________________
२८१
तृतीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । त्रैलोक्ये क्षणमुद्दयोतो नारकाणां क्षणं सुखम् । तदानीमभवच्छकादीनां चाऽऽसनकम्पनम् ॥ १८२ ॥ दिकुमार्यस्तत्र चक्रुः सूतिकर्म यथोचितम् । शक्रश्च मङ्गलातल्यात् सुमेरावनयत् प्रयुम् ।। १८३ ॥ शक्रावर्तिनं नाथमिन्द्रास्तत्राऽच्युतादयः । त्रिषष्टिः स्वपयामासुस्तीाम्भोभियेथाक्रमम् ।। १८४ ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्लपयजलैः । विकृतस्फाटिकचतुर्वृषशृङ्गविनिर्गतैः ॥ १८५ ॥ विलिप्य पूजयित्वा च वस्त्रा-ऽलङ्करणैः प्रभुम् । आरात्रिकं च प्रोत्तार्य शक्रो भक्त्यैवमस्तवीत् ॥१८६ ॥ 5
देव ! त्वजन्मकल्याणेनापि कल्याणभाग् मही । किं पुनः पादकमलैर्यत्र त्वं विहरिष्यसे ।।१८७॥ त्वदर्शनसुखप्राप्त्या कृतकृत्या दृशोऽधुना । कृतार्थाः पाणयश्चैते भगवन् ! पूजितोऽसि यैः ॥ १८८ ॥ जिननाथ ! तव स्नात्र-चर्चा-ऽर्चादिमहोत्सवः । मन्मनोरथचैत्यस्य चिरात् कलशतां ययौ ॥ १८९ ॥ जगन्नाथ ! प्रशंसामि संसारमपि सम्प्रति । यत्र त्वदर्शनं देव ! मुक्तेरेकं निवन्धनम् ॥ १९० ॥ ऊर्मयोऽपि हि गण्यन्ते खयम्भूरमणोदधेः । तवातिशयपात्रस्य न पुनर्मादृशैर्गुणाः ॥ १९१॥ 10 धमैकमण्डपस्तम्भ ! जगदुद्द्योतभास्कर ! । कृपावल्लीमहावृक्ष ! रक्ष विश्वं जगत्पते ! ॥ १९२ ॥ निवृतेः संवृतद्वारसमुद्घाटनकुञ्चिका । धन्यैः शरीरिभिर्देव ! श्रोष्यते तव देशना ॥ १९३ ॥ मन्मनस्युज्वलादर्शसन्निभे भुवनेश्वर ! । त्वन्मूर्तिनित्यसङ्क्रान्ता भूयान्नितिकारणम् ॥ १९४ ॥
इति स्तुत्वा हरि थमादायोप्लुत्य च क्षणात् । मङ्गलास्वामिनीपार्श्वे मुक्त्वा च स्वाश्रयं ययौ ॥१९५॥ जनन्यास्तत्र गर्भस्थे यदभूच्छोभना मतिः । स्वामिनो नाम सुमतिरित्यकार्षीत् पिता ततः ॥ १९६॥ 15 धात्रीभिरिन्द्रादिष्टामिाल्यमानो जगत्पतिः । शैशवं व्यतिचक्राम प्रतिपेदे च यौवनम् ॥ १९७ ॥ धनुःशतत्रयोत्तुङ्गः पीनस्कन्धो बभौ विभुः । आजानुलम्बिदो शाखः कल्पशाखीव जङ्गमः ॥१९८॥ स्वामिनः स्वच्छलावण्यकल्लोलिन्यां निरन्तरम् । ललनानां लुलन्ति स दृशः शफरिका इस ॥ १९९ ॥ भोग्यं कर्म निजं जानन् पित्रोरप्युपरोधतः । राज्ञां कन्याश्चारुरूपाः पर्यणैपीदथ प्रभुः ॥ २०॥ जन्मतः पूर्वलक्षेषु गतेषु दशसु प्रभुः । भूभुजाऽप्यर्थितोऽत्यर्थं राज्यभारमुपाददे ॥ २०१॥ 20 एकोनत्रिंशतं पूर्वलक्षाः सद्वादशाङ्गिकाः । राज्येऽनैपीत् सुखं स्वामी वैजयन्त इव स्थितः ॥२०२॥
स्वयम्बुद्धो बोधितश्च ततो लोकान्तिकामरैः । दीक्षेच्छुार्षिकं दानमदत्त सुमतिः प्रभुः ॥२०३॥ अन्ते वार्षिकदानस्य वासवैश्वलितासनैः । दीक्षाभिषेको विदधे स्वामिनः पार्थिवैरपि ॥ २०४॥ अथाऽभयकरां नामाध्यारुह्य शिविकां विभुः । सुरा-ऽसुर-नृपोपेतः सहस्राम्रवणं ययौ । २०५ ॥ वैशाखसितनवम्यां पूर्वाह्ने स मघासु भे । प्रात्राजीनित्यभक्तेन सहस्रेण नृपैः सह ॥ २०६॥ 25 उत्पेदे स्वामिनो ज्ञानं मनःपर्ययसंज्ञकम् । अनुजन्मेव दीक्षायाः प्रियमित्रमिवाथवा ॥ २०७॥ दिने द्वितीये विजयपुरे पद्मस्य भूपतेः । सदने विदधे स्वामी परमान्नेन पारणम् ॥ २०८ ॥ वसुधारादीनि पञ्चाद्भुतदिव्यानि चक्रिरे । तत्र देवा रत्नपीठं त्वर्चायै पद्मपार्थिवः ।। २०९ ॥ विविधाभिग्रहधरः सहमानः परीषहान् । वर्षाणि विंशतिं स्वामी विजहार ततो महीम् ॥ २१० ॥
ग्रामा-ऽऽकरप्रभृतिषु विहरन् प्रभुरन्यदा । सहस्राम्रवणं दीक्षाग्रहणस्थानमाययौ ॥२११॥ 30 प्रियङ्गुमूले ध्यानस्थस्यापूर्वकरणात् प्रभोः । क्षपकश्रेण्यारूढस्य घातिकर्माणि तुत्रुटुः ।। २१२ ॥ चैत्रस्य शुक्लैकादश्यां मघास्थे च निशाकरे । स्वामिनः कृतप॑ष्ठस्योत्पेदे केवलमुज्वलम् ॥ २१३ ॥
दोशाखः भुजशाखः। द्वादशपूर्वाङ्गसहिताः । चतुरशीतिलक्षवर्षमितं पूर्वाङ्गम् । ३ विजयन्तनामकविमाने स्थितो देव इव । * तपञ्चम्यां संबृ० मो० ॥४ लघुभ्राता इव । ५ आकराः खनीप्रदेशाः । ६ यत्र तपसि षड्वेला भोजनं न क्रियते। षड्वेलाः भाषायां 'छ टंक' इति । एका वेला तपसः पूर्वम् , चतस्रो बेलाः तपोदिवसद्वये, एका च पारणकदिवसे, इति एवं तपसो नाम
इति सार्थकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org