________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ तृतीयं पर्व
त्रिगुप्तिः पञ्चसमितिमनभाग् निर्भयः स्थिरः । एकाग्रहग् विजहार वत्सराणि चतुर्दश ॥ ३१३ ॥ तदानीं च सहस्राम्रवणे सालत रोस्तले । द्वितीयशुक्लध्यानस्थस्तस्थौ प्रतिमया प्रभुः ॥ ३१४ ॥ ध्यानान्तरे तिष्ठतश्च घातिकर्मचतुष्टयम् । सम्भवस्वामिनोऽत्रुट्यच्छाखिनः शुष्कपत्रवत् ।। ३१५ ।। ततश्च कार्तिके मासि पक्षे च धवलेतरे । पञ्चम्यां च तिथौ शीतैरइमौ मृगशिरः स्थिते ॥ ३१६ ॥ - स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्ज्वलम् । सद्-भावि भूतवस्तूनां दर्शनप्रतिर्भूरिव ॥ ३१७ ॥ परमाधार्मिककृत-क्षेत्रजाऽन्योऽन्यजन्मनः । दुःखस्यान्तात् क्षणं सौख्यं तदा निरंयिणामभूत् ॥ ३१८ ।। सुरा - सुरेन्द्राः सर्वेऽपि तदानीं चलितासनाः । केवलज्ञानमहिम कर्तुं तत्र समाययुः ।। ३१९ ॥
ततः समवसरणकृते क्ष्मामेकयोजनाम् । ममृजुर्वायुकुमाराः सिषिचुश्च पयोमुचः ॥ ३२० ॥ चबन्धुर्व्यन्तरास्तां च स्वर्ण-रत्ना-श्मभिः शुभैः । पञ्चवर्णानि पुष्पाणि विकिरन्ति स्म तत्र च ।। ३२१ ॥ श्वेतच्छत्र-ध्वज-स्तम्भ- मकरास्यादिभूषितान् । प्रत्याशं चतुरस्तत्र तोरणांस्ते विचक्रिरे ॥ ३२२ ॥ रत्नपीठं विकृत्यान्तः परितस्तं विचक्रिरे । रौप्यं वप्रं भवनेशाः सौवर्णकपिशीर्षकम् ॥ ३२३ ॥ ज्योतिष्का मध्यमं वप्रं सरत्नकपिशीर्षकम् । तोपनीयं विदधिरे भूवधूवलयोपमम् ॥ ३२४ ॥ अथ रत्नमयं वप्रं माणिक्यकपिशीर्षकम् । तत्रोपरितनं चक्रुर्विमानपतयोऽमराः ।। ३२५ ।। बभूव प्रतिवप्रं च गोपुराणां चतुष्टयम् । द्वितीयवप्रे चैशान्यां देवच्छन्दं व्यधुः सुराः ॥ ३२६ ॥ 15 ऊर्द्धवप्रान्तरावन्या मध्ये चैत्यतरुं व्यधुः । साष्टधन्वशतक्रोशद्वयोच्चं व्यन्तरास्ततः ॥ ३२७ ॥
10
20
25
30
२६६
तस्याऽधो मणिभिर्बद्धे पीठे ते च्छन्दकं व्यधुः । तन्मध्ये ग्राकू सांहिपीठं रत्नसिंहासनं ततः ।। ३२८ ॥ छन्दकोपरि चक्रुश्च ते च्छत्रत्रितयं शुभम् । दधाते पार्श्वयोर्यक्षौ चामरे चेन्दुपाण्डुरे ॥ ३२९ ॥ चक्रे समवसृत्यग्रे धर्मचक्रं च भासुरं । व्यन्तरैर्धर्मचक्रित्वसूचकं परमेशितुः ॥ ३३० ॥
I
सुरैः सञ्चार्यमाणेषु सौर्वर्णेष्वम्बुजन्मसु । नवस्वारोपयन् पादौ सुरकोटीभिरावृतः ॥ ३३१ ॥ प्रातः समवसरणं पूर्वद्वाऽविशद् विभुः । त्रिः प्रदक्षिणयामास तत्र तं चैत्यपादपम् ||३३२|| नमस्तीति जल्पंश्छन्दकान्तर्निवेशितम् । सिंहासनमथाऽध्यास्त प्राङ्मुखः परमेश्वरः ॥ ३३३ ॥ • प्रभावात् स्वामिनः स्वामिप्रतिविम्बानि चक्रिरे । रत्नसिंहासनस्थानि व्यन्तरा अन्यदिक्ष्वपि ॥ ३३४ ॥ शिरसः पश्चिमे भागेऽभवद् भामण्डलं प्रभोः । इन्द्रध्वजः पुरस्ताच्च दुन्दुभिश्चाऽध्वनद् दिवि ।। ३३५ ।। प्रविश्य प्राग्द्वाराऽर्हन्तं नत्वाऽऽग्नेय्यामुपाविशन् । साधवोऽथ वैमानिक्यः साध्व्यर्द्धा वितष्ठिरे ||३३६ || पारद्वारा प्रविश्याऽर्हत्पादान् नत्वा च नैर्ऋते । अतिष्ठन् भवनपति - ज्योतिष्क-च्यन्तरस्त्रियः ॥ ३३७ ॥ प्रत्यग्द्वारेण प्रविश्याऽर्हन्तं नत्वा मरुद्दिशि । तस्थुः क्रमाद् भवनेश- ज्योतिष्क-व्यन्तराः सुराः ॥ ३३८ ॥ उदग्द्वारा प्रविश्याऽथ जिनं नत्वा क्रमेण तु । वैमानिका नरा नार्य ऐशान्यामवतस्थिरे ।। ३३९ ।। आद्यवप्रेऽवास्थितैवं श्रीमान् सङ्घचतुर्विधः । वत्रे द्वितीये तिर्यञ्चस्तृती. वाहन तु ॥ ३४० ॥
अथ शक्रो नमस्कृत्य स्वामिनं रचिताञ्जलिः । इति प्रचक्रमे स्तोतंताचा भक्तिसनाथया ।। ३४१ ॥ अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबाधवः ॥ ३४२ ॥ अनक्तस्निग्धमनसममृजोज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥ ३४३ ॥ raण्डवीरव्रतिनाशमिना समवर्त्तिना । त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः || ३४४ ॥
१ कृष्णे । २ चन्द्रे । ३ केवलज्ञानम् । ४ साक्षिभूतः । ५ नारकाणाम् । ६ महिमानम् । ७ समवसरणार्थम् । ८ पृथ्वीम् । ९ खनितकुमाराभिधानादेवा इत्यर्थः । १० प्रतिदिशम् । ११ भवनपतिदेवाः । १२ सुवर्णमयम् । १३ सुवर्णमयेषु कमलेषु । १४ पूर्वद्वारेण । * चोईमवस्थिताः संल० सङ्घ० ॥ १५ दक्षिणद्वारेण । १६ वायव्यां दिशि । + च सङ्घ० मो० ॥ १० सक्तियुक्तया । + स्वन्धवा' सं० ॥ १८ अभ्यङ्गरहितमपि । १९ मार्जनरहितमपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org