________________
२८४
[तृतीयं पर्व
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
चतुर्थः सर्गः। श्रीपद्मप्रभखामिचरित्रम् ।
10
वन्दामहे पद्मवर्णं पद्मप्रभजिनेश्वरम् । लीलानिवासं पंद्रायाः पद्मराशिमिव स्थितम् ॥१॥ __ पद्मप्रभजिनेन्द्रस्य चरितं दुरितापहम् । तत्प्रभावादसामान्याद् वक्ष्यामि क्षामधीरपि ॥२॥ धातकीखण्डद्वीपस्य प्राग्विदेहैकमण्डने । वत्साभिधाने विजये सुसीमेत्यस्ति पूर्वरी ॥३॥ तत्राऽपराजितो नाम द्विपद्भिरपराजितः । जितेन्द्रियः समभवद् भूपो धर्म इवाङ्गवान् ॥ ४ ॥ तस्य न्यायः सुहृदभूद् धर्मो बन्धुर्गुणा धनम् । सुहृद्वन्धु-धनान्यासन् बहिरङ्गानि केवलम् ॥५॥ तस्याऽऽर्जवं च शीलं च सत्त्वं चेत्यूर्जिता गुणाः । मिथो भूषणतां जग्मुः पादपस्येव पल्लवाः ॥६॥ अकोपनोऽरीनशिपंदनासक्तोऽन्वभूत् सुखम् । अलुब्धश्च श्रियं दधे स विवेकिशिरोमणिः ॥७॥
अर्हत्प्रवचनसुधां पिवन देव इवान्यदा । स एवं चिन्तयामास तत्त्वनिष्ठेन चेतसा ॥८॥ सम्पदो यौवनं रूपं शरीरं हरिणीदृशः । पुत्र-मित्राणि हाणि दुस्त्यजानि शरीरिणाम् ॥९॥ जीवनप्यदशां प्राप्तः कालधर्मं गतोऽपि वा । एभिस्तु त्यज्यते जन्तुर्विनष्टाण्डमिवाण्डजैः ॥१०॥ एकपादेन फालाभं स्नेहं तेष्वेकपक्षकम् । कुर्वाणो भ्रश्यति स्वार्थाद् धिगहो ! मन्दधीर्जनः ॥ ११ ॥ त्यजन्त्येते न यावन्मां पुण्यपाकक्षयादिह । तावत् पौरुषमालम्ब्य त्यजाम्येतानसंशयम् ॥ १२ ॥ एवं विचिन्त्य सुचिरं विवेकमणिरोहणः । धाराँधिरूढवैराग्यो राज्यं पुत्राय दत्तवान् ॥ १३ ॥ पिहिताश्रवसूरीणां पादपद्मान्तमेत्य सः । उपाददे परिव्रज्यां मोक्षज्यामहारथीम् ॥ १४ ॥ त्रिगुप्तिः पञ्चसमितिर्निर्ममो निष्परिग्रहः । निशितं खड्गधारावच्चिरं सोऽपालयद् व्रतम् ॥ १५ ॥ स-विंशतिस्थानकेभ्यः स्थानः कतिपयैरपि । आर्जयत् तीर्थकृनाम कर्म निर्मलमानसः ॥ १६ ॥ शुभध्यानपरः स्वायुः क्षपयित्वा महामनाः । अवेयकेऽऽभूनवमे महर्द्धिरमरोऽथ सः ॥ १७ ॥
इतश्च जम्बूद्वीपान्तर्वर्षेऽत्र भरताभिधे । कौशाम्बीत्यस्ति नगरी वत्सदेशस्य मण्डनम् ॥ १८॥ तत्रोचतरचैत्याग्रसिंहाभ्यणे परिभ्रमन् । त्रस्यताऽङ्ककुरङ्गेण यातीन्दुर्निष्कलङ्कताम् ॥ १९ ॥ तत्रावासगृहेपूच्चै पधूमा वितन्वते । युग्मॅयूनां रतभ्रष्टांशुकानामंशुकश्रियम् ॥ २० ॥ स्वस्तिकन्यस्तमुक्तासु तत्र प्रतिगृहं शुकाः । चञ्चवाघातं वितन्वन्ति दाडिमीबीजशङ्कया ॥ २१॥ श्रीमान् सर्वो जनस्तत्र नान्यस्खं कोऽपि लुण्टति । उद्यानकुसुमामोदस्योल्लुण्टाकः परं मरुत् ॥ २२ ॥ आसीत् तत्र धरो राजा धरायास्तापनोदनात् । धारणाचाप्यधरयन् धारौधर-धराधरान् ॥ २३॥ न भूपाः खण्डयामासुस्तस्याऽऽज्ञां क्षितिमण्डले । पुष्पस्रजमिवाखण्डां दधुः शिरसि किन्तु ते ॥२४॥ कोदण्डोहण्डदोर्दण्डोऽप्येष नो दण्डचण्डताम् । अदर्शयत किन्तु सौम्यस्तस्थौ भद्र इव द्विपः ॥२५॥
१ लक्ष्म्याः । २ पापनाशकम् । ३ क्षामा क्षीणा । ४ वरा पू: नगरी। * सत्यं चे सङ्घ०॥ ५ अशिषत् शासयाञ्चकार । ६ अदशां दुर्दशाम् । ७ पक्षिभिः। ८ फालः उत्प्लवनम् , भाषायाम् 'फाळ' । ९ मणिरोहणः मणिपर्वतः। १० प्रवर्तमाना धारा यथा उत्तरोत्तरं वर्धते तथा धाराम् अधिरूढम् वैराग्यं यस्य । ११ व्रज्या-मार्गः । १२ उपार्जयामास । * ताकु संवृ०॥ १३ अङ्कस्थहरिणेन, अङ्को नाम लाञ्छनम् उत्सङ्गो वा । तत्र वा संवृ० सङ्घ० ॥ १४ दम्पतीनाम् । रतं रतिक्रीडा, अंशुकं वस्त्रम् । १५ नोदनं दूरीकरणम् । धरणा संवृ० सा ॥ १६ धारणं च यथास्थानं व्यवस्थापनम् । १७ धाराधरो मेघः, धराधरः पर्वतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org