________________
15
२७२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[तृतीयं पर्व तत्रापस्खापनीमहत्प्रतिबिम्बं च सोऽहरत् । देव्याः पार्श्वे च निदधे तया स्थित्या जगत्पतिम् ॥ ८६ ॥ खामिहात् ततः शक्रो मेरुतोऽन्ये तु वासवाः । पथा यथाऽऽगतेनैव खं खं लोकं ययुः क्षणात् ॥ ८७॥ __राज्ञाऽपि विदधे प्रातः सूनुजन्मोत्सवो महान् । हर्षस्यैकातपत्रत्वजनकः सकले जने ॥ ८८॥
कुलं राज्यं पुरी चाऽत्राऽभ्यनन्दद् गर्भगे हि तत् । अभिनन्दन इत्यस्य पितरौ नाम चक्रतुः॥८९॥ 5 शक्रसङ्क्रमितसुधां स्वस्मादङ्गुष्ठकात् पिबन् । पाल्यमानो द्युधात्रीभिः क्रमेण ववृधे प्रभुः ॥ ९०॥ सुरा-ऽसुरकुमारैश्च चित्रक्रीडनपाणिभिः । विचित्रक्रीडया क्रीडन् बाल्यं स्वाम्यत्यवाहयत् ॥ ९१॥
उद्यानपादप इव वसन्तमिव यौवनम् । सर्वाङ्गशोभाजनके पाप स्वाम्यभिनन्दनः ॥९२॥ सार्धधन्वत्रिशत्युच्चो जानुलम्बिभुजो बभौ । सदोलादुरिवाऽऽबद्धदोलायष्टिद्वयः श्रियः ॥ ९३ ॥ भालगण्डस्थलेनाऽर्धचन्द्रशोभाभिभाविना । मुखेन च बभौ स्वामी पूर्णेन्दुश्रीविडम्बिना ॥ ९४ ॥ स्वर्णशैलशिलोरस्कः पीनस्कन्धः कृशोदरः । एणीजो जगन्नाथः कूर्मोनतपदोऽशुभत् ॥ ९५ ॥ विषयेषु निरीहोऽपि भोग्यं कर्म निजं विदन् । पितृभ्यां प्रार्थितो राजपुत्रीः प्रभुरुपायत ॥ ९६ ॥ क्रीडोद्यान-सरो-वापी-शिलादिषु यदृच्छया । स रामाभिः समं रेमे ताराभिरिव चन्द्रमाः ॥ ९७ ॥ इत्थं च जन्मतः स्वामी सौख्यमनोऽहमिन्द्रवत् । पूर्वलक्षद्वादशकं गमयामास सार्धकम् ॥ ९८॥ अनुनीय न्यधाद् राज्येऽभिनन्दनविभुं ततः । स्वयं तु संवरनृपः प्रव्रज्याराज्यमाददे ॥ ९९ ॥ शशास लीलया स्वामी ग्राममेकमिवावनिम् । त्रिजगत्राणशौण्डस्य तस्यो-शासनं कियत् १ ॥ १० ॥ सार्धाः षट्त्रिंशतं पूर्वलक्षा अष्टाङ्गसंयुताः । निनाय राज्यं कुर्वाणो जगन्नाथोऽभिनन्दनः ॥ १०१॥ __अथेयेष प्रभुदीक्षां ते च लोकान्तिकामराः । सचिवा इव भावज्ञा एत्य व्यज्ञपयन्निति ॥ १०२ ॥ अलं संसारवासेन नाथ! तीथे प्रवर्तय । संसारसिन्धुं येनाऽन्येऽप्युत्तरन्ति दुरुत्तरम् ॥ १०३॥
लोकान्तिकेषु देवेषु विज्ञपय्य गतेष्विति । प्रारेमे वार्षिकं दानं निर्निदानं जगत्पतिः ॥ १०४ ॥ 20 खामिनो ददतो द्रव्यमानीयाऽऽनीय जृम्भकाः । शक्रादिष्टकुबेरेण प्रेरिताः पर्यपूरयन् ॥१०५॥
सांवत्सरिकदानान्ते चतुःषष्ट्याऽपि वासवैः । दीक्षाभिषेको विदधे विधिवजगदीशितुः ॥ १०६॥ कृताङ्गराग आमुक्तदिव्यांशुकविभूषणः । आरोहच्छिविकां नाथोऽर्थसिद्धां खार्थसिद्धये ॥ १०७ ॥ आदावुत्क्षिप्तया मत्यैरमत्येस्तदनन्तरम् । तया शिबिकया नाथः सहस्राम्रवणं ययौ ॥१०८॥ तत्र चोत्तीर्य तत्याज भगवान् भूषणादिकम् । तदंसंदेशे निदधे देवदृष्यं च वासवः॥१०९॥ माघस्य शुक्लद्वादश्यामभीचौ पश्चिमेऽहनि । कृतषष्ठः प्रभुः केशानुद्देधे पञ्चमुष्टिना ॥ ११०॥ शक्रः प्रतीष्य चिकुरानुत्तरीयाञ्चलेन तान् । क्षणेन गत्वा क्षीरोदेऽक्षिपद् भूयोऽपि चाऽऽगमत् ॥११॥ सुरा-ऽसुर-नृणां शक्रस्तुमुलं निषिषेध च । प्रतिपेदे च चारित्रं स्वामी सामायिकं पठन् ॥ ११२ ॥ मनःपर्ययसंज्ञं च तुयें ज्ञानमभूद् विभोः । नारकाणामपि सुखं तदा क्षणमजायत ॥ ११३॥ त्यक्त्वाऽङ्गमलवद् राज्यं सहस्रं पृथिवीभुजः । जगृहुः स्वामिना साधं प्रव्रज्यां मोहीतनीम् ॥११४ ॥
अपस्वापनी नाम विशेषरूपा निद्रा, यया जनः प्रत्यक्षमपि न किमपि जानाति, मूर्छित इव भास्ते । * स्वं स्थानं य सङ्घ०॥ २ चित्राणि विविधानि क्रीडनानि रमणकानि पाणी करे येषां तैः सह । रमणकं रमणसाधनम्, भाषा 'रमकडं। ३ दोलासहितो वृक्षः सदोलादुः । दोला हिन्दोलनकः, भाषायां 'हिंडोळी-हिंचको'। ४ निरीहः-आशातृष्णारहितः । ईहा माम लोभः गृद्धिः आसक्तिः। ५ उपायत विवाहं चकार । ६ इयेष अभिलाषं चकार । ७निर्निदानम् आशंसारहितम् । निदानं नाम आकाङ्क्षा आसक्तिः। 4 मुक्त नाम शरीरे यथास्थानं योजितम् । आ समन्तात् मुक्तं शरीरे धारितं-परिहितम् । ९ उत्क्षिता धृता, भाषायां 'धरेली-वहन करेली' । १० तद+अंस-तदंस, अंसो नाम स्कन्धः बाहुमूलम् । ११ दृष्यं वस्त्रम् । १२ उहः उत्पाटयामास । १३ प्रतीष्य प्रतिगृह्य । १४ चिकुराः केशाः। १५ तुर्य चतुर्थ मनःपर्यायज्ञानम् । १६ मोहनातनी मोहनीयकर्मनाशनीम् ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org