________________
२७६ कलिकालसर्पज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ तृतीयं पर्व नाऽऽधि-व्याधी न दुःखम-दुनिमित्ते न चाऽपरम् । तादृक् किमपि बाधायै किन्त्वेकं नाथ! बाधते ॥२९॥ वृथैव राज्यसम्पत्तिवृथा वैषयिकं सुखम् । वृथैव चाऽऽवयोः प्रीतिरदृष्टसुतवत्रयोः ॥ ३० ॥ श्रद्दधाति श्रियः पश्यन् दरिद्रः श्रीमतां यथा । पुत्रान् पुत्रवतां पश्यन्त्यहमप्येवमस्मि हा! ॥३१॥ एकतः सर्वसौख्यानि पुत्राप्तिसुखमन्यतः । मनस्तुलातोलनतो द्वितीयमतिरिच्यते ॥ ३२ ॥ वरं मृगादयोऽरण्ये ये पुत्रपरिवारिताः । असाकं पुत्रहीनानां धिक् तेभ्योऽप्यल्पभाग्यताम् ॥ ३३॥ ___ अथोचे पृथिवीशोऽपि देवि! धीरा भवाऽचिरात् । मनोरथं पूरयिष्ये देवताराधनेन ते ॥ ३४ ॥ विक्रमेण न यत् साध्यं यद् बुद्धीनामगोचरः । यन्मत्राणामविषयस्तत्राणां यच्च दूरतः ॥ ३५ ॥ अन्येषामप्युपायानां यदगम्यं तदप्यलम् । साधयन्ति नृणामर्थं प्रसन्ना देवि! देवताः ॥ ३६ ॥
तद् विद्धि सिद्धमेवाऽर्थममुं मानिनि! किं शुचा ? । कुलदेव्याः पुरः स्थास्याम्येष प्रायेण सूनवे ॥ ३७ ॥ 10 राज्ञी राजैवमाश्वास्य जगाम निजधामतः । कृतशौचः शुचिवेषः कुलदेव्या निकेतनम् ॥ ३८ ॥
अर्चित्वा देवतां तत्र भूपतिर्दृढनिश्चयः । आपुत्रलाभं त्यक्तान-पानवृत्तिरुपाविशत् ॥ ३९॥ उपवासे ततः षष्ठे प्रत्यक्षीभूय देवता । प्रसन्ना व्याजहारैवं वरं वृणु महीपते!॥४०॥ राजा विजयसेनोऽपि देवीं नत्वैवमब्रवीत् । समस्तपुरुषोत्कृष्टं पुत्रं देहि प्रसीद मे ॥४१॥ च्युत्वा दिवः सुरवरस्तव सूनुभविष्यति । एवं वरमदाद् देवी तत्क्षणाञ्च तिरोदधे ॥ ४२ ॥ आख्यद् राजाऽपि तं देव्या देव्या दत्तं वरं वरम् । स्तनितेन बलाकेव मुमुदे तेन देव्यपि ॥४३॥
देव्याः सुदर्शनायास्तु स्नाताया अपरेऽहनि । दिवो महर्द्धिको देवश्युत्वा कुक्षाववातरत् ॥ ४४ ॥ तदा च ददृशे देव्या सुप्तया प्रविशन् मुखे । एकः केसरिकिशोरः कुङ्कुमारुणकेसरः॥४५॥ उत्थाय शयनीयाच सत्वरं भीतभीतया । तया निजगदे राज्ञे स्वास्ये सिंहप्रवेशनम् ॥ ४६॥ राजाऽप्यूचे विक्रमी ते भावी सिंह इवाऽऽत्मजः । स्वमेनाऽनेनैतदुक्तं देवीवरतरोः फलम् ॥ ४७॥ तेन स्वमविचारेण राज्ञी भृशममोदत । जजागार च तं रात्रिशेषं शुभकथापरा ॥ ४८ ॥ देव्याः कुक्षाववर्धिष्ट गर्भः सोऽपि दिने दिने । मध्येसरिद्वरावारि सौवर्णमिव वारिजम् ॥ ४९॥ अन्यदा दोहदान् देवी समुत्पन्नान् महीभुजे । शशंसेत्यभयं दित्साम्यहं निःशेषदेहिनाम् ॥ ५० ॥ अारिमाधोपयितुमिच्छामि च पुरादिषु । अष्टाहिकाश्चिकीर्षामि निखिलायतनेषु च ॥५१॥
राजाऽप्यूचे देवि ! देवीवर-स्वमार्थयोरयम् । साधु सत्यापको गर्भप्रभावाद् दोहदस्तव ॥ ५२ ॥ महेच्छस्य हि गर्भस्य वशादिच्छेयमीदशी । प्रतिमायाः प्रभावोऽधिष्ठातृदेवोचितः खलु ॥ ५३ ॥ इत्युक्त्वा भूपतिः सद्यो भीतानामभयं ददौ । घोषयामास चाऽमारिं डिण्डिमास्फालपूर्वकम् ॥ ५४॥ अष्टप्रकारपूजाभिर्दिव्यैः सङ्गीतकैरपि । अष्टाहिकोत्सवानुच्चैः प्रतिचैत्यं चकार च ॥ ५५ ॥
हृष्टा तैर्दोहदैः पूर्णैः पूर्णेन्दुविशदानना । फलं वल्लीव समये पुत्ररत्नमसूत सा ॥ ५६ ॥
यथाकाममथाऽर्थिभ्यश्चिन्तामणिरिवाऽर्थितम् । ददावाघोषणापूर्व नरेश्वरशिरोमणिः ॥ ५७ ॥ 30 राज्ञा महोत्सवश्चक्रे हृदयाब्धिनिशाकरः । नागरैरपि तदनु स्वतोऽपि स्वजनैरिव ॥ ५८ ॥
राज्ञीखमानुसारेण कुमारस्य महीभुजा । विदधे पुरुषसिंह इति नाम मनोरमम् ॥ ५९ ॥
* चरम् संवृ०॥ १ म्तनितं मेघगर्जितम् । । मदिता तेन सङ्घ० ॥ २ साता नाम रजस्वलाधर्म प्राप्य तदनन्तर साता। अपरेद्यवि संबृ० ॥ ३ सरिद्वरा उत्तमनदी, सरिद्वरावारिणः मध्ये इति मध्येसरिद्वरावारि, अव्ययीभावसमासः । " अमारिम् अभयम् अद्य सर्वत्र सर्वे भयरहिता भवन्तु इतिरूपाम् । ५ सत्यापकः सत्यकारकः गर्भप्रभावसंवादकः । ६ असूत जनयामास ।
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org