________________
प्रथमः सर्गः ] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
२६७ अभवाय महेशायाऽगदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद् भवते नमः ॥ ३४५॥ अनुक्षितफलोदग्रादनिपातगरीयसः । असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥ ३४६ ॥ असङ्कास्य जिनेशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्रातरनस्तेऽस्मि किङ्करः ॥ ३४७॥ अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्यचिन्तारत्ने च त्वय्यात्माऽयं मयाऽर्पितः ॥ ३४८ ॥ फलानुध्यानवन्ध्योऽहं फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ किङ्कर्तव्यजडे मयि ॥ ३४९॥ 5 _स्तुत्वैवं विरते शके विश्वस्योपचिकीर्षया । भगवान् सम्भवस्वामी विदधे देशनामिमाम् ॥३५०॥ अनित्यं सर्वमप्यस्मिन् संसारे वस्तु वस्तुतः । मुधा सुखलवेनापि तत्र मूर्छा शरीरिणाम् ॥ ३५१॥ खतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चाऽऽगच्छदापर्दः । कृतान्तदन्तयत्रस्थाः कष्टं जीवन्ति जन्तवः॥३५२ ।। वज्रसारेषु देहेषु यद्यास्कन्दत्यनित्यता । रम्भागर्भसगर्भेषु का कथा तर्हि देहिनाम् ॥ ३५३ ॥ असारेषु शरीरेषु स्थेमानं यश्चिकीर्षति । जीर्ण-शीर्णपलालोत्थे चञ्चापुंसि करोतु सः ।। ३५४ ॥ 10 न मत्र-तन्त्र-भैषज्यकरणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटरवासिनाम् ॥ ३५५ ॥ प्रवर्द्धमानं पुरुषं प्रथमं ग्रसते जरा । ततः कृतान्तस्त्वरते धिगहो! जन्म देहिनाम् ॥ ३५६ ॥ यद्यात्मानं विजानीयात् कृतान्ते वशवर्तिनम् । को ग्रासमपि गृह्णीयात् ? पापकर्मसु का कथा ? ॥३५७॥ समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुद्बुदाः । यथा तथा क्षणेनैव शरीराणि शरीरिणाम् ॥ ३५८॥ आढ्यं निःस्वं नृपं रकं ज्ञं मूर्ख सज्जनं खलम् । अविशेषेण संहतुं समवर्ती प्रवर्तते ॥ ३५९ ॥ 15 न गुणेष्वस्य दाक्षिण्यं द्वेषो दोषेषु वाऽस्ति न । दावाग्निवदरण्यांनी विलुम्पत्यन्तको जनम् ॥ ३६०॥ इदं तु मास शङ्कवं कुशास्त्रैरपि मोहिताः । कुतोऽप्युपायतः कायो निरपायो भवेदिति ॥ ३६१॥ ये मेरुं दण्डसात् कर्तुं पृथ्वीं वा छत्रसात् क्षमाः । तेऽपि त्रातुं स्वमन्यं वा न मृत्योः प्रभविष्णवः॥३६२॥ आ कीटादा च देवेन्द्रात् प्रभावन्तकशासने । अनुन्मत्तो न भाषेत कथञ्चित् कालवचनाम् ॥ ३६३ ॥ पूर्वेषां चेत् क्वचित् कश्चिजीवन दृश्येत कैश्चन । न्यायपथातीतमपि स्यात् तदा कालवञ्चनम् ॥३६४ ॥20 अनित्यं यौवनमपि प्रतियन्तु मनीषिणः । बल-रूपापहारिण्या जरसा जर्जरीभवत् ॥ ३६५ ॥ यौवने कामिनीभिर्ये काम्यन्ते कामलीलया । निकामकृतथूत्कारं त्यज्यन्ते तेऽपि वार्द्धके ।। ३६६ ॥ यदर्जितं बहुक्लेशैरभुक्त्वा यच्च पालितम् । तद् याति क्षणमात्रेण निधनं धनिनां धनम् ॥ ३६७ ॥ उपमानपदं किं स्यात् फेन-बुद्बुद-विद्युती? । धनस्य नश्यतोऽवश्यं पश्यतामपि तद्वताम् ॥३६८ ॥ समागमाः सापगमाः सुहृद्भिबन्धुभिर्जनः । स्वस्य वाऽन्यस्य वा नाशे विकृतेऽपकृतेऽपि वा ।। ३६९ ॥ 25 ध्यायनित्यतां नित्यं मृतं पुत्रं न शोचति । नित्यताग्रहमूढस्तु कुड्यभङ्गेऽपि रोदिति ॥ ३७॥ शरीर-यौवन-धन-बान्धवादि न केवलम् । अनित्यं किन्तु भुवनमप्येतत् सचराचरम् ॥ ३७१॥ इत्यनित्यं विदन् सर्व शरीरी निष्परिग्रहः । नित्याय नित्यसौख्याय पदाय प्रयतेत तत् ॥ ३७२ ॥
श्रुत्वा तां देशनां भतुः पादपद्मान्तिके ततः । नरा नार्यश्च बहवो दीक्षामाददिरे तदा ॥ ३७३॥ तदा चारप्रभृतीनां गणभृन्नामकर्मणाम् । वाम्युद्दिदेश त्रिपदी स्थित्युत्पाद-व्ययात्मिकाम् ॥ ३७४ ॥ 30 द्वयग्रं शतं गणधरास्ते त्रिपद्यनुसारतः । असूत्रयन् द्वादशाङ्गी सचतुर्दशपूर्विकाम् ॥ ३७५ ॥ उत्थायाऽऽदाय शक्रोपनीतं चूर्ण क्षिपन् प्रभुः । अनुयोग-गणानुज्ञे तेषां द्रव्यादिभिर्ददौ ॥ ३७६॥
संसारवर्जिताय । २ रजोगुणरहिताय । ३ जलसेकवजितोऽपि फले: सम्भृतः तस्मात् ॥ ४ पत्राद्यगलनाद् गुरुतमः तस्मात् ॥ ५ त्रिशूलादिचिहरहितः। ६ आगच्छन्त्यः आपदः येषां ते आगच्छदापदो जन्तवः ॥ ७ रम्भा कदली, सगर्भः समानः ॥ ८पलाल: बुसम्, 'भूसु' इति प्रसिद्धम् ॥ ९ चञ्चा तृणमयः पुरुषः, स च क्षेत्रे धान्यादिरक्षणार्थं लोकै स्थाप्यते। चाडियो' इति प्रसिद्धम् ॥ १० बुहूदाः जलस्फोटाः, परपोटा इति प्रसिद्धम् ॥ ११ समवर्ती-समं सर्वेः सह वत्तेते इत्येवं शीलः समवर्ती यमः यमराज इति यावत्॥ १२ विशालम् अरण्यम् अरण्यानी ॥1 °ञ्चनम् संबृ० मो०॥ १३ जर्जरीभवत् वर्तमानकृदन्तम् । न जर्जरम् अजर्जरम्, अजर्जरं जर्जरं भवति इति जर्जरीभवत् ॥ १४ वृद्धस्य भावः वार्द्धकं-वृद्धत्वमिति ॥ 1 द्युताम् संबृ० स०॥१५ कुड्यं भित्तिः॥१६भनुयोगः मासवाचवा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org