________________
तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
२८३ द्वितीयपौरुपीप्रान्ते व्यसृजत् सोऽपि देशनाम् । नत्वार्हन्तं ततो जग्मुः स्वं स्वमिन्द्रादयः पदम् ॥२४५॥
तत्तीर्थे तुम्वुरुर्नाम श्वेताङ्गस्तार्क्ष्यवाहनः । दक्षिणौ वरद-शक्तिधरी बाहू समुद्वहन् ॥ २४६ ॥ वामौ बाहू गदाधार-पाशयुक्तौ च धारयन् । सदा सनिहितो भर्तुरभूच्छासनदेवता ॥ २४७॥ युग्मम् ।। तथोत्पन्ना महाकाली स्वर्णरुक् पद्मवाहना । दधाना दक्षिणी बाहुदण्डौ वरद-वाशिनी ॥ २४८ ॥ मातुलिङ्गा-ऽङ्कुशधरौ परौ वाहू च बिभ्रती । भर्तुः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥२४९॥ 5
वचनातिशयैः पञ्चत्रिंशता शोभितः प्रभुः । बोधयन् भव्य भविनो विजहार वसुन्धराम् ॥ २५० ॥ साधूनां त्रीणि लक्षाणि सहस्राणि च विंशतिः। साध्वीनां पञ्चलक्षी च सहत्रिंशत्सहस्रिका ॥ २५१ ॥ चतुर्दशपूर्विणां द्वे सहस्र सचतुःशते । एकादश सहस्राणि त्ववधिज्ञानशालिनाम् ॥ २५२ ॥ मनोज्ञानिनामयुतं सपश्चाशचतुःशती । त्रयोदश सहस्राणि केवलज्ञानिनां पुनः ।। २५३ ॥ वैक्रियलब्धिसहस्राण्यष्टादश चतुःशती । अयुतं वादलब्धीनां सपञ्चाशचतुःशती ॥ २५४ ॥ 10 श्रावकाणामुभे लक्षे सैकाशीतिसहस्रके । श्राविकाणां पञ्चलक्षी सहस्राणि च षोडश ॥ २५५ ॥ चतुस्त्रिंशदतिशयान्वितस्य सुमतिप्रभोः । उव्या विहरमाणस्य बभूवेति परिच्छदः ।। २५६ ॥
पूर्वलक्षं द्वादशाझ्या विंशत्यब्द्या च वर्जितम् । आरभ्य केवलोत्पत्तेर्व्यहरत् नुमतिः प्रभुः ॥२५७॥ खं मोक्षकालं ज्ञात्वाऽथ सम्मेतादि ययौ विभुः । समं मुनिसहस्रेण तस्थावनशनेन च ॥ २५८ ॥ मासान्ते क्षेतभवोपग्राहिकर्मा जगत्पतिः । सम्प्राप्तानन्तचतुष्कः शैलेशीध्यानमास्थितः ॥ २५९ ॥ 15 चैत्रस्य सितनवम्यां पुनर्वसुगते विधौ । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥ २६० ॥ युग्मम् ॥ .
कौमारेऽयुः पूर्वलक्षा दश राज्ये पुनः प्रभोः । पूर्वलक्षैकोनत्रिंशद् द्वादशाङ्गसमन्त्रिता ॥ २६१ ।। पूर्वलक्षं द्वादशाङ्गन्यूनं व्रतधरस्य तु । चत्वारिंशत्पूर्वलक्षा इत्यायुः सुमतिप्रभोः ॥ २६२ ॥ अभिनन्दननिर्वाणात् सुमतिखामिनिवृतिः । कोटिलक्षेषु नवसु सागराणां गतेष्वभूत् ॥ २६३ ॥
भर्तुः सहस्रयतिनां च तदा शरीरसंस्कारमग्निजनितं विधिवद् विधाय ।। निर्वाणपर्वमहिमानमकार्षुरिन्द्रा नन्दीश्वरान्तरगमंश्च पुनः स्खलोकम् ॥ २६४ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीय
पर्वणि सुमतिखामिचरितवर्णनो नाम तृतीयः सर्गः॥
20
६ ताक्ष्यः गरुडः। * °सन्निहिता भ° संवृ०॥२ सुवर्णकान्तिः। । रौ वामबा संवृ० सङ्घ०॥ ३ भव्यजीवान। परिवार न्ते क्षित संबृ० मो०॥ ५ क्षतंक्षीणम् । ६ पुनर्वसुनक्षत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org