैः कचैः क्वचित् । तिलपेषं च पिष्यन्ते चित्रयः क्वचित् पुनः॥९२॥ पिपासातः पुनस्तप्तत्रपु-सीसकवाहिनीम् । नदी वैतरणी नामावतार्यन्ते वराककाः ॥ ९३॥ छायाभिकाशिणः क्षिप्रमसिपत्रवनं गताः । पँत्रशस्त्रैः पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् ॥ ९४॥ 10 संश्लेष्यन्ते च शाल्मल्यो वज्रकण्टकसङ्कटाः । तप्तायःपुंत्रिकाः क्वापि सारितान्यवधूरतम् ॥९५॥ संमार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं त्रपु॥९६ ॥ श्रीष्ट्र-कण्डू-महाशूल-कुम्भीपाकादिवेदनाः । अश्रान्तमनुभाव्यन्ते भृज्यन्ते च भटित्रवत् ॥ ९७ ।। छिन्न-भिन्नशरीराणां भूयो मिलितर्मणाम् । नेत्राद्यङ्गानि कृष्यन्ते बक-कङ्कादिपक्षिभिः ॥९८॥ एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालम् आ त्रयस्त्रिंशसागरम् ॥ ९९॥ 15
तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यैकेन्द्रियादिताम् । तत्रापि पृथिवीकायरूपतां समुपागताः ॥१०॥ इलादिशः पाठ्यन्ते मद्यन्तेऽश्व-गजादिभिः। वारिप्रवाहः प्राव्यन्ते दान्ते च दवाग्रिता ॥ १० व्यथ्यन्ते लवणा-ऽचाम्ल-मूत्रादिसलिलैरपि । लवणक्षारतां प्राप्ताः कथ्यन्ते चोष्णवारिणा ॥१०२॥ पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् । चीयन्ते भित्तिमध्ये च नीत्वा कर्दमरूपताम् ॥१०३॥ केचिच्छाणैनिघृष्यन्ते विपच्य क्षारमृत्पुटैः । टङ्काण्डकैर्विदार्यन्ते पाठ्यन्तेऽद्रिसरित्प्लवैः ॥ १०४ ॥ 20 अप्कायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । घनीक्रियन्ते तुहिनैः संशोष्यन्ते च पांसुमिः ॥१०५॥ क्षारेतररसाश्लेषाद् विपद्यन्ते परस्परम् । स्थाल्यन्तस्था विपच्यन्ते पीयन्ते च पिपासितैः ॥ १०६ ॥ तेजाकायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । नादिभिः प्रकुव्यन्ते ज्वाल्यन्ते चेन्धनादिमिः॥१०७॥ वायुकायत्वमप्याप्ता हन्यन्ते व्यंजनादिभिः । शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे ॥१०८॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम् । मुखादिवातैर्बाध्यन्ते पीयन्ते चोरगादिभिः ॥१०९॥ 25 वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः। छिद्यन्ते वाऽथ भिद्यन्ते पच्यते वाऽग्नियोगतः ॥११०॥ संशष्यन्ते निषिष्यन्ते प्लुष्यन्तेऽन्योन्यघर्षणैः । क्षारादिभिश्च दह्यन्ते सन्धीयन्ते च भोक्तृभिः ॥११॥ सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभञ्जनैः । क्रियन्ते भससाद दावैरुन्मूल्यन्ते सरित्प्लवैः ॥११२॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः। सर्वैः शस्त्रैः सर्वदाऽनुभवन्ति क्लेशसन्ततिम् ॥ ११३॥
१श्वभ्रम् नरकम् , श्वभ्री नरकवासी। २ बहूनि लघूनि छिद्राणि यसिन् तेन लघुरिछद्रेण साधनेन, भाषायाम् 'जतरडो' इति सुवर्णकारप्रसिद्धम् उपकरणम् । ३ शलाकिका भाषायाम्-'सळी'। ४ काष्ठविदारणवत्। ५क्रकचं करपत्रम्, भाषायाम् 'करवत'। ६ तिलपेषणवत् । * पुनस्तत्र त्र° संवृ०॥ ७ पत्ररूपशस्त्रैः। ८ असकृद् वारंवारम् । ९ अयःपुत्रिकाः लोहपुत्तलिकाः। १. क्रियाविशेषणम्, परस्त्रीरमणं स्मारयित्वा इति भावः। ११ खाद्यन्ते। १२ भ्राष्ट्रम् 'भट्टि' इति भाषायाम् । १३ कण्ड भ्राष्ट्रसमानम् । १४ 'भ्रस्जीत् पाके' इत्यस्य, पच्यन्ते इत्यर्थः। १५ भटित्रम् भाषायाम्-'भडधुं'।
वर्म शरीरम् । बानि क्लिश्यन्ते संबृ०मो०॥ १७ कृष्यन्ते आकृष्यन्ते । १८ आचाम्लम् अम्लम्, भाषायाम् 'खाद'। १९ महीक्रियन्ते हिमैः। २० धन इति भाषायाम् 'घण' । २१ तालवृन्तादिव्यजनैः, व्यजनम् भाषायाम् 'बीजणो'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org