________________
प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
२६५ मार्गशीर्षस्य राकायां चन्द्रे मृगशिरःस्थिते । अह्नश्च पश्चिमे भागे कृतषष्ठतपास्ततः ॥ २८४ ॥ पञ्चभिर्मुष्टिभिर्मू! लीलयैव जगत्पतिः। उत्पाटयामास केशान् क्लेशान् पूर्वार्जितानिव ॥२८५॥ युग्मम् ॥ शक्रस्तान् स्वामिनः केशान् खकीयवसेनाञ्चले । शेषामिव प्रतीयेष क्षीरोदे चाक्षिपत् क्षणात् ।।२८६ ॥ सुरा-ऽसुर-नृणामाशु तुमुलं मुष्टिसंज्ञया । निषिषेध द्वाःस्थ इव क्षीरोदादेत्य वासवः ॥ २८७ ॥ सावधं योगमखिलं प्रत्याख्यामीत्युदीरयन् । देवादिपर्षत्प्रत्यक्षं चारित्रं शिश्रिये प्रभुः ॥ २८८॥ 5 मनःपर्ययमुत्पेदे ज्ञानं तुर्य प्रभोरथ । ज्ञानस्य केवलस्येव सत्यङ्कार उपस्थितः ॥ २८९ ॥ एकान्तदुःखदग्धानां प्रक्षिप्तानामिवानले । अपि नारकजन्तूनां तदा सुखमभूत् क्षणम् ॥ २९०।। उत्सृज्य तृणवद् राज्यं सहस्रं पृथिवीभुजः । सह त्रैलोक्यनाथेन दीक्षामाददिरे स्वयम् ॥ २९१ ॥ अथ शक्रो नमस्कृत्य भगवन्तं कृताञ्जलिः । स्तोतुमेवं समारेभे भक्तिनिर्भरया गिरा ॥ २९२ ॥
चतुर्ज्ञानधर! चतुर्यामधर्मप्रदर्शक! । चतुर्गतिप्राणिगणप्रीतिदायिन् ! जय प्रभो! ॥ २९३ ॥ 10 धन्यास्तास्त्रिजगन्नाथ! भरतक्षेत्रभूमयः । तीर्थेश ! जङ्गमं तीर्थ यासु त्वं विहरिष्यसे ॥ २९४ ॥ असिन् यससि संसारे संसारेण न लिप्यसे । पङ्कजं पङ्कजमपि याति पङ्किलतां न हि ॥ २९५ ॥ तवाऽसिधारासोदय जयतीदं महाव्रतम् । कर्मपाशच्छेदनाय प्रभविष्णु जगत्प्रभो! ॥ २९६ ॥ निर्ममोऽपि कृपालुस्त्वं निर्ग्रन्थोऽपि महर्द्धिकः । तेजस्व्यपि सदा सौम्यो धीरोऽपि भवकातरः ।।२९७॥ नितान्तं पूजनीयः स नाकिनां मानवोऽपि सन् । विहरन् कार्यसे येन पारणं विश्वतारण! ॥ २९८ ॥ 15 महोपकारजनकं स्वामिन्नविरतस्य मे । औषधं व्याधितस्येव भवदर्शनमीदृशम् ।। २९९ ॥ त्रिजगन्नाथ! नाथामि त्वयि भूयान्मनो मम । अनुस्यूतमिबोत्कीर्णमिव श्लिष्टमिवाऽनिशम् ॥ ३००॥ इति स्तुत्वा प्रभुं शक्रोऽन्येऽपीन्द्रा अच्युतादयः । स्थानं निजनिजं जग्मुः स्मरन्तः प्रभुसन्निधिम् ॥३०॥
द्वितीयसिन् दिने पुर्या तस्यामेव जगत्पतिः । राज्ञः सुरेन्द्रदत्तस्य गृहेऽगात् पारणेच्छया ॥३०२॥ सोऽभ्युत्थाय जगन्नाथं नमस्कृत्य च भक्तितः । परमान्नमुपादाय गृह्यतामित्यभापत ॥ ३०३ ॥ 20 एषणीयं कल्पनीयं प्रासुकं पायसं च तत् । पाणिपात्रेण विश्वैकपात्रं प्रभुरुपाददे ॥ ३०४ ॥ कल्याणकारणं दातुः प्राणमात्रकधारणम् । चकार पारणं तेन वादाऽगमनाः प्रभुः ॥ ३०५॥ तदाऽभूद् दुन्दुभे दो दिग्गजस्येव गर्जितम् । वसुधाराऽपतद् दिव्या दिवः शीर्णव कण्ठिका ॥३०६ ।। नन्दनस्येव सर्वस्वं पुष्पवृष्टिः पपात खोत् । गन्धाम्बुवृष्टिरभवद् दिग्दन्तिमदसोदरा ॥ ३०७ ॥ एंकरश्मिभृतानीव चेलीन्युचिक्षिपुः सुराः । अहो! दानं महादानं सुदानं चेति गीरभृत् ॥ ३०८॥ 25 भगवान् पारयामास यत्र तत्र तदैव हि । सुरेन्द्रदत्तो विदधे पीठं स्वर्ण-मणीमयम् ।। ३०९ ॥ त्रिसन्ध्यं पूजयामास तत् पीठं खामिपादवत् । सुरेन्द्रदत्तोऽसम्पूज्य बुभुजे जातुचिन्न हि ॥३१०॥
स्थानात् ततश्च भगवान् ग्रामे द्रोणमुखे पुरे । आकरे कपटे खेटे मैडम्बे पत्तने वने ॥ ३११ ॥ नवे नवेऽनैवस्थानो विविधाभिग्रहोद्यतः । द्वाविंशतिमनुद्विग्नः सहमानः परीपहान् ॥ ३१२ ॥
पूर्णिमायाम्। २ वस्त्रप्रान्तभागे। ३ कोलाहलम् । ४ हिंसा-असत्यप्रभृतिदोषरूपं सपापं व्यापारम् । ५ चतुर्थम् चतुर्वतात्मकधर्मप्रदर्शक! । ७ कमलम् । ८ पङ्के जातमपि । ९ मलिनताम् । १० सदृशम् । ११ समर्थम्। १२ परिग्रहरहितः। ११ संसारभीरुः। १४ देवानाम् । * रणम् सङ्घ० ॥ १५ व्रतप्रत्याख्यानरहितस्य । १६ याचे। १७ प्रोतम् । १८ खचितम् । १९ अचित्तम् । २० क्षीरान्नम्। २१ रसलोलुपतारहितचित्तः ।। २२ आकाशात् । २३ एकरज्जुबद्धानीव । २४ वस्त्राणि । २५ जलपथ-स्थलपथोपेतम् । २६ लोहाधुत्पत्तिस्थानम् । २७ कुनगरम् । २८ धूलीप्राकारम्, अथवा “खेटः पुरार्धविस्तरः" अभिधानचिन्ता काण्ड ४ लो० ३८॥ २९ सर्वतो दूरवर्ति सधिवेशान्तरम् । ३० विविधदेशागतपण्यस्थानम् । तच्च द्विधा-जलपत्तन स्थलपत्तनं च । अथवा "रणभूमिः" इति व्याख्यामज्ञप्तिवृत्तौ श्रीअभयदेवसूरयः । ३१ नित्यविहरणशीलः । चमः संव०मो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org