________________
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं
[ तृतीयं पर्व
तज्ज्ञात्वाssसन कम्पेनाssगत्येन्द्राः ससुरा - ऽसुराः । चक्रुः समवसरणं स्वामिनो देशनाकृते ॥ २१४ ॥ तत्र प्रविश्य प्राग्द्वारा प्रदक्षिण्यकृत प्रभुः । धनुः षोडशशत्यग्रक्रोशोचं चैत्यपादपम् ॥ २१५ ॥ तीर्थाय नम इत्युक्त्वाऽध्यास्त सिंहासनं प्रभुः । प्राङ्मुखो दिक्षु चान्यासु तद्रूपाणि व्यधुः सुराः ॥ २१६ ॥ सङ्घस्याद् यथास्थानं ससुरासुरमानुषः । नमस्कृत्य जगन्नाथं वज्रभृच्चैवमस्तवीत् ॥ २१७ ॥
गायन्निवालिविरुतैर्नृत्यन्निव चलैर्दलैः । त्वगुणैरिव रक्तोऽसौ मोदतेऽशोकपादपः ॥ २९८ ॥ आयोजनं सुमनसोऽधस्तान्निक्षिप्तबन्धनाः । जानुदशीः सुमनसो देशनोर्व्या किरन्ति ते ॥ २१९ ॥ मालव-कैशिकी मुख्यग्राम- रागपवित्रितः । तव दिव्यो ध्वनिः पीतो हर्षोद्रीवैर्मृगैरपि ॥ २२० ॥ तवेन्दुधामधवला चकास्ति चमरावली | हंसालिखि वाडनपरिचर्यापरायणा ।। २२१ ॥ मृगेन्द्रासनमारूढे त्वयि तन्वति देशनाम् । श्रोतुं मृगाः समायान्ति मृगेन्द्रमिव सेवितुम् ॥ २२२ ॥ 10 भासां चयैः परिवृतो ज्योत्स्नाभिरिव चन्द्रमाः । चकोराणामित्र दृशां ददासि परमां मुदम् || २२३ ॥ दुन्दुभिर्विश्वविश्वेश ! पुरो व्योम्नि प्रतिध्वनन् । जगत्याप्तेषु ते प्राज्यं साम्राज्यमित्र शंसति ॥ २२४ ॥ तवोर्द्धमूर्द्ध पुण्यर्द्धिक्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवनप्रभुत्वप्रौढिशंसिनी ॥। २२५ ।।
एतां चमत्कारकरी प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा नाथ ! मिथ्यादृशोऽपि हि ।। २२६ ।। स्तुत्वैवं विरतेश भगवान् सुमतिप्रभुः । सर्वभाषानुगामिन्या प्रारेभे देशनां गिरा ॥ २२७ ॥ 15 कृत्याकृत्यपरिज्ञानयोग्यतामभ्युपेयुषा । इह स्वकार्यमूढेन न स्थातव्यं शरीरिणा ॥ २२८ ॥ पुत्र-मित्र-कलत्रादेः शरीरस्यापि सत्क्रिया । परकार्यमिदं सर्वं न स्वकार्यं मनागपि ॥ २२९ ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितीनि भवान्तरे ।। २३० ।। अन्यैस्तेनार्जितं वित्तं भूयः सम्भूय भुज्यते । स त्वेको नरककोडे क्लिश्यते निजकर्मभिः ॥ २३१ ॥ दुःखदावाग्निभीष्मेऽस्मिन् वर्तते भवकानने । वैम्भ्रमीत्येक एवासौ जन्तुः कर्मवशीकृतः ॥ २३२ ॥ इह जीवस्य मा भूवन् सहाया बान्धवादयः । शरीरं तु सहायश्चेत् सुख-दुःखानुभूतिदम् ॥ २३३ ॥ issयाति पूर्वभवतो न याति च भवान्तरम् । ततः कायः सहायः स्यात् सम्फेटमिलितः कथम् १ || २३४ ॥ -san समास सहायाविति चेन्मतिः । नैषा सत्या न मोक्षेऽस्ति धर्मा-धर्म सहायता ॥ २३५ ॥ तस्मादेको भ्रमीति भवे कुर्वन् शुभाशुभे । जन्तुर्वेदयते चैतदनुरूपे शुभाशुभे ॥ २३६ ॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद् द्वितीयस्य न सम्भवः ॥ २३७ ॥ यद् दुःखं भवसम्बन्धि यत् सुखं मोक्षसम्भवम् । एक एवोपभुङ्गे तन्न सहायोऽस्ति कश्चन ॥ २३८ ॥ यथा चैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्पाणि-पादादिसंयोजितपरिग्रहः ॥ २३९ ॥ तथैव धन-देहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधेः पारमासादयत्यसौ ॥ २४० ॥ तत् सांसारिकसम्बन्धं विहायैकाकिना सता । यतितव्यं हि मोक्षाय शाश्वतानन्दशर्मणे ।। २४१ ॥ तां प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवस्तदा । नरा नार्यश्च निःसङ्गीभूयोपाददिरे व्रतम् ॥ २४२ ॥ चमराद्या गणभृतोऽभूवन् शतमनुत्तमाः । ते भर्तुस्त्रिपदीं प्राप्य द्वादशाङ्गीमसूत्रयन् ॥ २४३ ॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां विभुः । चक्रे स्वाम्यङ्घ्रिपीठस्थो देशनां गणभृद्वरः ॥ २४४ ॥ ४ देवाः । ५ जानुप्रमाणाः ।
१ पूर्वदिशास्थितेन द्वारा । २ प्रदक्षिणां चकार । ३ अलयः भ्रमरास्तेषां विरुतैः गुञ्जनैः ।
६ कुसुमानि । ७ सिंहासनम् । ८ भासां चयैः भामण्डलेनेत्यर्थः । ९ नेत्राणाम् । १० म्रियते । ११ सचितानि । १२ विस्तीर्णे | १३ पुनः पुनः भृशं व भ्रमति । सहाय्यस्तु सुख' संबृ० । सहास्त्वे [त ] त् सुख' मो० ॥ १४ विनशनस्वरूपेण मिलित इत्यर्थः 1 १५ परिग्रहः शरीरम् ।
*
5
20
25
30
२८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org