________________
२८६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[तृतीयं पर्व जन्मतः पूर्वलक्षेषु गतेष्वर्धाष्टमेवथ । उपरोधात् पितुः स्वामी राज्यभारमुपाददे ॥ ५५॥ राज्यं च पालयन् सार्धा पूर्वलकविंशतिम् । तथा षोडश पूर्वाङ्गाण्यत्यकामजगत्पतिः ॥ ५६ ॥ भवपारं जिगमिषुः स्वामी लोकान्तिकामरैः । दीक्षायै प्रेरितो गत्यै पथिकः शकुनैरिव ॥ ५७॥ ददौ च वार्षिकं दानं ददतश्च प्रभोर्वसु । कुबेरप्रेरिताः सन्तो जृम्भकाः पर्यपूरयन् ॥ ५८॥ ___ अथेन्द्र-भूपैर्विहिताभिषेकः शिबिकां प्रभुः । आरुह्य निर्वृतिकरां सहस्राम्रवणं ययौ ॥५९॥ चित्रायां कार्तिक कृष्णत्रयोदश्यां च षष्ठकृत् । समं राजसहस्रेणापराह्ने प्रावजत् प्रभुः ॥६०॥ द्वितीयदिवसे खामी पुरे ब्रह्मस्थलेऽकरोत् । पारणं परमानेन सोमदेवनृपौकसि ॥ ६१॥ अमरा विदधुस्तत्र पञ्चदिव्याद्भुतान्यथ । स तु चक्रे नृपो रत्नपीठं यत्र स्थितो विभुः ॥६२॥
___विजहार च षण्मासांश्छद्मस्थः परमेश्वरः । आगाद् भूयः सहस्राम्रवणं दीक्षकसाक्षिकम् ॥ ६३॥ 10 षष्ठेन प्रतिमास्थस्य विभोर्वटतरोस्तले । प्रणेशु_तिकर्माणि वातोद्भूतोभ्रजालवत् ॥ ६४॥
ततश्चैत्रस्य राँकायां चन्द्रे चित्रामुपेयुषि । अम्लानं केवलज्ञानमभूत् पद्मप्रभप्रभोः ॥६५॥ सुरा-ऽसुरेन्द्राः समवसरणं तत्र चक्रिरे । प्रारद्वारा प्रविवेशाथ तत्र त्रिभुवनेश्वरः ॥६६॥ सार्धक्रोशोन्नतं चैत्यपादपं परमेश्वरः । तत्र प्रदक्षिणीचक्रे तमिव त्रिदिवेश्वरः ॥ ६७॥
'तीर्थाय नम' इत्येवमुच्चैरुचारितस्तुतिः । रत्नसिंहासने पूर्वाभिमुखो न्यषदत् प्रभुः ॥ ६८॥ 15 प्रभोश्च प्रतिबिम्बानि दिक्ष्वन्यास्वपि नाकिनः । तत्प्रभावेण तद्रूपनिर्विशेषाणि चक्रिरे ॥६९॥
तत्र चास्थाद् यथास्थानं श्रीमान् सङ्घश्चतुर्विधः। स्वामिन्युत्कण्ठयोत्कण्ठः केकिवज इवाम्बुदे ॥७०॥ अथ सौधर्मकल्पेन्द्रः प्रणम्य परमेश्वरम् । यथार्थसारया वाचा तुष्टाव स्पष्टभक्तितः ॥७१॥
निभन् परीषहचमूमुपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं महतां काऽपि वैदुषी ॥ ७२ ॥
अरक्तो भुक्तवान् मुक्तिमद्विष्टो हतवान् द्विषः । अहो ! महात्मनां कोऽपि महिमा लोकदुर्लभः ॥ ७३ ॥ 20 सर्वथा "निर्जिगीषेण भीतभीतेन चागसः । त्वया जगत्रयं जिग्ये महतां काऽपि चातुरी ॥ ७४ ॥
दत्तं न किश्चित् कस्मैचिन्नाऽऽत्तं किश्चित् कुतश्चन । प्रभुत्वं ते तथाप्येतत् कला काऽपि विपश्चिताम् ॥७५ ॥ यदेहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ ! पादपीठे तवालुठत् ॥७६ ॥ रागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीम-कान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ॥ ७७ ॥
सर्वे सर्वात्मनाऽन्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या तत् प्रमाणं सभासदः ॥ ७८ ॥ 25 महीयसामपि महान् महनीयो महात्मनाम् । अहो ! मे स्तुवतः स्वामी स्तुतेर्गोचरमागमत् ॥७९॥
भूयो भूयो भवत्पाददर्शनं मे भवत्विति । आशंसामि जगन्नाथ ! निर्वाणमपि नापरम् ॥ ८॥
एवं स्तुत्वा स्थिते शके प्रारेभे धर्मदेशनाम् । पञ्चत्रिंशदतिशयान्वितया भगवान् गिरा ॥ ८१॥ पारावार इवापारः संसारो घोर एष भोः ।। प्राणिनश्चतुरशीतियोनिलक्षेषु पातयन् ॥ ८२॥
श्रोत्रियः श्वपचः खामी पत्तिब्रह्मा कृमिश्च सः। संसारनाट्ये नटवत् संसारी हन्त ! चेष्टते ॥ ८३॥ 30 न याति कतमा योनि ? कतमां वा न मुञ्चति? । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ ८४ ॥
* मेषु च संवृ० सङ्घ०॥ १ आग्रहात् । + ज्यं प्रपालयन् सार्धपू संबृ० सङ्घ० ॥ २ तन्नामकाः कुबेराज्ञावशवर्तिमो देवविशेषाः। ३ भूयः पुनः। ४ नाशं प्रापुः। ५ उद्धृतं विनाशितम् । ६ पूर्णिमायाम् । ७ देवाः नाकवासिनः, कम् सुखम् , अकम् असुखम् दुःखम् , नास्ति अकं यत्र असो नाकः खर्गः। ८ निर्विशेषम् समानम् । ९ स्तुतिं चकार । १०जिगीषा विजयेच्छा। ११ आगः पापम् । १२ करो नृशंसः। 1 °सारोऽप्येष एव भोः! संवृ० मो०॥ योन्यावर्तेष संवृ० मो०॥ १३ श्रोत्रियोऽपि वेदज्ञब्राह्मणोऽपि चण्डालो भवति । एवं स्वामी अपि पत्तिः भाषायाम् 'पगी' भवति । १४ भाटकेन प्राप्तां कुटीम्, भाटकम् भाषायाम् 'भाडं'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org