________________
तृतीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
२७७
लाल्यमानः स धात्रीभिः कुमारो ववृधे क्रमात् । मातुः पितुः प्रजानां च संममेव मनोरथैः ॥ ६० ॥ कला जग्राह सकलाः स इन्दुरिव पार्वणः । प्रापच यौवनं लीलावनं मेकरलक्ष्मणः ॥ ६१ ॥ आत्मानुरूपा रूपेण कलाभिश्च कुलेन च । उपायताऽऽयतभुजः सोऽष्टौ कन्याः क्षमाभुजाम् || ६२ ॥ सुखं वैषयिकं ताभिरप्सरोभिरिवामरः । यथाक्षणं रममाणोऽन्वभूद् विजयसेनभूः ॥ ६३ ॥
ऋतुः साक्षादिव मधुः साक्षान्मधुसखोऽथवा । सोऽगात् क्रीडितुमन्येद्युः क्रीडोद्यानं यदृच्छया ॥ ६४ ॥ 5 तत्रापश्यच्च समवसुतं विनयनन्दनम् । नाम सूरिं जितानङ्गं रूपेण च शमेन च ॥ ६५ ॥ तं तस्य पश्यतः पीतामृतस्येव विलोचने । हृदयं चापराण्यङ्गान्यपि च व्यकसन्निव ॥ ६६ ॥ सोऽथेति दध्यौ वेश्यान्ते सतीत्वस्येव पालनम् । तस्कराणां सन्निधाने निधानस्येव गोपनम् ॥ ६७ ॥ मार्जारयूनामभ्यर्णे पीर्यूषस्येव रक्षणम् । शाकिन्याः प्रातिवेश्मिक्ये स्वस्येव क्षेमकारिता ॥ ६८ ॥ रूपस्याप्रतिरूपस्य वयसो मध्यमस्य च । उन्मादहेतावुद्येऽमुष्याहो ! व्रतधारणम् ।। ६९ ।। त्रिभिर्विशेषकम् ॥ 10 हिमं सह्येत हेमन्ते ग्रीष्मे च तपनातपः । झञ्झावातोऽपि वर्षासु न पुनयौवने स्मरः ॥ ७० ॥ तदद्य दिष्ट्या दृष्टोऽयं पुण्यैः पुण्यानुबन्धिभिः । प्रीतिदायी गुरुरिव मातेव च पितेव च ॥ ७१ ॥ कुमारश्चिन्तयित्वैवमुपसृत्य च सत्वरम् । ववन्दे हृदयानन्दं मुनिं विनयनन्दनम् ॥ ७२ ॥ कल्याणकन्दलोद्भेदमेघवृष्टिसमानया । मुनिरानन्दयामास धर्मलाभाशिषाऽथ तम् ॥ ७३ ॥ भूयः कुमारस्तं नत्वा मुनिमेवमभाषत । चित्रीयसे व्रतधरो नवयौवनवानपि ॥ ७४ ॥ विषयाणां विमुखोऽसि वयस्यत्रापि यत् ततः । विद्मस्तेषां दुर्विपाकं किम्पाकानामिव ध्रुवम् ।। ७५ ।। सारमत्र हि संसारे किञ्च मन्ये न किञ्चन । इत्थं तत्परिहारायोर्त्तिष्ठन्ते यद् भवादृशाः ॥ ७६ ॥ संसारतरणोपायं तन्ममापि समादिश । मां नय त्वं खेन पथा सार्थवाह इवाध्वगम् ॥ ७७ ॥ क्रीडार्थमागतेनेह त्वं प्राप्तोऽसि महामुने ! | कर्करान्वेषकेणेव माणिक्यं पर्वतावनी ॥ ७८ ॥ एवमुक्तः कुमारेण मारारिः स महामुनिः । आवभाषे नवाम्भोदघोषगम्भीरया गिरा ॥ ७९ ॥
यौवनैश्वर्य रूपादिमदस्थानानि शान्तये । मात्रिकस्येव भूतानि पदातित्वाय साधनात् ॥ ८० ॥ संसारसिन्धुतरणे यानपात्र मनर्गलम् । भगवद्भिः समाम्नातो यतिधर्मोऽयमुच्चकैः ॥ ८१ ॥ संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । क्षान्तिर्मार्दवमृजुता मुक्तिश्च दशधेति सः ॥ ८२ ॥ प्राणातिपातव्यावृत्तिरूपः संयम ईरितः । मृषावादपरीहारस्वरूपं सूनृतं पुनः ॥ ८३ ॥ शौचं संयमसंशुद्धिरदत्तादानवर्जनात् । उपस्थसंयमो ब्रह्म नवगुप्तिसमन्वितम् ॥ ८४ ॥ निर्ममत्वं शरीरादावप्यकिञ्चनता मता । तपस्तु द्विविधं बाह्यमान्तरं चेति तद् यथा ॥ ८५ ॥ अनशनमौनोदर्यं वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो 'लीनतेति बहिस्तपः ।। ८६ ।। प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गेऽथ शुभध्यानं षोढेत्याभ्यन्तरं तपः ॥ ८७ ॥ क्षान्तिः शक्तावशक्तौ वा सहनं क्रोधनिग्रहात् । मददोषपरीहारो मार्दवं माननिर्जयात् ॥ ८८ ॥ मायाजयादार्जवं वाङ्मनः कायैरवक्रता । मुक्तिश्व तृष्णाविच्छेदो बाह्याभ्यन्तरवस्तुषु ॥ ८९ ॥ इत्थं दशविधो धर्मः संसारोत्तारणक्षमः । जगत्यवाप्यते पुण्यैश्चिन्तामणिरिवानघः ॥ ९० ॥
१ मनोरथसमकालमेव, यथा मनोरथा वर्धमानाः तथा पुत्रोऽपि वर्धमानः । २ मकरलक्ष्मा कामदेवः । ३ 'उपायत' इति क्रियापदम् । ४ आयतभुजः दीर्घभुजः । ५ मधुः वसन्तसमयः । ६ मधुः सखा यस्य स मधुसखः कामदेवः । ७ विकसितानि जातानि । ८ नवप्रसूतगवीक्षीरं पीयूषम्, धारोष्णं पयः अमृतम्, अतः पीयूषं दुग्धम् । ९ आश्चर्य करोषि । १० चेष्टते, प्रयतते इत्यर्थः । * * साधु ते संबृ० । साधने स० ॥ ११ उदरस्य उनता - भोजनसमये एकव्यादिभिः कवलैः उदरं ऊनं रक्षणीयम् । १२ लीनता अङ्गोपाङ्गानां अचञ्चलता । १३ व्युत्सर्गः आत्मशुद्धिप्राप्तये देहादिकं सहायकरूपं आत्मसाधनहेतुं मवाऽपि देहादिपरभावं प्रति उपेक्षावृत्तिः ।
त्रिषष्टि. ३६
Jain Education International
For Private & Personal Use Only
15
20
25
30
www.jainelibrary.org