________________
चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
२८५ यशो-ऽनुरागैर्युगपद् विस्तीर्णैः ककुभोऽभितः । अचर्चयच्चिरं सोऽर्धश्रीखण्ड-घुसृणैरिव ॥ २६ ॥ तस्मिन् महीपतौ लक्ष्मीदेव्या लीलानिकेतने । गुणराशिरभूद् वास्तुदेवतेव सहोत्थितः ॥ २७ ॥ ___ सतीनां सीमभूताऽभूत् सुसीमा नाम तस्य तु । सधर्मचारिणी देवकन्यासब्रह्मचारिणी ॥२८॥ पाणि-पादा-ऽधरेणावि पल्लवा पुष्पिता रदैः । दोा सशाखा शुशुभे कल्पद्रुमलतेव सा ॥ २९॥ नीरङ्गीच्छन्नवदना पश्यन्ती भुवमेव हि । ईर्यासमितिलीनेव मॅन्थरं सञ्चचार सा ॥ ३०॥ 5 तस्याः शरीरं कान्त्येव ह्रिया शीलमभूष्यत । आर्जवेन मन इव वचनं सूनृतेन च ॥ ३१ ॥ वदन्ती साऽतिविशदैर्दन्तांशुभिरशोभत । रजनीरमणज्योत्स्नाप्लवैरिव विभावरी ॥ ३२ ॥ __इतो ग्रैवेयके जीवः सोऽपराजितभूपतेः । एकाग्रत्रिंशदम्भोधिमितमायुरपूरयत् ॥ ३३ ॥ मावस्य षष्ट्यां कृष्णायां चित्रास्थे रजनीकरे । च्युत्वा सुसीमास्वामिन्याः कुक्षाववततार च ॥ ३४ ॥ तदा मुखे प्रविशतस्तीर्थकृञ्जन्मसूचकान् । चतुर्दश महाखमान् सुसीमा देव्युदैक्षत ॥ ३५॥ 10 वर्धमाने क्रमाद् गर्ने पद्मशय्यासु दोहदः । अभूद् देव्या देवताभिः पर्यपूर्यत तत्क्षणात् ॥ ३६ ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । कार्तिककृष्णद्वादश्यां चन्द्रे चित्रांगते सति ॥ ३७॥ सद्यो वक्रा-ऽतिचाराभ्यां ग्रहेषूचगतेषु च । पद्मवर्ण पद्मचिह्न सा देवी सुषुवे सुतम् ॥ ३८॥ षट्पञ्चाशद् दिक्कुमायः सूतिकमैत्य चक्रिरे । अथाऽऽगत्य प्रभुं शक्रोऽनैषीत् खेर्णाद्रिमूर्धनि ॥ ३९ ॥ शक्रोत्सङ्गस्थितं नाथमिन्द्रास्तत्राऽच्युतादयः । क्रमेणास्नपयन् सर्वेऽनुज्येष्ठं सोदरा इव ॥ ४०॥ 15 ईशानाङ्कस्थितं नाथं शक्रोऽपि हि यथाविधि । नपयामास पूजादि कृत्वा चेत्यभितुष्टुवे ॥ ४१ ॥
असिन्नपारे संसारमरौ सञ्चारिणां चिरात् । त्वदर्शनमभूद् देव ! देहभाजां सुधापा ॥ ४२ ॥ रूपेणाप्रतिरूपं त्वामश्रीन्तं पश्यतां सताम् । कृतार्थेयं समभवद् देवानां निर्निमेषता ॥४३॥ नित्यान्धकारे प्रद्योतः सुखं "निरयिणामपि । अभूत् ते तीर्थनाथत्वरूपकस्याऽऽमुखं ह्यदः ॥ ४४ ॥ पुण्यैः संसारिणां देव ! कृपासारणिवारिणा । सिक्त्वा नयसि वृद्धिं त्वं चिराद् धर्ममहीरुहम् ॥४५॥ 20 जगत्रितयनाथत्वं ज्ञानत्रितयधारिता । इदमाजन्म सिद्धं ते शीतलत्वमिवाम्भसाम् ।। ४६ ॥ पद्मवर्ण ! पद्मचिह्न ! पद्मगन्धिमुखानिल ! । पद्मानन ! पद्माद्वैत ! पद्मासद ! जय प्रभो ! ॥४७॥ अपारो दुस्तरश्वायं सदा संसारसागरः । जानुदनोऽधुना नाथ ! त्वत्प्रसादाद् भविष्यति ॥४८॥ न कल्पान्तरसाम्राज्यं नानुत्तरनिवासिताम् । वाञ्छामि किन्तु शुश्रूषां भवतः पादपद्मयोः ॥ ४९ ॥ - स्तुत्वैवं नाथमादाय शक्रो द्रुतमुपेत्य च । सुसीमास्वामिनीपार्श्वे मुमोच घों जगाम च ॥ ५० ॥ 25 पद्मशय्यादोहदोऽसिन् यन्मातुर्गर्भगेऽभवत् । पद्माभश्चेत्यमुं पद्मप्रभ इत्याह्वयत् पिता ॥५१॥ लाल्यमानो धुधात्रीभिः क्रीडन् सुरकुमारकैः । क्रमेण ववृधे स्वामी "द्वितीयं चीऽऽसदद् वयः॥५२॥ सार्धधन्वद्विशत्युच्चः पृथूरस्को बभौ प्रभुः । पद्मरागशिलालप्तक्रीडाशैल इव श्रियः॥५३॥ तित्यक्षुरपि संसारं खामी लोकानुवर्तनात् । माता-पित्रनुरोधाच चक्रे दारपरिग्रहम् ॥ ५४॥
१ ककुप् दिशा। २ श्रीखण्डम् चन्दनम् , घुसणम् केसरम् । ३ वास्तुदेवता गृहदेवता। ४ आविः प्रकटितम् । ५ रदाः दन्ताः। ६ नीरङ्गी शिरोऽवगुण्ठनम् , भाषायाम् 'लाज घुमटो' । 'नीरङ्गी' शब्दो देश्यप्राकृतरूपः । ७ मन्दं मन्दम् । ८ अंशवः किरणाः । ९प्लवः पूरम् । * एकोनत्रिं संवृ०॥ १० 'चित्रा' नाम नक्षत्रम् । ११ कर्म एत्य-कमैत्य । एत्य आगम्य । १२ स्वर्णादिः मेरुः। १३ स्तुतिं चकार । १४ प्रपा सर्वसाधारणो जलपानमण्डपः, भाषायाम् 'परब'। १५ श्रमरहितम् यथा स्यात् तथा । १६ निरयो नरकः। १७ आमुखं प्रथमः प्रारम्भः तीर्थनाथत्वरूपनाटकस्य प्रारम्भिकं फलम् । । वाम्भसः संवृ० सङ्घ० ॥ १८ अद्वैतेन पद्मरूपाभेदेन सर्वत्र पद्ममयत्वात् । १९ स्वर्गम्। २० द्वितीयं वयः यौवनम् , आसदत् प्राप। चाभवदू संवृ० मो० ॥ २१ पृथु विशालम् , उरः वक्षः। २२ त्यक्तुम् इच्छुः । ६ °कातिव संबृ०॥
त्रिषष्टि, ३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org