________________
द्वितीयः सर्गः] त्रिपष्टिशलाकापुरुषचरितमहाकाव्यम् ।
२७३ प्रभुं नत्वा ततः शक्रोऽन्येऽपीन्द्राः सपरिच्छदाः । स्थानं निजनिजं जग्मुः प्रावृषि प्रोषिता इव ॥ ११५॥
द्वितीयेऽहन्ययोध्यायामिन्द्रदत्तस्य भूभुजः । सदने विदधे स्वामी परमान्नेन पारणम् ॥ ११६ ॥ वसुधारा पुष्पवृष्टिर्वृष्टिर्गन्धोदकस्य च । खे दुन्दुभिध्वनिश्चलोत्क्षेपश्च विदधेऽमरैः ॥ ११७ ॥ अहो! दोनमहो! दानं सुदानमिति चोच्चकैः । सुँघुषे हर्षविवशैः सुरा-ऽसुर-नरैस्तदा ॥ ११८॥ ततोऽन्यत्र ययौ स्वामी स्थाने च स्वामिपादयोः । रत्नपीठं व्यधादिन्द्रदत्तोऽर्चितुमनाः सदा ॥११९॥ 5 छद्मस्थो व्यहरत् स्वामी सहमानः परीषहान् । अष्टादश समा यावद् विविधाभिग्रहोद्यतः॥ १२० ॥
विहरन्नन्यदा नाथः सहस्राम्रवणं ययौ । कृतषष्ठः प्रियालस्याऽधोऽस्थात् प्रतिमया ततः ॥१२१॥ द्वितीयशुक्लध्यानान्ते घातिकर्मक्षये सति । पौषशुक्ल चतुर्दश्यामभीचिस्थे निशाकरे ।। १२२ ॥ अमलं केवलज्ञानमाविरासीजगत्पतेः । नारकाणामपि बाधानिषेधनमहौषधम् ॥ १२३॥ चतुःषष्टिरथैत्येन्द्रा विधिवद् विदधुः प्रभोः । उच्चैः समवसरणं देशे योजनमात्रके ॥ १२४ ॥ 10 देवैः सञ्चार्यमाणेषु स्वाब्जेषु क्रमौ दधत् । स्वामी समवसरणं प्रांगद्वारा प्राविशत् ततः ॥ १२५॥ स धनुर्दिशतीकं तु गव्यूतद्वयमुच्छ्रितम् । तत्र प्रदक्षिणीचक्रे चैत्यवृक्षं जिनेश्वरः ॥ १२६॥ नमस्तीर्थायेति वदन् देवच्छन्दस्य मध्यतः । सिंहासनमलचके प्राङ्मुखः परमेश्वरः ॥ १२७ ॥ ततश्चतुर्विधः सङ्घः ससुरा-ऽसुर-मानुषः । सम्प्रविश्य यथाद्वारं यथास्थानमुपाविशत् ॥ १२८॥ भगवन्तं नमस्कृत्य शक्रो विरचिताञ्जलिः । रोमाञ्चितवपुः खामिस्तवनं प्रास्तवीदिति ॥ १२९ ॥ 15 __मनो-वचः-कायचेष्टाः कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता मनःशल्यं वियोजितम् ॥ १३०॥ संयतानि न चाऽक्षाणि नैवोच्छृङ्खलितानि च । इति सम्यक्प्रतिपदा त्वयेन्द्रियजयः कृतः॥१३१ ॥ योगस्याऽष्टाङ्गता नूनं प्रपञ्चः कथमन्यथा । आबालभावतोऽप्येष तव सात्म्यमुपेयिवान् ॥ १३२ ॥ विषयेषु विरागस्ते चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि स्वामिन्निदमलौकिकम् ॥ १३३ ॥ तथा परे न रज्यन्त उपकारपरे परे । यथाऽपकारिणि भवानहो! सर्वमलौकिकम् ॥ १३४॥ 20 हिंसका अप्युपकृता आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते के वा पर्य युञ्जताम् ? ॥ १३५॥ तथा समाधौ परमे त्वयाऽऽत्मा विनिवेशितः। सुखी दुःख्यसि नामीति यथा न प्रतिपन्नवान् ॥ १३६ ॥ ध्याता ध्यानं तथा ध्येयं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं कथं श्रद्धीयतां परैः॥ १३७॥ _स्तुत्वैवं विरते शके स्वामी गम्भीरया गिरा । आयोजनविसर्पिण्या पारेभे देशनामिति ।। १३८ । संसारोऽयं विपत्खानिरसिन् निपततः सतः । पिता माता सुहृद् बन्धुरन्योऽपि शरणं नहि ॥ १३९॥ 25 इन्द्रोपेन्द्रादयोऽप्यत्र यन्मृत्योर्यान्ति गोचरम् । अहो! तदन्तकातङ्के कः शरण्यः शरीरिणाम् ॥१४॥ पितुर्मातुः स्वसुतुस्तनयानां च पश्यताम् । अत्रोणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥ १४१॥ शोचन्ति वजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नाऽऽत्मानं मूढबुद्धयः॥१४२ ॥ संसारे दुःखदावाग्निज्वलज्वालाकरालिते । वने मृगार्भकस्येव शरणं नास्ति देहिनः ॥ १४३ ॥ अष्टाङ्गेनाऽऽयुर्वेदेन जीवातुभिरथाऽगदैः । मृत्युञ्जयादिभिर्म त्रैस्त्राणं नैवाऽस्ति मृत्युतः ॥ १४४ ॥ 80 खड्गपञ्जरमध्यस्थश्चतुरङ्गचमूवृतः । रङ्कवत् कृष्यते राजा हठेन यमकिङ्करैः ॥ १४५॥ यथा मृत्युप्रतीकारं पशवो नैव जानते । विपश्चितोऽपि हि तथा धिक् प्रतीकारमूढताम् ॥ १४६ ॥ येऽसिमात्रोपकरणाः कुर्वते क्ष्मामकण्टकाम् । यमधूभङ्गभीतास्तेऽप्यास्ये निदधतेऽङ्गुलीः ॥१४७॥
प्रोषिताः प्रवासिनः। २ चेलं वस्त्रम् , उरक्षेपः ऊर्ध्वतःक्षेपणम् । * °दानं महादानं संवृ०॥ ३ जुघुषे उच्चैः घोषणा विहिता। + "वलं ज्ञा° संवृ० ॥ ४ आविः प्रकटम् आसीट बभूव । ५ अथ अनन्तरम् एत्य आगत्य । ६ प्रागद्वारा पूर्वदिशास्थितेन द्वारेण । ७ पर्यनुयुञ्जताम् आचरितुं शक्नुयुः। ८ विसर्पिणी प्रसरणशीला । ९ त्राणरहितः अशरणः निराधारः । १जीवातुः जीवनौषधम् जीवनोपायः। ११ अगदो नाम औषधम् । गदो रोगः, तनाशकारी अगदः। *"स्ति देहिनः संल०॥
विपश्चितो विद्वांसः। ४ प्रतीकारः प्रत्युपायः दुःखहेतुनिराकरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org