________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ तृतीय पर्व
मुनीनामप्यपापानामसिधारोपमैत्रतैः । न शक्यते कृतान्तस्य प्रतिकर्तुं कदाचन ॥ १४८ ॥ अशरण्य हो ! विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते यमरक्षसा ॥ १४९ ॥ aise धर्मप्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते ॥ १५० ॥ प्रव्रज्यालक्षणोपायमादायाक्षय्येशर्मणे । चतुर्थपुरुषार्थाय यतितव्यमहो ! ततः ॥ १५१ ॥ 5 तथा देशनया प्रायो नरा नार्यः प्रवव्रजुः । गणेशा वज्रनाभाद्याः षोडशाग्रमभूच्छतम् ॥ १५२ ॥ अनुयोग - गणानुज्ञे तेषां दत्त्वा यथाविधि । अनुशिष्टिमयीं धर्मदेशनां विदधे प्रभुः ।। १५३ ॥ जन्म-व्यय- ध्रौव्यमयीं स्वाम्येभ्यस्त्रिपदीं जगौ । जग्रन्धुर्द्वादशाङ्गीं ते तत्रिपद्यनुसारतः ॥ १५४ ॥ देशनां पूर्ण पौरुष्यां व्यसृजत् स्वाम्यथो वलिम् । राजानीतं शिवाऽगृह्णन् देवा भूपा जनाः क्रमात् ।। १५५ ।। अथोत्तस्थौ जगन्नाथो मध्यवप्रमुपेत्य च । ईशान दिविस्थते देवच्छन्द के समुपाविशत् ।। १५६ ।। स्वाम्यङ्गिपीठस्थ वज्रनाभो गणधरो व्यधात् । लोकैः केवलिवज्ज्ञातो देशनां श्रुतवली ॥ १५७ ॥ पूर्णद्वितीय पौरुष्यां व्यसृजत् सोऽपि देशनाम् । नत्वाऽर्हन्तं ययुः स्वं स्वं स्थानं सर्वे सुरादयः ॥ १५८ ॥
तीर्थे यक्षेश्वरस्तत्र श्यामो द्विरदवाहनः | दोर्दण्डौ दक्षिणो विभ्रन्मातुलिङ्गाऽक्षत्रिणौ ॥ १५९ ॥ वामौ च धारयन् बाहू नकुला - ऽङ्कुशधारिणौ । सदा सन्निहिता भर्तुरभूच्छासनदेवता ॥ १६० ॥ युग्मम् ॥ कालिका च तथोत्पन्ना श्यामवर्णाम्बुजासना । दक्षिणौ धारयन्ती तु भुजौ वरद - पाशिनौ || १६१ ॥ नागाङ्कुशधरौ बाहू दुधाना दक्षिणेतरौ । पारिपार्श्विक्यभून्नित्यं भर्तुः शासनदेवता ॥ १६२॥ युग्मम् ॥ ततः स्वाम्यप्यतिशयैश्चतुस्त्रिंशद्भिरन्वितः । व्यहरद् बोधयन् जन्तून् ग्रामा-SSकर- पुरादिषु ॥ १६३॥ साधुत्रिलक्षी साध्वीषलक्षी त्रिंशत्सहस्रयुक् । शतानि चाऽष्टनवतिरवधिज्ञानशालिनाम् ॥ १६४ ॥ सहस्रं पूर्विणां सार्धं मनःपर्ययिणां पुनः । एकादश सहस्राणि सपञ्चाशच षट्शती ॥ १६५ ॥ चतुर्दश सहस्राणि केवलज्ञानधारिणाम् । सहस्रा वैक्रियलब्धिमतामेकोनविंशतिः ॥ १६६ ॥ एकादश सहस्राणि वादलब्धिमतां पुनः । लक्षद्वयं श्रावकाणामष्टाशीतिसहस्रयुक् ॥ १६७ ॥ श्राविकाणां पञ्चलक्षी सप्तविंशिसहस्रयुक् । अजायन्त जगद्भर्तुरुर्व्यां विहरतः सतः ॥ १६८ ॥ अष्टाङ्गयष्टादशाब्द्योने पूर्वलक्षेऽथ केवलात् । ज्ञात्वा निर्वाणकालं स्वं सम्मेताद्रिं ययौ विभुः ॥ १६९॥ समं मुनिसहस्रेण प्रपन्नानशनः प्रभुः । मासं तस्थौ सुरैः सेन्द्रैः सेव्यमानो नृपैरपि ॥ १७० ॥ शैलेश ध्यानमास्थाय भवोपग्राहिकर्मभित् । सिद्धानन्तचतुष्कः सन् भगवानभिनन्दनः ।। १७१ ॥ वैशाखस्य सिताष्टम्यां पुष्यस्थे रजनीकरे । समं मुनिसहस्रेणाऽपुनरावृत्त्यगात् पदम् ॥ १७२ ॥ युग्मम् ॥
मारे पूर्वाण लक्षाः सहार्था द्वादशाऽगमन् । लक्षाणि सार्धषट्त्रिंशद् राज्येऽष्टाङ्गयुतानि च ॥ १७३ ॥ अष्टाङ्गोनं पूर्वलक्षं प्रव्रज्यायामिति प्रभोः । पञ्चाशत्पूर्वलक्षाणि यावदायुरजायत ।। १७४ ॥ सम्भवखामि निर्वाणादभिनन्दननिर्वृतिः । समुद्रकोटिलक्षेषु व्यतीतेषु दशस्व भूत् ।। १७५ ।। शक्रचक्रेऽङ्गसंस्कारं स्वामिनो व्रतिनामपि । दंष्ट्रा - रदी -ऽस्थि जगृहुः पूजनाय सुरासुराः ॥ १७६ ॥ कुर्वन्तोऽथाऽष्टाह्निक शाश्वतार्हद्विम्बानां तेऽभ्येत्य नन्दीश्वरान्तः
10
15
20
25
30
२७४
स्वं स्वं लोकं सामराजग्मुरिन्द्रास्ते च स्वां स्वां राजधानीं नरेन्द्राः ॥ १७७ ॥ इत्याचार्य श्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि अभिनन्दनखामिचरितवर्णनो नाम द्वितीयः सर्गः ॥
१ असिधारोपमं महातीक्ष्णं दुष्करम् । २ अक्षय्यं नाम क्षेतुं नाशयितुम् अशक्यम्, यन्न कदापि क्षीणं कर्तुं शक्यते । ३ स्वामी एभ्यः गणधरेभ्यः । * दिक्स्थितो दे° संघृ० ॥ १ पारिपार्श्विकी पार्श्वस्था समीपवासिनी । * लक्षे च के' संघृ० ॥ ४ यतः पुनरागमनं न जायते तद् अपुनरावृत्ति । अपुनरावृत्तिपदं मोक्षः । ५ समुद्रकोटिक्षेषु सागरोपमकोठिलक्षेषु । समुद्र:- सागरोपमं कालविशेष: । 'रदादि ज° खंता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org