________________
द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
२७१ श्वेतवर्णश्चतुर्दन्तः करी कुन्दद्युतिवृषः । व्यात्तवको हरिलक्ष्मीरभिषेकमनोरमा ॥ ५३॥ पञ्चवर्णा च पुष्पस्रक पूर्णश्च रजनीकरः । द्योतमानश्च मार्तण्डः किङ्किणीमालितो ध्वजः॥५४॥ पूर्णकुम्भश्च सौवर्णः पद्मच्छन्नं महासरः । उत्तरङ्गः सरिन्नाथो विमानं च मनोरमम् ॥ ५५ ॥ रुचिरो रत्नपुञ्जश्च निधूमश्च विभावसुः । प्रबुद्धा खामिनी स्वमानेतान् राखे शशंस च ॥ ५६ ॥ एभिः स्वमैस्तव देवि! भावी त्रिजगदीश्वरः । नूनं सूनुरिति स्वमान् पार्थिवोऽपि व्यचारयत् ॥ ५७ ॥ 5 इन्द्रा अपि समेत्यैवं स्वमार्थ व्याचचक्षिरे । चतुर्थस्तीर्थनाथस्ते देवि! सूनुभविष्यति ॥ ५८ ॥
तं देव्यपि निशाशेषं जाग्रत्येवाऽत्यवाहयत् । निद्रा दूरं ययौ तस्या हर्षेणेवाऽपहस्तिता ॥ ५९॥ सिद्धार्थास्वामिनीकुक्षौ गर्भः सोऽथ दिने दिने । पद्मकोशे बीजकोश इव गूढमवर्धत ॥६०॥ सिद्धार्था स्वामिनी गर्भ सुखेन तमधारयत् । तादृशानामवतारः सुखाय जगतोऽपि हि ॥६१॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । माघशुक्लद्वितीयायामभीचिस्थे क्षपाकरे ॥ ६२॥ 10 सिद्धार्था स्वामिनी सूनुमनूनं तेजसा रवेः । सुखेन सुषुवे स्वर्णवर्ण प्लवगलाञ्छनम् ॥ ६३ ॥ लोकत्रयेऽपि युगपदुझ्योतोऽभूत् तदा क्षणम् । क्षणं च सौख्यमुत्पेदे नारकप्राणिनामपि ॥ ६४ ॥ षट्पञ्चाशद् दिक्कुमार्यः स्वस्वस्थानादुपेत्य ताः । देव्याः सूनोश्च विदधुः सूतिकर्म यथोचितम् ॥ ६५ ॥ विज्ञायाऽऽसनकम्पेन शक्रोऽर्हजन्म तत् तदा । आययौ पालकारूढः स्वामिवेश्माऽमरैः सह ॥ ६६ ॥ शको विमानादुत्तीर्य प्राविशत् स्वामिवेश्म तत् । तत्र च स्वामिनं स्वामिजननी च नमोऽकरोत् ॥६७॥15 दत्त्वाऽपस्वापनी देव्याः पार्श्वे सौधर्मवासवः । निधायाऽर्हत्प्रतिच्छन्दं पञ्चरूपोऽभवत् स्वयम् ॥ ६८॥ एकः शक्रः प्रभुं दधेऽन्यश्छत्रं द्वौ च चामरे । कुलिशं नर्तयन्नन्यो नृत्यन्निव ययौ पुरः ॥ ६९॥ प्राप मेरावतिपाण्डुकम्बलां स क्षणाच्छिलाम् । तत्सिंहासनमध्यास्त शक्रोऽङ्कारोपितप्रभुः ॥ ७॥
तत्राऽच्युतादयोऽपीन्द्रास्त्रिषष्टिः सपरिच्छदाः । समेत्याऽस्पयन् नाथमम्भस्कुम्भैर्यथाविधि ॥ ७१॥ पञ्चमूर्तीभूयेशानोऽप्यङ्के स्वामिनमादधे । एकश्छत्रं चामरे द्वौ शूलमन्यः पुरःसरः ॥७२॥ 20 विचक्रे स्फाटिकानुस्णश्चतुरो दिक्चतुष्टये । तच्छृङ्गोत्थैर्जलैः शक्रोऽनपयत् परमेश्वरम् ॥ ७३ ॥ प्रभुं विलिप्य सम्पूज्य वस्त्रालङ्करणादिना । उत्तार्याऽऽरात्रिकं चेत्थं शक्रः प्राञ्जलिरस्तवीत् ॥ ७४ ॥
स्वामिश्चतुर्थतीर्थेश! चतुर्थारनभोरवे! । चतुर्थपुरुषार्थश्रीप्रकाशक! जय प्रभो ॥ ७५ ॥ चिरानाथेन भवता सनाथमधुना जगत् । विवेकचौरैर्मोहाद्यैर्नैवोपद्रोष्यते क्वचित् ॥ ७६ ॥ पादपीठलुठन्मूर्ध्नि मयि पादरजस्तव । चिरं निविशंतां पुण्यपरमाणुकणोपमम् ॥ ७७ ॥ मदृशौ त्वन्मुखासक्ते हर्षवाष्पजलोर्मिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं क्षणात् क्षालयतां मलम् ॥ ७८ ॥ त्वत्पुरो लुठनैर्भूयान्मद्भालस्य तपस्विनः । कृतासेव्यप्रणामस्य प्रायश्चित्तं किंणावलिः ॥ ७९ ॥ मम त्वद्दर्शनोद्भूताश्चिरं रोमाञ्चकण्टकाः । नुदन्तां चिरकालोत्थामसद्दर्शनवासनाम् ॥ ८०॥ त्वद्वत्रकान्तिज्योत्स्नासु निपीतासु सुधाविव । मदीयैर्लोचनाम्भोजैः प्राप्यतां निर्निमेषता ॥ ८१ ॥ त्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ॥ ८२॥ 30 कुण्ठाऽपि यदि सोत्कण्ठा त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि वस्त्येतस्यै किमन्यया? ॥८३ ॥ तव प्रेष्योऽसि दासोऽस्मि सेवकोऽस्म्यसि किङ्करः। ओमिति प्रतिपद्यस्व नाथ! नातः परं ब्रुवे॥८४॥
स्तुत्वैवं पञ्चधाभूयेशानादादाय च प्रभुम् । प्राग्वच्छत्रादिभृच्छकः स्वामिवेश्म क्षणाद् ययौ ॥८५॥ १ मालित: शोभितः ॥२ उत्तरङ्गः ऊर्खतरङ्गः ॥ ३ विभावसुः अग्निः ॥ ४ जाप्रती निद्रारहिता ॥ ५अपहस्तिता तिरस्कृता। पनरूपाणि कृत्वा । ७ उक्ष्णः बलीवर्दान् । * चिरं ना संबृ०॥ निवसतां संवृ० ॥ ८ अमेक्ष्यप्रेक्षणम्-अदर्शनीयदर्शनम् । "रुडाणपदं किणः"। उपास्तिः-उपासना, करौ-कर्तारौ। "कौँ ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org