________________
२७९
5
तृतीयः सर्ग:]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । राजते राजतैस्तत्र प्राकारः कपिशीर्षकैः । सर्वद्वीपान्तरानीतेन्दुविम्बरचितैरिव ॥१२२॥ नानारत्ननिधानं सा रूप्यवप्रेण राजति । रक्षार्थं कुण्डलीभूतशेषेणेव निषेविता ॥ १२३॥ सौधेषु रत्नवलभीसङ्क्रान्तस्तत्र चन्द्रमाः । लिह्यते गृहमार्जारर्दधिपिण्डधिया मुहुः ॥ १२४ ॥ अर्हन् देवो गुरुः साधुरिति क्रीडाशुका अपि । पठन्ति तस्यां शृण्वन्तस्तदेव हि गृहे गृहे ॥ १२५ ॥ प्रतिवासगृहं तत्र दह्यमानागरूद्भवाः । धूमलेखा वितन्वन्ति तमालवनमम्बरे ॥ १२६ ॥ तत्रोद्यानेष्वरघट्टशीकरासारमालिषु । शीतभीत्येव नो जातु प्रविशन्त्यर्करश्मयः ॥ १२७ ॥
इक्ष्वाकुवंशतिलकस्तस्यामासीन्महीपतिः । मेघो नाम महामेघ इव विश्वाभिनन्दकः ॥ १२८ ॥ सदैवोदच्यमानाऽपि कृतार्थीकर्तुमर्थिनः । सिरावारीव ववृधे तस्य श्रीरतिशायिनी ॥ १२९ ॥ देवतामिव तं नेमुः पञ्चाङ्गस्पृष्टभूतलाः । वस्त्रा-ऽलङ्कार-रत्नाद्यैरानच॑श्च महीभुजः॥ १३० ॥ प्रतापः प्रसरंस्तस्य माध्यन्दिन इवाऽर्यमा । द्विषां सङ्कोचयामास देहच्छायामिव श्रियम् ।। १३१॥ 10 शुद्ध्या महत्या शक्त्या च प्रभावेण च भूयसा । चतुष्षष्टेः स इन्द्राणां पञ्चषष्टितमोऽधभात् ॥ १३२ ॥
तस्याऽऽसीन्मङ्गला नाम मङ्गलानां निकेतनम् । सच्छीलकेतना पत्नी कुललक्ष्मीरिवाङ्गिनी ॥१३३॥ पत्युः सा हृदयेऽवात्सीत् तस्याश्च हृदये पतिः । बहिरङ्गस्तयोरासीद् वासो वासगृहादिषु ॥ १३४ ॥ उद्यानादिप्रदेशेऽपि सञ्चरन्ती गृहेऽपि वा । अधिकं देवतातोऽपि भर्तारं ध्यायति स सा ॥ १३५ ॥ रूप-लावण्य-सौभाग्यदासीकृतसुराङ्गना । दासीचक्रे मुखेनेन्दुमपि सा वरलोचना ॥ १३६ ॥ 15 विशदे रूप-लावण्ये तस्याश्चातिशयान्विते । परस्परमभूष्येतामङ्गुलीय-मणी इव ॥ १३७ ॥ पौलोम्येव महेन्द्रस्य नरेन्द्रस्य तया समम् । उपभुञ्जानस्य भोगानभवत् प्रीतिरक्षया ॥ १३८ ॥
इतः पुरुषसिंहस्य वैजयन्तविमानगः । जीवः स्वायुस्त्रयस्त्रिंशदब्धिसङ्ख्यमपूरयत् ॥ १३९ ।। श्रावणस्याथ शुक्लायां द्वितीयायां मघागते । मृगाङ्के मङ्गलादेव्याः कुक्षाववततार सः॥१४॥ ईक्षाश्चके तदानीं च तीर्थजन्मसूचकान् । गजादीन् मङ्गलादेवी महास्वमांश्चतुर्दश ॥ १४१॥ 22 भुवनत्रितयाधारभूतं गर्भ दधार तम् । निगूढं मङ्गला देवी निधानमिव मेदिनी ॥ १४२ ॥
इतश्च कश्चिदप्याढ्यस्ततः पुर्या वणिज्यया । सदृग्भार्याद्वययुतो दूरदेशान्तरं ययौ ॥ १४३ ॥ तस्य मार्गस्थितस्यैवैकस्यां समभवत् सुतः । उभाभ्यां च सपत्नीभ्यां निर्विशेषमवर्यत ॥ १४४ ॥ अर्जयित्वा धनं देशान्तराद् व्यावृत्तवानथ । वर्त्मन्येव विपेदे स देवस्य विषमा गतिः॥१४५॥ तस्य द्वे अपि ते भार्ये उदश्रुवदने शुचा । विरचय्याग्निसंस्कारं चक्राते और्ध्वदेहिकम् ॥ १४६॥ 25 ततः पुत्रश्च वित्तं च मदीये इति भाषिणी । पुत्रमात्रा सहान्या तु मायिन्यकलहायत ॥१४७ ॥ क्षेममेकाऽपरा योगमिच्छन्त्यौ पुत्र-वित्तयोः । अयोध्यामीयतुः शीघ्रं सूनोर्मातृ-विमातरौ ॥१४८॥ तत्र च स्वा-ऽन्यकुलयोधर्माधिकरणेऽपि च । डुढोकाते उभे छिन्नो न तद्वादो मनागपि ॥ १४९ ॥ __ ततस्ते उपतस्थाते विवदन्त्यो नरेश्वरम् । उपवेश्य सभां राज्ञा पृष्टे ते वादकारणम् ॥ १५० ।। ऊचे विमाता वादोऽयमाख्यातः सकले पुरे । किन्त्वेनं नाच्छिदत् कोऽपि कः परव्यसनेऽर्तिमान् ॥१५१॥30 मुंखिनं परसौख्येन परदुःखेन दुःखिनम् । पृथिव्यां धर्मराजं त्वामिदानीमस्म्युपस्थिता ।। १५२॥
शोभते । २ अरघट्टो नाम कृपाद जलनिस्सारणसाधनम् । ३ उदच्यमाना वारंवारं व्याप्रियमाणा, भाषायां 'उलेचाती। ४ मिरा 'सेर' इति भाषायाम् । ५ दिदीपे। ६ देवादपि । ७ भूषिती । ८ इन्द्राणी । ९ अक्षया प्रीतिः । * मानतः संबृ०॥ +णस्य च शु संवृ०॥१० दृष्टवती। ११ गुप्तं यथा स्यात् तथा । १२ अश्रुपूर्णमुखे, द्विवचनमेतत् । १३ मृतस्य मरणतिथी दीयमानं पिण्डोदकादि। १४ कलहं चकार । १५ न्यायमन्दिरे। १६ न्यायलिप्सया समागते । सखितं संवृ०॥ दुखितम् संवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org