________________
10
२८० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ तृतीयं पर्व ममौरसोऽयं तनयः सगु वर्द्धितो मया । वित्तं ममैतद् यस्या हि पुत्रस्तस्या धनादिकम् ॥ १५३ ॥ पुत्रमाताऽप्युवाचैवं पुत्रोऽसौ मे धनं च मे । सपत्नी मेऽनपत्याऽसौ लोभेन कलहायते ॥ १५४ ॥ प्राक् पुत्रं पालयन्त्येषा न निषिद्धा मयाऽऽर्जवात् । पादान्ते शायिता स्नेहादुच्छीर्षग्राहिणी ह्यसौ ॥१५५॥ तदुत्तिष्ठस्व निर्णेतुं विवादस्त्वयि तिष्ठते । राज्ञा दृष्टः कुदृष्टो वा निर्णयो ह्यपुनर्भवः ॥ १५६ ॥ ___उभाभ्यामिति विज्ञप्तो जगाद जगतीपतिः । द्वे अप्येते सुसदृश्यावेकतन्तच्युते इव ॥ १५७ ॥ अन्योऽन्यं वैसदृश्ये हि यस्याः सादृश्यभाग् भवेत । तस्याः पुत्रोऽनुमीयेत द्वयोः सदृश एष नु ॥१५८॥ न वक्तुमपि जानाति बाल्यादेषोऽपि दारकः । असौ माता विमाताऽसाविति ज्ञाने तु का कथा? ॥१५९॥ दुनिर्णयोऽद्य चकितस्येत्थं निगदतोऽपि हि । जज्ञे राज्ञोऽथ मध्याह्नो नित्यकृत्यान्तरोचितः ॥ १६० ॥ पारिषद्यैरथेत्यूचे मासैः पद्भिरपि प्रभो! । विवादोऽभेदि नामाभिर्वज्रग्रन्थिरिवाऽनयोः ॥१६१॥ इदानीं नित्यकृत्यानां क्षणो वो माऽतिवर्तताम् । क्षणान्तरे विवादोऽयं विचार्यः स्वामिना पुनः॥१६२॥ एवमस्त्विति राजापि निगद्य व्यसृजत् सभाम् । कृत्वाऽनन्तरकृत्यानि चान्तरन्तःपुरं ययौ ।। १६३ ॥ विज्ञप्तो मङ्गलादेव्या तत्र चैवं महीपतिः । खामिन् ! मध्याह्नकृत्यानामतिवेलाऽभवत् कुतः १ ॥ १६४॥ तयोर्विवादवृत्तान्तो राज्य राज्ञाऽप्यकथ्यत । गर्भप्रभावात् सुमती राज्यप्येवमभाषत ॥ १६५ ॥
स्त्रीणां विवादो निर्णेतुं स्त्रीभिरेव हि युज्यते । तत् करिष्याम्यहं देव ! विवादच्छेदनं तयोः ॥ १६६ ।। 15 राज्ञा सविस्मयं देव्या सममागत्य पर्षदि । आनायिते ततस्ते तु पृष्टे पूर्ववदूचतुः ॥ १६७ ॥
राज्ञी भाषामुत्तरं च विचार्यैवमवोचत । ज्ञानत्रयधरस्तीर्थकरोऽस्त्येष ममोदरे ॥ १६८ ॥ स प्रसूतो जगन्नाथोऽमुष्याशोकतरोस्तले । निर्णयं दास्यते तस्मात् प्रतीक्षेथामुभे अपि ॥ १६९ ॥ ओमित्यूचे विमाता तु माता त्वेवमवोचत । अहमागमयिष्ये न महादेवि ! मनागपि ॥ १७० ॥
सर्वज्ञमाता भवती करोत्वद्यैव निर्णयम् । सपत्नीसात् करिष्यामि नेयत्कालं स्वमात्मजम् ॥ १७१ ॥ 20 ततश्च मङ्गलादेवी निर्णीयेवमभाषत । कालक्षेपासहत्वेन नूनमस्या अयं सुतः ॥ १७२ ॥
विदधात्युभयाधीने परपुत्र-धने यतः । तेनेह कालहरणं विमाता सहते खलु ॥ १७३ ॥ आत्मपुत्रमुभयसात् क्रियमाणं तितिक्षितुम् । अक्षमा कालहरणं सहते जननी कथम् ? ॥ १७४ ॥ भद्रे ! न कालहरणं सहसे यन्मनागपि । तज्ज्ञातं तव पुत्रोऽयं गृहाण स्वगृहं ब्रज ॥ १७५ ॥
एतस्यास्तनयो नायं पालितो लालितोऽपि हि । कोकिलायाः खल्वपत्यं काक्या पुष्टोऽपि कोकिलः॥१७६॥ 25 गर्भप्रभावाद् देव्यैवं विहिते तत्र निर्णये । विसिष्मिये मेरनेत्रा परिषत् सा चतुर्विधा ॥ १७७ ॥ तदा ते जग्मतुर्वेश्म सूनोर्मातृ-विमातरौ । हृष्ट-म्लाने कमलिनी-कुमुदिन्याविवोषसि ॥ १७८ ।।
पाधामजनयन् देव्या लघूकरणवानिव । क्रमेण ववृधे गर्भः शुक्लपक्ष इवोडुपः ॥ १७९ ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । वैशाखविशदाष्टम्यां मधास्थे च निशाकरे ॥ १८०॥ सुवर्णवर्ण क्रौञ्चाङ्क मृगाङ्कमिव पूर्वदिक् । मङ्गलाखामिनी सूनुरत्नं प्रसुषुवे सुखम् ॥ १८१ ॥
१ रक्षन्ती। २ यस्या मया पादान्ते स्थानं दत्तं सा मम उच्छीर्ष ग्रहीतुमुथता। ३ चेष्टस्व । * भ्यामपि वि० संवा ४ वृन्तं भाषायां 'बींट'। ५ असमानतायाम् । ६ मा गच्छतु। ७ अन्तःपुरमध्ये । ८योग्यसमयातिक्रमणम् । ९ 'समतिः, इति भगवन्मातुः सुमङ्गलाया विशेषणम् । स्त्रीणामेव संल. मो०॥ १० भाषा पूर्वपक्षः, उत्तरम् उत्तरपक्षः । ११ प्रतीक्षा करिष्ये । १२ सपत्नीवशे करिष्यामि । १३ उभयाधीनम् । १४ क्षत्रियपरिषद् गृहपतिपरिषद् ब्राह्मणपरिषद् ऋषिपरिषद इत्येवं चतुर्विधा परिषत् सभा । राजप्रश्नीयोपाङ्गे पृ. ३२१ कण्डिका १८४ (गूर्जर.)। १५ मातःकाले। १६ चातुर्यबानिय शुभम् संवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org