________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ सृतीयं पर्व श्रुत्वा पुरुषसिंहोऽपि सप्रश्रयमदोऽवदत् । रोरस्येव निधानं मे धर्मोऽयं साधु दर्शितः ॥९१॥ . किन्त्वसौ गृहवासस्थैरनुष्ठातुं न शक्यते । गृहवासो हि संसारतरोदर्दोहदमुत्तमम् ॥ ९२॥ प्रव्रज्यां धर्मराजस्य राजधानी प्रयच्छ मे । भगवन् ! भवदुर्गामवासादुद्विग्नवानहम् ॥ ९३ ॥
अथोचे भगवानेवं सूरिविनयनन्दनः । मनोरथोऽपि ते साधुः साधकः पुण्यसम्पदाम् ॥ ९४ ॥ 5 महासत्त्व ! महावुद्धे ! विवेकिन् ! दृढनिश्चय! । योग्योऽसि बतभारस्य दास्यामस्त्वत्समीहितम् ॥ ९५ ॥
आपृच्छख परं गत्वा पितरौ पुत्रवत्सलौ । यतस्तावेव जगति गुरू प्रथमतो नृणाम् ॥ ९६ ॥ ततः स गत्वा पितरौ प्रणम्य च कृताञ्जलिः । मां व्रतायानुमन्येथामेवमुच्चैर्व्यजिज्ञपत् ॥ ९७ ॥ ___ इत्यूचतुश्च तौ युक्ता प्रव्रज्या वत्स! किन्विह । उद्वोटव्यः पञ्चमहावतभारोऽतिदुर्वहः ॥ ९८॥
निर्ममत्वं स्वदेहेऽपि विरती रात्रिभोजनात् । द्विचत्वारिंशता दोर्मुक्तः पिण्डश्च भोजने ॥ ९९ ॥ 10 नित्योद्युक्तो निर्ममश्चाकिञ्चनो गुणतत्परः । धारयेत् समितीः पञ्च तिस्रो गुप्तीश्च सर्वदा ॥१०॥
मासादिकाश्च प्रतिमा विधातव्या यथाविधि । अभिग्रहा द्रव्य-क्षेत्र-काल-भावानुगा अपि ॥ १०१॥ यावजीवितमस्नानं भूशय्या केशलुश्चनम् । शरीरस्याप्रतिकर्म वासो गुरुकुले सदा ॥ १०२ ॥ परीषहोपसर्गाणां सहनं सानुमोदनम् । अष्टादशानां शीलाङ्गसहस्राणां च धारणम् ॥ १०३ ॥ प्रव्रज्यायामुपात्तायां सुकुमार कुमारक! । तदेते लोहचणकाचर्वणीया निरन्तरम् ॥ १०४॥ बाहुभ्यां तरणीयोऽयमपारो मकराकरः । निशातखड्गधारासु कार्य चक्रमणं क्रमैः ॥ १०५ ॥ पातव्या ज्वलनज्वाला मेरुस्तोल्यस्तुलाधृतः । उत्पूरा च प्रतिश्रोतस्तरणीया सरिद्वरा ।। १०६ ॥ एकाकिना च जेतव्यं बलवद्विद्विपदलम् । विधातव्यो भ्रमचक्रे राधावेधश्च खल्वहो ! ॥ १०७ ॥
॥ देशभिः कुलकम् ॥ महत् सत्त्वं महद् धैर्य महती धीर्महद् बलम् । प्रवज्याया उपात्ताया यर्दाऽऽ जन्मापि पालनम् ॥१०८॥ 20 तदाकर्ण्य कुमारोऽपि ससौष्ठवमभाषत । पूज्यपादा एवमेतत् प्रव्रज्येयं यदीदृशी ॥ १०९॥
किन्तु विज्ञपयाम्येकमंशः शततमोऽपि किम् । भववाससमुत्थानां कष्टानामिह दृश्यते ? ॥ ११०॥ तथाहि दूरे तिष्ठन्तु साक्षान्नरकवेदनाः । वचनैर्दुर्वचा एव दुःश्रवाः श्रवणैरपि ।। १११ ॥ इहापि दृश्यते लोके तिरश्चामकृतागसाम् । नितान्तं बन्धन-च्छेद-तर्जनाद्यतिदुःसहम् ॥ ११२ ॥
कुष्ठादिव्याधिजा बाधा गुप्तिवासोऽङ्गकर्तनम् । त्वचनं ज्वालनं शीर्षच्छेदादि च नृणामपि ॥ ११३॥ 25 विप्रयोगः प्रियजनैः शत्रुतश्च पराभवः । च्यवनज्ञानजं दुःखं दुःसहं नाकिनामपि ॥ ११४ ॥
तेनैवमुक्तौ पितरौ साधु साध्विति वादिनौ । मुदितावनुमेनाते व्रतादानाय तं ततः ॥ ११५ ॥ सप्रमोदं ततः पित्रा कृतनिष्क्रमणोत्सवः । दीक्षार्थी तं मुनि सोऽगात् फलार्थीव वनस्पतिम् ।। ११६ ॥ आददे मुनिपादान्ते सामायिकमुदीरयन् । प्रव्रज्यां पुरुषसिंहो भवाब्धितरणे तरीम् ॥ ११७ ॥
प्रमादपरिहारेण रक्षेच्छुः सर्वदेहिनाम् । स दृढं पालयामास प्रव्रज्यां राज्यवन्नृपः॥ ११८ ॥ 30 विंशतिस्थानकानां च स्थानः कतिपयैरपि । अर्जयामास विशदं तीर्थकृन्नामकर्म सः॥ ११९॥ चिरं विहृत्य कालं च कृत्वाऽनशनकर्मणा । विमाने वैजयन्ते स महर्द्धिरमरोऽभवत् ॥ १२०॥
इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । विनीतेत्यस्ति नगरी गॅरीय सम्पदास्पदम् ॥ १२१ ॥
रोरः रङ्कः, भाषायर्या रांक'। २ वहनीयः । ३ भिक्षाचर्यायाः द्विचत्वारिंशद् दोषाः, तद्यथा--आधाकर्मिकम् , औद्देशिकम् इत्यादि। ४ असंस्कारः। ५ संयमसाधनायां बाधकरूपाः द्वाविंशतिः परीषहाः क्षुधापिपासादयः: * °च्चक्ररा संवृ०॥ चतुर्भिः कलापकमसंवृ० मो०॥ ६ आ जन्म जीवितपर्यन्तम् ॥ ७ निष्क्रमणं प्रवज्या । ८ नावम् । ९ उत्तमसम्पदा स्थानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org