________________
कलिकालसर्वशश्रीहेमचन्द्राचार्यप्रणीतं
[ तृतीयं पर्व
श्मशानस्थानवर्तीनि निगूढानि गृहान्तरे । चिरभ्रष्टानि नष्टानि स्वर्णादीनि धनान्यथ ॥ २५५ ॥ आनीय पुर्या श्रावस्त्यां चत्वरेषु त्रिकेषु च । अन्येष्वपि प्रदेशेषु राशींश्चक्रुर्गिरीन्द्रवत् ॥ २५६ ॥ यो येनाऽर्थी स तद् द्रव्यं खैरमर्थयतामिति । आयुक्तैर्घोषणामुचैः श्रावस्त्यां स्वाम्यकारयत् ॥ २५७॥ स्वामी कोटिं साष्टलक्षां हाटकस्याऽन्वहं ददौ । अर्थिनस्तावतोऽर्थस्य भवन्ति ददतोऽर्हतः ॥ २५८ ॥ कोटीशतत्रयं स्वर्णस्याऽष्टाशीतिश्च कोटयः । लक्षाशीतिश्च ददिरे खामिना वत्सरेण तु ॥ २५९ ॥ सांवत्सरिकदानान्ते वासवाश्चलितासनाः । सान्तःपुरपरीवाराः स्वामिवेश्म समाययुः ॥ २६० ॥ ततः प्रदक्षिणीकृत्य स्वामिवेश्म विमानतः । अवतेरुश्यास्पृशन्तः पृथिवीं चतुरङ्गुलम् ॥ २६९ ॥ सन्नाथा जगन्नाथमथो विनयशालिनः । सर्वे प्रदक्षिणीचक्रुर्नमश्च भक्तितः ।। २६२ ॥ जन्माभिषेकवद् भर्तुरभिषेकमथाऽच्युतः । आभियोग्याहृतैस्तीर्थाम्भस्कुम्भैर्विधिवद् व्यधात् ॥ २६३ ॥ क्रमेण तद्वदन्येऽपि विदधुर्विबुधाधिपाः । दीक्षाकल्याणकस्त्रात्रं भक्तिकल्या जगत्पतेः ॥ २६४ ॥ सुरा - सुरेन्द्रवद् भक्त्या नरेन्द्रा अपि तत्क्षणम् । सम्भवखामिनचक्रुः पवित्रैः स्नात्रमम्बुभिः || २६५॥ वपुर्देवाधिदेवस्य देवदृष्यैर्दिवौकसः । ममृजुः स्नानतोयार्द्रमादर्शमिव काञ्चनम् || २६६ ॥ गोशीर्षचन्दनेनाऽथ नाथं विलिलिपुः सुराः । दिव्यानि च दुकूलानि भक्तितः पर्यधापयन् ॥ २६७ ॥ किरीटं मूर्ध्नि सर्वस्वमिव वज्राकरावनेः । कुण्डले कर्णयोर मुक्तामणिमये इव ॥ २६८ ॥ 15 कण्ठे हारं नीहाराद्रिभ्रश्यद्गङ्गानुहारकम् | केयूर- कङ्कणान् बाह्रोः सूर्यज्योतिर्मयानिव ॥ २६९ ॥ कुण्डलीभूतनालाभान् कटकान् पादपद्मयोः । एवं निदधिरे देवा भूषणानि जगद्विभोः ॥ २७० ॥ ॥ त्रिभिर्विशेषकम् ।।
5
10
सिद्धार्था नामतः सांह्निपीठसिंहासनां ततः । शिविकां रचयाञ्चक्रुर्भूर्भुजः स्वामिनः कृते ॥ २७१ ॥ अच्युतेन्द्रोऽप्याभियोग्यैः शिबिकां तां व्यकारयत् । वैमानिक विमानानामधिदेवी मित्रोच्चकैः ॥ २७२ ॥ 20 स्वयंकृतां तां शिबिकां नरेन्द्रशिबिकान्तरे । श्रीचन्दनेऽगरुमिवाऽच्युतेन्द्रोऽन्तरभावयत् ॥ २७३ ॥ अथाssरुरोह भगवान् दत्तहस्तो बिडौजैसा । शिबिकायां तत्र सिंहासनं हंस इवाम्बुजम् ॥ २७४ ॥ आदौ तदधुर्म या इव महारथम् । अनन्तरं दिविषदो घनवाता इवावनिम् || २७५ ।। ध्वनत्सु तूर्यवर्येषु समन्ताद् वारिदेष्विव । गन्धर्वेषु च कुर्वत्सु गीतिं कर्णसुधोपमाम् ॥ २७६ ॥ चित्राङ्गहरिकरणं नृत्यन्तीष्वप्सरःसु च । पठत्सु बन्दिवृन्देषु ब्रह्मसु ब्रह्मगेषु च ।। २७७ ।। आशंसन्तीषु माङ्गल्यं कुलवृद्धासु चोच्चकैः । धवलांश्च कुलस्त्रीषु गायन्तीषु मनोरमम् ॥ २७८ ॥ अग्रे पृष्ठे पार्श्वयोश्वाश्ववद् वल्गत्सु नकिषु । दृश्यमानः 'मेरनेत्रैर्दर्श्यमानोऽङ्गुलीदलैः ॥ २७९ ॥ स्थाने स्थाने नागराणां प्रतीच्छन् मङ्गलानि च । पीयूषवृष्टिभिरिव दृग्भिरानन्दयन् जगत् ॥ २८० ॥ दोर्धूयमानचमरो धृतच्छत्रश्च नाकिभिः । श्रावस्तीमध्यतः स्वामी सहस्राम्रवणं ययौ ।। २८१ ॥ ।। षड्भिः कुलकम् ॥ तस्माच्च शिबिकारत्नात् पादपादिव बैर्हिणः । दीक्षां हारमिवाऽऽदित्सुरुत्ततार जगद्गुरुः ॥ २८२ ॥ मुमोच तत्र भगवान् माल्या- ऽलङ्करणादिकम् । इन्द्रन्यस्तं देवदुष्यं स्कन्धदेशे दधार च ।। २८३ ।।
25
२६४
80
I
१ चतुष्पथेषु । २ मार्गत्रयसंयोगेषु । ३ सेवकजनैः । ४ सुवर्णस्य । ५ इन्द्राः । ६ आनीतैः । ७ भक्तिचतुराः । • मुकुटम् । ९ हिमगिरिपतद्गङ्गामनुकुर्वन्तम् । * नुकार' संवृ० ॥ १० सूर्यकान्तमणिमयानिव । ११ पादपीठेन सहितं सिंहासनं यस्यां वाम् । १२ इन्द्रेण । + 'मुद्दधु सङ्घ० सं० ॥ १३ अश्वाः | १४ एतन्नामानो वायवः । १५ चित्राभिनयाङ्गमोटनयुक्तं यथा स्वाद तथा । १६ देवेषु । १७ विकसितचक्षुर्भिः । १८ अतिशयेन वीज्यमाने चामरे यस्य । १९ बर्हिणशब्दस्य प्रथमैकवचनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org