________________
तृतीयः सर्गः]
२७५
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
तृतीयः सर्गः। सुमतिखामिचरितम् ।
Rececctrecom
--
10
नमः सुमतिनाथाय प्रकृष्टज्ञानहेतवे । अपारसंसारमहासागरोत्तारसेतवे ॥१॥ तत्प्रसादात् तच्चरित्रं यथावत् कीर्तयिष्यते । भव्यसंसारिकल्याणतरुकुल्याम्बुसन्निभम् ॥२॥ ___ अत्रैव जम्बूद्वीपेऽस्ति प्राग्विदेहविशेषकः । ऋद्ध्या पुष्कलया राजन् विजयः पुष्कलावती ॥३॥ 5 विचित्रचैत्य-हादिध्वजदन्तुरिताम्बरम् । तत्र शङ्खपुरं नाम पुरमस्त्यतिसुन्दरम् ॥ ४॥ विजयी तत्र विजयसेन इत्यभवन्नृपः । शोभामात्रमभूत् सेना यस्य दोर्वीर्यशालिनः ॥५॥ सकलान्तःपुरस्त्रैणभूषणं तस्य चाऽभवत् । प्रिया सुदर्शना नामेन्दुलेखेव सुदर्शना ॥ ६ ॥ रममाणस्तया साध रत्येव कुसुमायुधः । निनाय कालं विजयसेनः प्रथितवैभवः ॥७॥ __ ययावन्येधुरुधानमुद्यते क्वचिदुत्सवे । सर्वा सपरीवारो जनः सर्वोऽपि नागरः ॥ ८॥ वपुष्मतीव राज्यश्रीश्छत्र-चामरलाञ्छिता | आरुह्य हस्तिनीं तत्राऽगाद् देव्यपि सुदशेना ॥९॥ अपश्यत् तत्र चाऽनर्घ्यभूषणश्रीभिरष्टभिः । दिकन्याभिरिवोपेतां वधूभिः कामपि स्त्रियम् ॥१०॥ उपास्यमानां तां ताभिरप्सरोभिः शचीमिव । दृष्ट्वा सुदर्शना देवी भृशं चित्ते विसिष्मिये ॥११॥ इयं का? पारिपार्श्विक्यः काश्चैतस्या अमूरिति । ज्ञातुं सुदर्शना देवी सौविदल्लं समादिशत् ॥ १२ ॥ तत् पृष्ट्वा सौविदल्लोऽपि समेत्यैवं व्यजिज्ञपत् । श्रेष्ठिनो नन्दिषेणस्य प्रेयसीयं सुलक्षणा ।। १३ ॥ 15 सुलक्षणाया द्वौ पुत्रौ प्रत्येकं च तयोरिमाः । वध्वश्चतस्रो दासीवच्छश्रूशुश्रूषणोद्यताः॥१४॥ श्रुत्वा सुदर्शना तच्च चेतस्येवमचिन्तयत् । इयं हि श्रेष्ठिनी श्रेष्ठा या पुत्रमुखमीक्षते ॥ १५॥ यस्याश्चैताः स्नुषीभूय रूपवत्यः कुलस्त्रियः । नागकन्या इवाऽष्टाऽपि सेवां कुर्वन्ति सर्वदा ॥१६॥ न सूनुर्न स्नुषा यस्या धिम् धिग् मां तामपुण्यकाम् । पत्युहृदयभूताया अपि मे जीवितं वृथा ॥१७॥ इतस्ततः क्षिपन् पाणी समन्ताद् धूलिधूसरः । अङ्के क्रीडति धन्यानां पुत्रो वृक्षे प्लवङ्गवत् ॥ १८॥ 20 असञ्जातफला वल्लय इवाऽतोया इवाऽऽपगाः । निन्दनीयाः शोचनीया योषितस्तनयं विना ॥१९॥ किमन्यैरुत्सवैस्तासां? न यासां स्युर्महोत्सवाः । सूनुजन्म-नाम-चूला-विवाहकरणादयः॥२०॥
विचिन्त्यैवं म्लानKखी पमिनीव हिमादिता । ययौ सुदर्शना देवी सखेदा सदनं निजम् ॥ २१॥ अपि प्रियसखीस्तत्र विसृज्य शयनीयके । निःसहा मुक्तनिःश्वासा व्याधितेव पपात सा ॥ २२ ॥ नाऽमुक्त न बभाषे च प्रतिकर्म च नाऽकरोत् । तस्थौ किन्तु मनःशून्या रत्नेपाञ्चालिकेव सा ॥ २३ ॥ 25 तां तथावस्थितां ज्ञात्वा परिवारमुखान्नृपः। उपेत्यैवमभाषिष्ट प्रेमपेशलया गिरा ॥ २४ ॥ स्वाधीने मय्यपि सदा किमपूर्ण समीहितम् ? । देवि! ताम्यसि येनैवं हंसीव पतिता मरौ ॥ २५॥ किमाधिर्वाधते कोऽपि? व्याधिर्वा कोऽपि नूतनः। किं कोऽप्याज्ञां ललचे ? किं दुःखमं दृष्टवत्यसि ? ॥२६॥ बाह्यमाभ्यन्तरं वाऽपि दुर्निमित्तमथाऽभवत् । खेदस्य कारणं ब्रूहि रहस्सं न हि ते मयि ॥ २७ ॥
सुदर्शनापि निःश्वस्येत्यवदद् गद्दाक्षरम् । त्वत्प्रसादात् तवेवाऽऽज्ञां न मे कश्चिदखण्डयत् ॥२८॥ 30 १ कुल्या नाम नदी, अथवा कुल्या जलवाहिनी सारणी । भाषायां 'नीक धोरियो' इति । २ पुष्कलया अतिप्रभूतया । ३ राजन् शोभमानः । ४ दोर्-भुजाद्वयम् । ५ सौविदल्लम् अन्तःपुररक्षकं कर्मकरम् । ६ स्रुषा पुत्रवधूः । * °मुखा प० संबृ०॥ • हिमार्दिता शीतपीडिता । ८ व्याधिता म्याधिपीडिता। ९ रक्षनिर्मिता पुत्तलिका इव। १० मरुदेशे जलरहिते शुष्के। लाते किं संब०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org