________________
२६८
[तृतीयं पर्व
कलिकालसर्वज्ञत्रीहेमचन्द्राचार्यप्रणीतं वासान् सुरादयस्तेषु ध्वनदुन्दुभि चिक्षिपुः । स्वामिवाचं प्रतीच्छन्तस्तस्थुर्गणभृतश्च ते ॥ ३७७ ॥ दिव्यसिंहासनं भूयोऽप्यध्याय प्रामुखः प्रभुः । अनुशिष्टिमयीं तेषां विदधे धर्मदेशनाम् ॥ ३७८ ॥ पूर्णायामथ पौरुष्यां व्यसाक्षीद देशनां विभुः। शाल्याकबली राजभवनादाजगाम च ॥ ३७९॥ क्षिप्तस्य तस्य खाद् भ्रश्यदर्धं देवैश्श्युतस्य तु । नृपैर) जनैरधं विभज्य जगृहे मुदा ॥ ३८०॥ अथोत्थायोत्तरद्वारा विनिर्गत्य जगद्गुरुः । देवच्छन्दे विशश्रामाऽश्रान्तोऽपि स्थितिरीदृशी ॥ ३८१ ॥
खाम्यद्धिपीठमध्यास्य चारुर्गणधराग्रणीः । स्वामिप्रभावाद् विदधे देशनां संशयच्छिदम् ॥ ३८२॥ द्वितीयस्यां स पौरुष्यां पूर्णायां देशनाविधेः । व्यरंसीत् कालवेलायामागमाध्ययनादिव ।। ३८३ ॥ . ततश्च स्वामिनं नत्वा सुरा-ऽसुर-नृपादयः । स्व स्व
इव ॥ ३८४॥ तीर्थे तत्र समुत्पन्नस्त्रिमुखो नाम यक्षराट् । त्रिनेत्रस्त्रिमुखः श्यामः षड्बाहुबर्हिवाहनः ॥ ३८५ ॥ 10 दक्षिणैर्नकुलधर-गदाभृदभयप्रदैः । युतो वामैर्भुजैर्मातुलिङ्ग-नागा-ऽक्षत्रिभिः ।। ३८६ ॥
तीर्थे तत्रैव चोत्पन्ना दुरितारिरभिख्यया । चतुर्भुजा गौरवर्णा मेषवाहनगामिनी ॥ ३८७ ॥ दक्षिणाभ्यां भुजाभ्यां तु वरदेनाऽक्षसूत्रिणा । वामाभ्यां शोभमाना तु फणिनाऽभयदेन च ॥३८८ ॥ त्रिमुखो दुरितारिश्च ततः शासनदेवते । सन्निधाने सदा भर्तुरभूतामात्मरक्षवत् ॥ ३८९ ॥
ततः स्थानात् प्रभुरपि साधुभिः परिवारितः । चतुस्त्रिंशदतिशयान्वितो व्यहरदन्यतः॥३९० ॥ 15 विभोर्विहरतोऽभूवन् द्वे लक्षे वतिनामथ । व्रतिनीनां तु षट्त्रिंशत् सहस्राणि त्रिलक्ष्यपि ॥ ३९१ ॥
सर्वपूर्वभृतां सार्धा शतानामेकविंशतिः । शतानि च षण्णवतिरवधिज्ञानशालिनाम् ॥ ३९२ ॥ तुर्यज्ञानिनां द्वादश सहस्राः सार्धकं शतम् । सहस्राणि पश्चदश केवलज्ञानिनां पुनः ।। ३९३ ॥ वैक्रियलब्धिसहस्रा विंशतिद्विशतोनिता । द्वादशैव सहस्राणि वादलब्धिमतां पुनः॥ ३९४॥
सहजैः सप्तभिन्यूना श्रावकाणां त्रिलक्ष्यथ । श्राविकाणां च षड्लक्षी सट्त्रिंशत्सहस्रिका ॥३९५ ॥ 20 आरभ्य केवलात् पूर्वलक्षं व्यहरत प्रभुः । चतुर्दशाब्द्या च चतुःपूर्वाझ्या चे विवर्जितम् ॥ ३९६ ॥
ज्ञात्वाऽऽत्मनो मोक्षकालं सर्वज्ञो भगवानथ । सम्मेतशैलशिखरं जगाम सपरिच्छदः ॥३९७॥ समं मुनिसहस्रेण तत्र च प्रत्यपद्यत । पादपोपगमं नामानशनं सम्भवप्रभुः ॥ ३९८॥ सुरा-ऽसुराणामधिपास्तदानीं सपरिच्छदाः । तत्रैत्य भक्तितस्तस्थुः सेवमाना जगत्प्रभुम् ॥ ३९९ ॥
मासान्ते सम्भवस्वामी सर्वयोगनिरोधिनीम् । शैलेशी शैलनिष्कम्पः प्रपेदे ध्यानमन्तिमम् ॥ ४००॥ 25
चैत्रस्य सितपञ्चम्यां विधौ मृगशिरःस्थिते । सिद्धानन्तचतुष्कोऽगादव्याबाधं पदं प्रभुः॥ ४०१॥ सहस्रं मुनयस्तेऽपि खामिनोंऽशा इवामलाः । तेनैव विधिना प्रापुस्तदेव परमं पदम् ॥ ४०२ ॥ पूर्वलक्षाः कुमारत्वे ययुः पञ्चदश प्रभोः । चतुश्चत्वारिंशद् राज्ये सपूर्वाङ्गचतुष्टयाः॥ ४०३ ॥ प्रव्रज्यायां पूर्वलक्षं चतुष्पूर्वाङ्गवर्जितम् । इत्यायुः पूर्वलक्षाणि षष्टिः श्रीसम्भवप्रभोः॥४०४॥ अजितस्वामिनिर्वाणात् कोटिलक्षेषु त्रिंशति । सागराणां गतेष्वासीनिर्वाणं सम्भवप्रभोः॥४०५॥
तत्राऽथ सम्भवजिनाधिपतेः शरीरसंस्कारमन्यदपि कर्म यथावदिन्द्राः । चक्रुर्विभज्य जगृहुश्च यथार्हमेते, दंष्ट्रा रदान् दिविषदः पुनरस्थिजातम् ॥ ४०६ ॥ खं स्खं स्थानं जग्मुरिन्द्राः सुराश्च, स्वाम्यस्थीनि स्थापयामासुरुच्चैः। अर्चाहेतोर्माणवस्तम्भमूर्ध्नि, तीर्थेशानामर्चनीयं न किं वा ? ॥ ४०७ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि श्रीसम्भवस्वामिचरितवर्णनो
नाम प्रथमः सर्गः ॥
30
रादू वि० संवृ०॥१व्यरंसीद् विरराम ॥ *8ङ्गना-गावा-क्ष.
* मुखो विभुः सङ्क०॥°ढके ब° संबृ०॥ संल. मो० सह ॥२ तुर्य चतुर्थ मनःपर्यायज्ञानम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org